मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 299, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ७ पान १५ ॥ श्रीगणेशाय नमः ॥ रविरुवाच । मदिरायां सुताः पंच तस्माद्दैत्यान् महाबलाः । तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥१॥ उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा । पंचैते शास्त्रसंपन्ना रेजुस्तन्नगरे द्विजाः ॥२॥ ततः किंचिद्गते काले राजा मोहासुरो द्विजाः । आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥३॥ समागतानुवाचाऽथ वचनं हितकारकम् । दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥४॥ मोहासुर उवाच । भो भो दैत्याधिपाः सर्वे प्रचंडाद्या वचो हितम् । शृणुध्वं सकलं विश्वं जयेयमधुना किल ॥५॥ यदि स्वमानसे दैत्या हितं भवति चेत्तदा । सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥६॥ शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः । अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥७॥ ततस्ते तं नमस्कृत्य संजगुर्हर्षसंयुताः । महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥८॥ दैत्येशा ऊचुः । सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते । जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥९॥ न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो । अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च सांप्रतम् ॥१०॥ रविरुवाच । इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् । आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥११॥ ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ । नानाशास्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥१२॥ तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः । रथसंस्थः स्वयं दैत्यैर्निजगाम स दंशितः ॥१३॥ चतुरंगचमूमध्ये रराज रथसंस्थितः । कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥१४॥ स्वयं शुक्रेण संयुक्तः पृथिवी- जयनोद्यतः । असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥१५॥ अपारा तस्य सेना सा छादयामास वै धराम् । चलनोत्थरजस्केन च्छादितो भास्कराऽभवत् ॥१६॥ कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमंडले । कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥१७॥ सप्तद्वीपवतीं पृथिवीं जित्वा तेऽसुरसत्तमाः । ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥१८॥ देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः । मोहासुरं भयोद्विग्ना इंद्रं ते शरणं ययुः ॥१९॥ इंद्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः । तेन सार्धं च कैलासे शंकरं शरणं ययुः ॥२०॥ शंकरेण युता देवा वैकुंठं केशवं ययुः । केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥२१॥ भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् । निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥२२॥ भास्कर उवाच । मदीय- वरदानेन समर्थो दैत्यपुंगवः । मोहासुरश्च देवेंद्रस्तं जेतुं कः क्षमो भवेत् ॥२३॥ कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् । अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥२४॥ त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् । पुण्यांते तस्य मृत्युर्वै भविष्यति