भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 309, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 309

खं. ३ अ. १२ पान २५ गणनाथो वै मोहहीनं जगत्तथा ॥३३॥ महोदरस्य तस्यैवावतारा विविधाः स्मृताः । चरित्रमखिलं तेषां गदितुं न प्रशक्यते ॥३४॥ रामः सीतावियोगार्तः शरणं तं महोदरम् । ययौ तेन स शांतोऽभूत् ससीतो भजने रतः ॥३५॥ दक्षिणस्यां दिशि प्रांते स्थापितोऽसौ महोदरः । देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥३६॥ इदं महोदरस्यैव चरितं मोहनाशनम् । मोहशांतिप्रदं पूर्णं कथितं वो मया द्विजाः ॥३७॥ यः पठेच्छृणुयाद्यश्च तस्मै शांतिप्रदायकम् । भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥३८॥ मोहेन मोहिता विप्रा मां वदंति परात्परम् । स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न संशयः ॥३९॥ एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् । गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥४०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते महोदराऽन्तर्धानं नामैकादशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सूर्येण कथितं चित्रं महोदरकथानकम् । श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः ॥१॥ मानसे धारयामासुर्गणेशोऽयं सुशांतिदः । योगरूपो न संदेहो भानुना बोधिता वयम् ॥२॥ हर्षयुक्ताः पुनस्तं ते वालखिल्याः प्रजापते । महोदरस्य पप्रच्छुश्चेष्टितं तस्य शांतिदम् ॥३॥ वालखिल्या ऊचुः । धन्योऽसि च रवे त्वं वै योगशांति- प्रकाशकः । वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥४॥ धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः । श्रुत्वा मनसि संतुष्टा भवामस्त्वदनुग्रहात् ॥५॥ सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् । आत्माकारेण सूर्यस्त्वं तन्न चित्रं किमप्युत ॥६॥ अधुना ब्रूहि देवेश रामो गणपतिं कथम् । अभजद्भक्तिसंयुक्तः शांतिरूपो बभूव ह ॥७॥ धन्यास्ते पुरुषा लोके गणेशस्य कथां रवे । पृच्छंति प्रपठन्त्यन्ये शृण्वते योगशांतिदाम् ॥८॥ मुद्गल उवाच । इति पृष्टो महातेजा वालखिल्यैः प्रजापते । रविस्तान् हर्षितो भूत्वा भो जगाद शृणुष्व तत् ॥९॥ रविरुवाच । अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । नारायणस्य संवादं मार्कंडेयस्य सिद्धिदम् ॥१०॥ मृकंडाच्च समुत्पन्नो मार्कंडेयो महामुनिः । कृतोपवीतको भूत्वा तताप परमं तपः ॥११॥ ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः । नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥१२॥ अयुते प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे । आययौ शंकरस्तत्र पार्वत्या गणसंवृतः ॥१३॥ ध्याने विष्णुं समाधृत्वा संस्थितो