भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 310, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 310

न बुबोध तम् । समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥१४॥ योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः । लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥१५॥ हृदये शंकरं दृष्ट्वा विस्मितोऽसौ महामुनिः । त्यक्त्वा ध्यानं बहिर्वीक्ष्य शंकरं प्रणनाम सः ॥१६॥ अथर्वशिरसा शंभुं स्तुत्वा हर्षसमन्वितः । पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥१७॥ तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥१८॥ गायत्री वेदमाता वै पिता ओंकार उच्यते । ओंकाराच्च वयं जाता जानीहि तापसोत्तम ॥१९॥ अतो जपेन गायत्र्याः संतुष्टोऽहं न संशयः । स्तुत्या गंभीरया विप्र दास्यामि हृदि वाञ्छितम् ॥२०॥ शिवस्य वचनं श्रुत्वा तं जगाद महामुनिः । भक्तिं देहि त्वदीयां मे मुक्तिं संसारसागरात् ॥२१॥ ततस्तं प्रत्युवाचेदं वाक्यं वाक्यविशारदः । शिवः संतोषतः पूर्णः स्वभक्तेभ्यो विशेषतः ॥२२॥ शिव उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामुने । मुक्तिश्च शाश्वती पूर्णा पुराणाचार्यता तथा ॥२३॥ आयुश्च सप्तकल्पारुधं भविष्यति महामुने । यद्यदिच्छसि तत्तत्ते सफलं नात्र संशयः ॥२४॥ एवमुक्तवांतर्दधे सशक्तिर्कोऽसौ शिवः स्वयम् । मार्कंडेयश्च संखिन्नः संस्थितोऽभून् महर्षयः ॥२५॥ प्रकीर्तिता मंत्रशक्तिर्गायत्री रूपधारिणी । देवता शंभुरूपा च कल्पिताऽभून् महात्मना ॥२६॥ शैवमार्गेण शंभुं सोऽभजच्चानन्यचेतसा । कालात्मकं महेशानं मोहहीनं विशेषवित् ॥२७॥ तत्र तेन समाख्यातं पुराणं सर्वसिद्धिदम् । मार्कंडेयं शिवस्यैव शक्तेर्माहात्म्यसंयुतम् ॥२८॥ ततो बहुगते काले नरनारायणावुभौ । आश्रमे तस्य देवर्षेर्जग्मतुः परमेश्वरौ ॥२९॥ बालखिल्य ऊचुः । वद भानो महाभाग चरित्रं च तयोः शुभम् । परमेश्वरसंज्ञौ तौ भवतः कथमादरात् ॥३०॥ भानुरुवाच । मम पुत्रश्च धर्मात्मा धर्मः सर्वसमानगः । तेन विष्णोस्तपस्तप्तं कीर्त्या सह महर्षयः ॥३१॥ गते वर्षशते पूर्णे विष्णुश्च वरदोऽभवत् । ताभ्यां पुत्रस्त्वमेवं नौ भव सोऽपि तथाऽकरोत् ॥३२॥ नरनारायणावेवं तयोः पुत्रौ बभूवतुः । नरो जीवमयः प्रोक्तो परो नारायणः शिवः ॥३३॥ तयोर्योगे च यद्ब्रह्म वैष्णवं कथ्यते बुधैः । अतस्तौ प्रसमाख्यातौ मया वः परमेश्वरौ ॥३४॥ धर्मस्याज्ञां गृहीत्वा वै निमिषारण्यगौ द्विजाः । भवतः स्म ततो देवौ तेपाते परमं तपः ॥३५॥ समाययौ तत्र साक्षात् स्वयं विष्णुर्यदृच्छया । तं दृष्ट्वा संनतौ तुष्टुवतुर्देवौ च केशवम् ॥३६॥ नानास्तोत्रैः प्रसाद्यैनं नेमतुर्भक्तितत्परौ । तावुवाच महाविष्णुरिच्छथः किं महामुनी ॥३७॥ ततस्तौ केशवं चैवोचतुः परमधार्मिकौ । वद योगं महाभाग सर्वशांतिकरं परम् ॥३८॥ एवमुक्तो