मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 318, कुल 1023 में से
संदर्भ में पढ़ें[header] खं. ३ अ. १७ पान ३४ [/header]
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥१॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥२॥ कलौ प्रमारको रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥३॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः । वदिष्यंत्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥४॥ अरिष्टैर्दुर्धीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥५॥ नाधीयते कलौ वेदान्न यजंति द्विजातयः । पठंति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥६॥ शूद्राणां मंत्रयोगैश्च संबंधो ब्राह्मणैः सह । भविष्यति कलौ विप्र शयनासनभोजनैः ॥७॥ शूद्रा भवंति राजानो ब्राह्मणान् बाधयंति ते । ब्रह्महत्यां पशोर्हत्यां कुर्वंते वै नरेश्वराः ॥८॥ स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वंति द्विजातयः ॥९॥ विनिंदंति गणेशानं ब्राह्मणान् दैवतान्यपि । वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥१०॥ कुर्वंत्यवेदकर्माणि ह्यनाधाराणि भो मुने । स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥११॥ कुशीलचर्या- पाखंडो वृथाऽनृतभयं भवेत् । याचकाः सर्ववर्णाश्च भविष्यंति कलौ युगे ॥१२॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यंति कलौ युगे ॥१३॥ शुक्लदंता अक्षजिता मुंडाः काषायवाससः । शूद्रा धर्मं चरिष्यंति ब्राह्मणानां कलौ युगे ॥१४॥ अन्नचौरा भविष्यंति तथा वेलाभिमर्षिणः । चौरा चौरस्य हर्तारो भर्तुर्हर्तार एव च ॥१५॥ दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः । द्यूतमद्यादिसंसक्ताः परस्त्रीलंपटा मुने ॥१६॥ कापालिकास्तथा चान्ये यतयो गृहमेधिनः । वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥१७॥ आसनस्था द्विजान् दृष्ट्वा न चलंत्यल्पबुद्धयः । ताडयंति द्विजान् शूद्रा राजानो राजजीविनः ॥१८॥ उच्चासनसमासीना ब्राह्मणानां च पूजकाः । भविष्यंति कलौ शूद्रा वेदाध्ययन- तत्पराः ॥१९॥ सेवावसरमालोक्य द्वारि तिष्ठंति वै द्विजाः । उपायनादि संगृह्य शूद्राणां राजजीविनाम् ॥२०॥ बुद्धिशालिन एवं वै शूद्रा धर्मान् वदंति वै । वेदवादविचारज्ञा ब्राह्मणान् शिक्षयंति ते ॥२१॥ तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् । विक्रेतारो भविष्यंति ब्राह्मणाश्च कलौ युगे ॥२२॥ पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरंतरम् । संसक्ताश्च भविष्यंति पतिद्रोहपरायणाः ॥२३॥ यतयश्च भविष्यंति शतशोऽथ सहस्रशः । मद्यस्त्रीसंगसंसक्ताश्चरंति च कलौ युगे ॥२४॥ वाममार्गाः पाशुपताः सांख्या वै पंचवाहकाः । भविष्यंति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥२५॥