मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 319, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. १७ पान ३५ ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षिष्यंति मानवान् ॥२६॥ करिष्यंत्यवतारांश्च ब्राह्मणानां कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥२७॥ शापयुक्ता गौतमस्य भविष्यंति विशेषतः । वामादिमार्ग- संसक्ता जनान् भ्रष्टांश्च कुर्वते ॥२८॥ अन्यजातिषु सर्वत्र भविष्यंति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥२९॥ मोहयिष्यंति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥३०॥ बौद्धमायाधरस्तत्र विष्णुः पाखंडपोषकः । सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥३१॥ कर्ममार्गस्य सञ्छेत्ता भ्रष्टा चार युतान्नरान् । करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥३२॥ अतज्ज्ञास्तं भविष्यंति शरणागतवत्सलम् । बौद्धमाया- श्रितं सर्वे भ्रष्टा चार युता नराः ॥३३॥ कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् । विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥३४॥ वर्षपंचसहस्राणि स्थिरा भागीरथी नदी । ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥३५॥ स्वधर्मविधि- संयुक्तं कर्म यत् क्रियते नरैः । तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥३६॥ विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते । कलावासुरभावेन गता देवा निजालयम् ॥३७॥ आसुरेण स्वभावेन तीर्थायतनकादिषु । समागतं नरं दृष्ट्वा गच्छंति तीर्थदेवताः ॥३८॥ तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः । प्रविश्य कर्मभोक्तारो भविष्यंति कलौ युगे ॥३९॥ तीर्थानि गुप्तभावेन देवतायतनानि वै । संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥४०॥ दैवेन संयुक्तं दृष्ट्वा स्वभावेन महासुराः । गच्छंति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥४१॥ तत्र वै कर्मकर्तारो नरा आसुरभावतः । भविष्यंति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥४२॥ क्रियारूपा महाशक्तिः संस्थिता जगतीतले । क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥४३॥ असुराणां सुराणां च सिद्धिदाता गजाननः । महिमानं स्वकीयं स कलौ संगोप्य संस्थितः ॥४४॥ धर्मपादाश्च चत्वारस्तपः शौचं दया तथा । सत्यं तत्र क्रमेणैव सर्वे नश्यंति धर्मजाः ॥४५॥ त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः । आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥४६॥ सत्यरूपमयः पादः कलौ तिष्ठति मानद । तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥४७॥ द्वापरस्य तु संध्यांशे गते पृथुबलः कलिः । बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥४८॥ ततः क्रमेण सत्यस्य विनाशश्च भविष्यति । तदा कोलाहलो विप्र देवानां सदने भवेत् ॥४९॥ कलौ दुःखयुता लोका अन्नादिकविवर्जिताः । ग्रामादि सकलं त्यक्त्वा वसंति वनगोचराः ॥५०॥ परस्परं क्षुधाविष्टा भक्षयंति विचेतसः । सत्यहीना धरित्री वै भविष्यति