मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 320, कुल 1023 में से
संदर्भ में पढ़ेंमहामते ॥५१॥ षोडशाब्दं परं चायुः पंचवर्षसमन्विता । अंतर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥५२॥ एवमासुर- भावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवंति ते ॥५३॥ तदा ढुंढिः सुराणां स हितायाऽवतरिष्यति । धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥५४॥ धर्मं प्रवर्तयित्वा स अंतर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं संध्यांशेन युगक्रमैः ॥५५॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥१॥ ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च । प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः ॥२॥ ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः । क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते ॥३॥ गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः । अंत्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥४॥ ब्राह्मणश्च समुत्पन्नो बालभावपरायणः । पंचमे सप्तमे चैवाऽष्टमे मौंजीं समाचरेत् ॥५॥ कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ । तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥६॥ तत्रैव ब्रह्मचर्यांतं ब्राह्मणः प्रसमाचरेत् । सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥७॥ प्रातःकाले ब्रह्मरूपां मध्याह्ने रूद्ररूपिणीम् । गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥८॥ भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः । स्वाहांता- भिर्महातेजाः स्पृशेद्व्यासेषु चेंद्रियम् ॥९॥ तर्जन्यांगुलीभिश्च तिसृभिः संस्पृशेन् मुखम् । तर्जन्यंगुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥१०॥ अंगुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् । कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥११॥ अंगुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च । सर्वांगुलीभिर्भ्रूमध्यमंगुष्ठाग्रेण वै शिखाम् ॥१२॥ सर्वांगुलीभिर्बाहुं स्वं स्पृशे- द्व्यासादिकर्मसु । एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥१३॥ मंत्रैर्वैदिकसंभूतैः संध्या कार्या विशेषतः । न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥१४॥ व्याहृतीनां च गायत्र्याः षडंगेष्वक्षरोद्भवान् । गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥१५॥ सूर्यश्चेति च मंत्रेण प्रातःकाले विशेषतः । आपः पुनंतु मध्याह्ने सायाह्नेऽग्निश्च मंत्रतः ॥१६॥ ततो मार्जनकं