मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 321, कुल 1023 में से
संदर्भ में पढ़ेंकुर्यान्नवविंशतिसंख्यया । ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥१७॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् । ब्रह्मचारी शतान्येव पंचकालेषु वै पृथक् ॥१८॥ गायत्र्याश्च जपं कुर्याद्भागवतो मानसैक्यतः । अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥१९॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं संध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥२०॥ त्रिपदां चैव गायत्रीं जपेदोंकारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥२१॥ आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते । भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥२२॥ ततः सा त्रिपदा विप्र गायत्री च ततः पुनः । ओंकारो विधिना नित्यं जपः संक्रियते द्विजैः ॥२३॥ संन्यासिभिश्च विप्रेंद्र चतुष्पादा विशेषतः । जप्यव्या सैव गायत्री स्वस्वाश्रमविभागशः ॥२४॥ ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने । भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥२५॥ भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः । भवदंतं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥२६॥ गृहीता गुरुणा भिक्षा संपूर्णा यदि मानद । तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥२७॥ स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना । गुरुणा तावतीं भुक्त्वा संतिष्ठेत्तस्य सन्निधौ ॥२८॥ पालाशदंडसंयुक्तः सायं प्रातः स वह्निषु । जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥२९॥ गुरुदेवपरं तस्य दैवतं सर्वभावतः । गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥३०॥ एकांते गुरुपत्नीभिर्न वसेच्च कदाचन । न स्त्रीभिः सह संभाशां स कुर्यात् कार्यहीनकः ॥३१॥ स्त्रीगानादिकभावान् वै शृणुयान्न सुयंत्रितः । न शुक्लं संत्यजेतापि ब्रह्मचारी विशेषतः ॥३२॥ स्वप्ने शुक्लं गतं चेद्वै तदा स्नानं समाचरेत् । अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥३३॥ गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने । न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥३४॥ एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् । ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥३५॥ वर्षाणि द्वादशैवाऽथ षोडशाऽप्यथ वा द्विजः । अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥३६॥ वेदादिकं समभ्यस्य कृत्वा कंठगमादरात् । पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षि- णाम् ॥३७॥ मनोविषयसंयुक्तं यदा तत्र गृही भवेत् । नोचेत् संन्यासनं कुर्यादथवा वनगो भवेत् ॥३८॥ अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः । यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥३९॥ कृतमध्ययनं येन तदधीनं महामुने । ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥४०॥ ब्रह्मचर्यमिदं प्रोक्तं संक्षेपेण महामुने । श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥