भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 323, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 323

खं. ३ अ. १९ पान ३९ योगभूमिक्रमेण च । योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥२६॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै । ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥२७॥ द्वंद्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी च सदा मुने ॥२८॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥२९॥ चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेंद्रियो जितप्राणो निःसंगः सर्वकर्मसु ॥३०॥ अहिंसा परमो धर्मः संन्यासानां विशेषतः । तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥३१॥ त्रिदंडी यस्तु संन्यासी कुटीचक उदाहृतः । विधिं तत्र प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ॥३२॥ स्वधर्माचरणं नित्यं देहदंडः स उच्यते । मौनं वाचामयं दंडो द्वितीयश्च प्रकीर्तितः ॥३३॥ सर्वत्र रसहीनं च मानसं वर्तते यथा । कर्तव्यं तत्तथा तेन मनोदंडः प्रकीर्तितः ॥३४॥ कुटीं देहमयीं योगी चालयेत् बिंबभावतः । ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥३५॥ ततो बहूदको योगी द्विदंडी स भवेन् मुने । देहदंड- विहीनत्वात् स्वेच्छाचारी विशेषतः ॥३६॥ एकगर्तस्थमुदकं सर्वैः संगृह्यते यथा । गर्ते दोषो नराणां वै विद्यते न कदाचन ॥३७॥ तथात्मा देहसंस्थश्च चतुर्देही विकारतः । भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥३८॥ सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः । बहूदकः स निःसंगो देहादिभ्यः प्रकीर्तितः ॥३९॥ ततो हंसाश्रमः प्रोक्तो मानसे दंडधारकः । देहवाणीदंडहीनः स्वेच्छाचारी मतो मुने ॥४०॥ देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् । तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥४१॥ द्वंद्वं जलमयं प्रोक्तं देहदेहिस্বরূপकम् । तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥४२॥ ततः परमहंसश्च ज्ञानदंडपरायणः । देहवाणीमनोभूतैर्दंडैर्हीनः प्रकीर्तितः ॥४३॥ देहदेहिमयं ब्रह्म भ्रांतियुक्तं विशेषतः । तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥४४॥ सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने । तत्र संस्थो महायोगी त्रिविधेषु विभागः ॥४५॥ नाहं देहो न देहस्थो देहदेहिमयो न वै । सदा साक्षिस्वरूपस्थो ज्ञानानंदमयो भवेत् ॥४६॥ यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् । तत्तयक्त्वा द्वंद्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥४७॥ चतुर्विधोऽयं संन्यासस्तत्राश्रम- समाश्रितः । अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥४८॥ मनसा रसयुक्तेन विषयादिषु भो मुने । संन्यासश्च कृतो येन नारकः स भविष्यति ॥४९॥ कपर्दिका यदा तेनैका गृहीता महामुने । तदा सहस्रवर्षाणि कुंभीपाके पतेत् ध्रुवम् ॥५०॥ स्त्रीसंभोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् । संभवेच्चेतदा विप्र गोसहस्रवधी भवेत् ॥५१॥ कृते मनः सदाऽऽधीनं नराणां