मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 324, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २० पान ४० धर्मयोगतः । ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥५२॥ त्रेतायां चंचलं चित्तं धर्मस्य पादहीनतः । तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥५३॥ द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च । मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥५४॥ कलावासुरभावेन नष्टो धर्मः क्रमेण वै । तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥५५॥ नामस्मरणमार्गे वर्णाश्रमो न च विद्यते । संन्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥५६॥ कलावासुरबाहुल्यान्न संन्यासस्य योग्यता । चंचलं देहचित्तादि तेन नष्टो भविष्यति ॥५७॥ वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् । तस्य दंडो न विद्येतादंडी वेदे स कथ्यते ॥५८॥ ज्ञानदंडपरित्यागात् स्वयं योगी भवेन्नरः । निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥५९॥ कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् । तदा विधिसमायुक्तो जंतुर्भवति निश्चितम् ॥६०॥ किंचिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तितम् । तदा निषेधसंयुक्तो नरो भवति मानद ॥६१॥ अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः । तेनाचरित आचारः स एवं तस्य योगदः ॥६२॥ अतो योगी महाभाग दंडहीनः प्रकीर्तितः । वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥६३॥ स विनायकनामा वै नायकैर्वर्जितः स्वयम् । योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥६४॥ ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया । यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥६५॥ लोकसंग्रहणार्थं स नित्यं धर्मं समाचरेत् । निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥६६॥ एतदाश्रममार्गश्च कथितस्ते महामुने । मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥६७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने । ब्राह्मणः क्षत्रियो वैश्यः शृणु शूद्रः प्रकथ्यते ॥१॥ व्यभिचारेण तेषां वै वर्णा जाता महामुने । नानाविधा विशेषेण जानीह्यत्र न संशयः ॥२॥ तत्र ब्राह्मणधर्मं ते कथयामि समासतः । शृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥३॥ चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता । उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥४॥ अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः । तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥५॥ गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥६॥