मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 325, कुल 1023 में से
संदर्भ में पढ़ेंअथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥७॥ एका वृत्तिरियं प्रोक्ता द्वितीयां शृणु सांप्रतम् । भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥८॥ तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा । शुक्लवृत्त्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥९॥ तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् । अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥१०॥ कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् । तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥११॥ स्वधर्मः पूर्वभागे ते कथितश्च महामुने । सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥१२॥ क्षत्रियाणां च शस्त्रादिधारणेन महामुने । देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥१३॥ अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् । संन्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥१४॥ वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् । कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥१५॥ संन्यासधर्महीनश्च सदा तिष्ठेत् स मानद । क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥१६॥ समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् । अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥१७॥ कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै । तर्पणं ब्राह्मणास्येन मंत्रेण तु समाचरेत् ॥१८॥ एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम । शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥१९॥ दासत्वन्नात्र संदेह आश्रमो गृहिसंज्ञितः । दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥२०॥ कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा । पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥२१॥ तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा । तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥२२॥ नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् । तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥२३॥ नाममंत्रेण पूजा वै कर्तव्या स्मरणं तथा । मृत्तिकार्चां समभ्यर्चेन्नाममंत्रेण वा मुने ॥२४॥ आवाहनादि प्रारभ्य विसर्गांतं समाचरेत् । पुराणसंभवैर्मंत्रैः श्राद्धतर्पणकादिकम् ॥२५॥ ब्राह्मणानां मुखैश्चैव शूद्रैः कर्तव्य- मादरात् । न पुराणादिसंभूताः श्लोकास्ते शूद्रजातिभिः ॥२६॥ पठितव्या महाभाग श्रवणं संमतं सदा । अंत्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥२७॥ कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन । पुराणसंभवैर्मंत्रैर्न कर्तव्यं महामुने ॥२८॥ कर्म किंचिच तैः सर्वैः स्वस्वधर्मपरायणैः । पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥२९॥ धान्यं तैः संप्रदातव्यमेष मार्गः पुरातनः । स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥३०॥ भवंति नात्र संदेहो महाभोगाः सुखे रताः । प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैंद्रकम् ॥३१॥ वायवं वैश्यजातीनां गांधर्वं शूद्रजन्मिनाम् । स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥३२॥