मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 326, कुल 1023 में से
संदर्भ में पढ़ेंख. ३ अ. २१ पान ४२ तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः । एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् । शृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते । जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥१॥ चंद्रो गंधर्वको वह्निर्द्वे द्वे वर्षे महामते । कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥२॥ तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः । दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥३॥ सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः । कन्या नराय दातव्या साधवे कुलजाय वै ॥४॥ दशवर्षाधिका कन्या रजोयुक्ता च संमता । न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥५॥ पदे पदे ब्रह्महत्यां लभंते जनकादयः । अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥६॥ कन्यादानसमं पुण्यं विद्यते न कदाचन । यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥७॥ रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् । वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥८॥ दासीवत्तं पतिं सा वै संभजेद्भक्तिसंयुता । वने पतिर्यदा यात- स्तदा तमनुगा भवेत् ॥९॥ यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ । पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥१०॥ यदि संन्यासधारी चेत् पतिर्भवति भो मुने । तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥११॥ यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् । वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥१२॥ मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला । तदा पत्या न संगच्छेद्द्विधवाधर्मगा भवेत् ॥१३॥ चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि । पंचमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥१४॥ विधवा स्त्री सदा विप्र एकभुक्तपरायणा । व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥१५॥ एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः । श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥१६॥ सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् । मनुजैस्तत्र पितॄणां कर्म संक्षेपतः शृणु ॥१७॥ अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिंडान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥१८॥ पिंडान्वाहार्यकं श्राद्धं संक्रमेषु प्रशस्यते । अपराह्ने द्विजातीनां प्रशस्तेनामिषेण वै ॥१९॥