मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 328, कुल 1023 में से
संदर्भ में पढ़ेंख. ३ अ. २२ पान ४४ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् । तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥१॥ नानामंत्रजपेनैव नानाध्यानपरायणैः । निराहारप्रभावेण तोषितस्तैर्गजाननः ॥२॥ पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः । उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥३॥ ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः । बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥४॥ सर्वेषामीप्सितं दत्त्वा ययौ स्वानंदके पुरे । ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥५॥ मन्वंतरेष्वतीतेषु तैः पुनश्च गणेश्वरः । आराधितो विशेषेण योगशांत्यर्थमादरात् ॥६॥ क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः । एकभावेन योगज्ञा योगाकारं महामुने ॥७॥ पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते । पौत्रादिक्रमभावेन पालिता तैर्वसुंधरा ॥८॥ वैवस्वतेंतरे प्राप्तेऽधुना तन्न ब्रवीमि ते । शृणु संक्षेपतो विप्र मनुजानां चरित्रकम् ॥९॥ मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने । सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥१०॥ इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः । नरिष्यंतपृषध्रौ च नभगः परिकीर्तिताः ॥११॥ नवैते सूर्यवंशो वै शक्रतुल्यपराक्रमाः । ज्येष्ठे चंद्रस्य वंशो वै स्त्रीभावात् संबभूव ह ॥१२॥ सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ । वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥१३॥ दैवयोगेन राजाऽयं ययौ गोरीवनं मुने । तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥१४॥ शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा । मृकंडदेहज शृणुष्वोग्रं वै तत्र कारणम् ॥१५॥ गौरीवने भवान्या स नग्नः शंभुश्च सा तथा । नग्ना रेमे शिवेनैव तया शंभुश्च मानद ॥१६॥ एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः । दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥१७॥ तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने । ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥१८॥ ततः शिवेन शापो वै दत्तस्तत्र वने मुने । प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥१९॥ सुद्युम्नस्तत्र संजातो नारीरूपो विशेषतः । शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥२०॥ ततस्तत्र बुधो देवश्चंद्रपुत्रः समाययौ । तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥२१॥ साऽपि तं चकमे तत्र देवरूपं महाप्रभम् । तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥२२॥ तस्यां पुरूरवा जज्ञे चंद्रवंशधरः प्रभुः । श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥२३॥ तदर्थं च वसिष्ठेन गणेशस्य महामनुः । दत्तो विनायकायेति नमोंतः स्त्रीस्वरूपिणे ॥२४॥ राजपुत्री वनं गत्वा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षस्तां ययौ भक्ति- भावतः ॥२५॥ तया संपूजितो ढुंढिः स्तुतस्तस्यै वरं ददौ । तया पुरुषभावाय याचितश्च वरः शुभः ॥२६॥ तथेति तं पुनः