मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 329, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २२ पान ४५ सद्यः कृत्वा नरसुरूपिणम् । गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥२७॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥२८॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण तोषयामास नित्यदा ॥२९॥ शांतियोगधरः सोऽपि बभूव वनसंस्थितः । अंते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥३०॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥३१॥ वनं ययौ महाभागो मनुर्वैवस्वतो मुने । सूर्यात् प्राप्य महामंत्रं जजाप च षडक्षरम् ॥३२॥ सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् । अभजय्योग- शांत्यर्थं सोऽपि शांतो बभूव ह ॥३३॥ नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा । महायोगी मनुर्देवं न मुमोच कदाचन ॥३४॥ इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः । अष्टाक्षरेण मंत्रेणाऽतोषयद् गणनायकम् ॥३५॥ शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् । स्तुतः संपूजितस्तेन ययौ स्थानं गणेश्वरः ॥३६॥ गणेश्वरवरदानेन विकुक्षिरतस्य चात्मजः । बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥३७॥ संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् । पुनस्तेन सुमंत्रेण तोषयामास विघ्नपम् ॥३८॥ क्रमेण शांतिमापन्न इक्ष्वाकुर्ब्राह्मणो मुने । ब्रह्मभूतः स्वभावस्थः स्वानंदे गणपं ययौ ॥३९॥ विकुक्षेरभवन् पुत्रा दश पंच महामुने । तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥४०॥ दैत्यैः संताडिता देवाः शरणं तं नृपात्मजम् । ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥४१॥ तत्रेंद्रं वृषभं तस्य कृत्वा ककुदि संस्थितः । जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥४२॥ ककुत्स्थस्तेन देवेंद्रैर्नाम्ना संकीर्तितो नृपः । स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥४३॥ ततोऽनेनाः पृथुस्तस्माद्विश्वरंधिश्च तत्सुतः । तस्माच्चंद्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥४४॥ तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः । ततः कुवल्याश्वश्च पुत्रोऽभूदेव धुंधुहा ॥४५॥ धुंधुं हत्वा महादैत्यं धुंधुमारो बभूव ह । धुंधुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥४६॥ दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः । दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥४७॥ हर्यश्वस्य निकुंभोऽभून्निकुंभाद्दृहणाश्वकः । कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य संमतौ ॥४८॥ कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः । स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥४९॥ तेन पुत्रार्थमानंदान् मुनिभिश्च महात्मना । वरुणस्य कृतो यज्ञ- स्तत्र तैर्मंत्रितं जलम् ॥५०॥ रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः । ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥५१॥ राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः । ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥५२॥ तवोदरे तथा गर्भो