मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 330, कुल 1023 में से
संदर्भ में पढ़ेंभविष्यति न संशयः । एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥२३॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । संपूर्णी तत्र देवेंद्रो गर्भं तस्य महात्मनः ॥२४॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेंद्रस्तानुवाच ह ॥२५॥ मां धास्यति ततस्तेन मांधाता कथितो द्विजैः । इंद्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥२६॥ स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥२७॥ गुणा वर्णयितुं शक्या मांधातुर्न महात्मनः । स एव गणराजं तमभजन्नित्यमादरात् ॥२८॥ वसिष्ठाद्योगमाश्रित्य योगिवंद्यो बभूव ह । पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥२९॥ गणेशभक्तिं वै तत्र चकारांऽते लयं ययौ । स्वानंदे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥३०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांधातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुनिरुवाच । मनोर्वंशे महाभागोऽबरीषश्च बभूव यः । एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥१॥ नरनारायणावूचतुः । मनोर्वंशेऽन्त्यपुत्रोऽभूदंबरीषः प्रतापवान् । नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥२॥ एकादशीव्रतेनैव तोषयामास माधवम् । ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥३॥ दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् । तं प्रणम्य स राजर्षिरुवाच प्रकृतांजलिः ॥४॥ भगवन् स्वल्पकालस्था द्वादशी मे च पारणे । व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥५॥ स्वल्पकालेन संध्यादि कृत्वाऽऽगंतव्यमादरात् । तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥६॥ तत्र शीघ्रतया तेन कृतं संध्यादिकं मुने । तथापि कालयोगेन द्वादशी पगता ततः ॥७॥ मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् । नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥८॥ विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये । पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥९॥ ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने । राज्ञा तस्मै स्ववृत्तांतः कथितो विस्तरेण ह ॥१०॥ श्रुत्वा स कुपितोऽत्यंतं दुर्वासास्तं शशाप ह । निमंत्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥११॥ अतस्त्वं फलहीनो वै भविष्यसि न संशयः । एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥१२॥ ततः सोऽपि नृपोऽत्यंतं दुःखितः संस्थितोऽभवत् । उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥१३॥ अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् ।