मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 331, कुल 1023 में से
संदर्भ में पढ़ेंनिमंत्र्य तं विशेषेण जपध्यानपरायणः ॥१४॥ गते संवत्सरे तत्राऽऽजगाम मुनिनारदः । प्रपूज्य सर्ववृत्तांतं कथयामास तं नृपः ॥१५॥ ततस्तं नारदः प्राह शृणु राजन् महामते । जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥१६॥ तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः । द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥१७॥ अपराधविहीनस्य तवाऽयं विघ्न उत्थितः । दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥१८॥ अतस्त्वं विघ्नराजं तं भज यत्नेन मानद । तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥१९॥ विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम । सर्वेषामादिरूपोऽयमंते सोऽपि गणेश्वरः ॥२०॥ शिवविष्ण्वा- दयस्तस्य गणाः प्रोक्ता न संशयः । तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥२१॥ चित्तं बुद्धिस্বরূপं यत्तत्र चिंतामणिः स्थितः । तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥२२॥ त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः । तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥२३॥ एवमुक्त्वा मुनिस्तस्मै ददौ मंत्रं षडक्षरम् । महाविष्णुर्जपति यं ततः सोऽंतर्हितोऽभवत् ॥२४॥ अंबरीषस्तदारभ्य विघ्नेशं शरणं गतः । जजाप मंत्रराजं तं पूजयित्वा विनायकम् ॥२५॥ विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः । गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥२६॥ ततो दुर्वाससो विप्र मनश्चंचलतां गतम् । दयया स्वयमेवासावंबरीषं जगाम ह ॥२७॥ समागतं मुनींद्रं तं दृष्ट्वा विस्मितमानसः । प्रणम्यादावंबरीषोऽपूजयद् भक्तिसंयुक्तः ॥२८॥ ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः । दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥२९॥ दुर्वासा उवाच । क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम । अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥३०॥ त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप । उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥३१॥ मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् । सैव निष्फलरूपैकादशी तव भविष्यति ॥३२॥ अन्याः फलयुताः सर्वास्ते भवंतु नृपोत्तम । एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥३३॥ तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् । अंबरीषस्ततो देवं गणेशमभजत् सदा ॥३४॥ तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् । राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥३५॥ भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा । कालेनाऽंते गणेशानं ययौ योगेन तत्त्वतः ॥३६॥ अंबरीषस्य पठति चित्रं यच्च शृणोति यः । चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते अंबरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥