भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 332, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 332

[पान ४८]

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । पुरुकुत्सस्य दायादावभूतां तु महाबलौ । अंबरीषो महाभागो मुचुकुंदस्तथा- ऽपरः ॥१॥ अंबरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ । तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥२॥ चकार मुचुकुंदः स राजर्षिराज्यमुत्तमम् । धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥३॥ कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् । तत्र देवा जिताः सर्वै दैत्यैः परमदारुणैः ॥४॥ मुचुकुंदं ततो देवाः शरणं जग्मुरादरात् । ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥५॥ तत्र युद्धप्रसंगेन कालो विप्र गतो बहुः । युगान्तिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥६॥ युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह । ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥७॥ ततस्ते दैवताः सर्वे जगुः परमभाविताः । अधुना पर्वत- द्रोण्यां निद्रायुक्तो भव प्रभो ॥८॥ नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति । स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥९॥ तत्र ते वासुदेवस्य दर्शनं प्रहविष्यति । स एव ज्ञानसंदाता महायोगी नृपोत्तम ॥१०॥ ययावुवाचैव वनं तान् तथेति महाबलः। स गंधमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥११॥ ततो बहुगते काले वसुदेवसुतोऽभवत् । विष्णुः साक्षात् महायोगी तपसाऽऽराधितो मुने ॥१२॥ कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् । कंसस्य श्वशुरोऽत्यंतं क्रोधयुक्तो बभूव ह ॥१३॥ जरासंधो ययौ तत्र युद्धार्थं सैन्यसंयुतः । राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥१४॥ त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ । तन्ममर्द्द महातेजाः कृष्णः संकर्षणान्वितः ॥१५॥ पलायत ततो राजा गतः स्थानं पुनर्ययौ । तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥१६॥ एवं महाबलः सप्त दश वारं समागतः । जरासंधस्ततो राजा न यशः प्राप दुःखितः ॥१७॥ तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः । सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥१८॥ स वै यवनराजश्च यादवानां विनाशकृत् । गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥१९॥ तमागतं परिज्ञाय मायया निर्ममे स्वयम् । द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥२०॥ ततो यवनराजस्य समीपे स समागतः । दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥२१॥ नारदेन च कृष्णस्य चिह्नानि कथितानि वै । यवनेंद्राय तैः कृष्णं ज्ञात्वा संधावितोऽभवत् ॥२२॥ अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् । यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥२३॥ ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः । मुचुकुंदः स तं त्यक्त्वा गुहांतरगतोऽभवत् ॥२४॥ यवनेंद्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् । किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥२५॥ बोधितो यवनेनैवं मुचुकुंदः प्रतापवान् । तस्य नेत्रोद्भवो वह्निर्यवनं स