भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 333, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 333

खं. ३ अ. २५ पान ४९ ददाह च ॥२६॥ एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः । आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥२७॥ तमागतं समादृष्ट्वा मुचुकुंदो ननाम च । उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥२८॥ मुचुकुंद उवाच । देवैः संकथितं कृष्ण ममैतद्- भवत् प्रभो । अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥२९॥ मुचुकुंदस्य वाक्यं स श्रुत्वा हर्षसमन्वितः । जगाद तं महाभागं कृष्णः परमयोगवित् ॥३०॥ श्रीकृष्ण उवाच । अहं गणेश्वरः पूर्णो न भिन्नश्च महामते । एतदेव परं ज्ञानं संज्ञातव्यं त्वया नृप ॥३१॥ त्यक्त्वा पंचविधं चित्तं तदैश्वर्यं च मोहदम् । योगेन ब्रह्मणि प्रोक्तं गणेशास्त्वं भविष्यसि ॥३२॥ चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप । सिद्धिर्गणपतेर्माये तत्र बिंबं स्थितं च यत् ॥३३॥ तदेव गणनाथोऽयं पश्य तं योगसेवया । चित्ते चिंतामणिं भूप त्यक्त्वा बिंबभवं भ्रमम् ॥३४॥ गकारात्मकरूपां वै सिद्धिं जानीहि मानद । णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥३५॥ तं भजस्व महाभाग तेन शांतिमवाप्स्यसि । ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥३६॥ एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः । आगत्य मथुरायां स जघान यवनान् प्रभुः ॥३७॥ जरासंधं समागत्य धावितो रामसंयुतः । वंचयित्वा ययौ तं स द्वारकायां महामुने ॥३८॥ मुचुकुंदश्च राजर्षिः साधयामास यत्नतः । कृष्णेन कथितं योगं तेन शांतिं जगाम ह ॥३९॥ ततो भ्रमन् स राजेंद्रः पृथिव्यां यत्र तत्र च । गणेशमभजत् भक्त्या तं प्राणांतं महायशाः ॥४०॥ मुचुकुंदस्य यो मर्त्यश्चरितं शृणुयात् परम् । पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । अंबरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः । हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥१॥ पुरुकुत्सस्य पुत्रोऽभूत्त्रसदस्युस्ततोऽभवत् । अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसंमतः ॥२॥ अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः । तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥३॥ स एवाऽभूत्त्रिशंकुवाख्यो देहभृत् स्वर्गलोंकगः । तस्य पुत्रो हरिश्चंद्रः सर्वधर्मपरायणः ॥४॥ विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् । स्वानंदे गणनांथं सोऽन्ते जगाम महायशाः ॥५॥ रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् । चंपस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥६॥ ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः । सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥७॥ ताभ्यामाराधितो योगी भृगुः परमपावनः ।