मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 334, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २५ पान ५० पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥८॥ षष्टिसहस्रपुत्रा वै वृताश्च प्रभया ततः । एकं वंशधरं भानुमती वव्रे महामुने ॥९॥ भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः । असमंजसनामा वै पुत्रो वंशधरो मुने ॥१०॥ स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः । चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥११॥ वनं ययौ ततः पित्रा स संत्यक्तो महामुने । जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥१२॥ तस्य पुत्रः समुत्पन्नोऽंशुमान् धर्मपरायणः । प्रभायां षष्टिसहस्रं पुत्राणां प्रबभूव ह ॥१३॥ सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् । शतसंख्याः प्रमाणेन तत्रेंद्रः क्षुभितोऽभवत् ॥१४॥ अंत्ये यज्ञे समारब्धे मायया च सुराधिपः । अश्वं संगृह्य पाताले स्थापयामास सन्निधौ ॥१५॥ कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये । कुपितास्ते सहस्राणां षष्टिः परमदुर्जेयाः ॥१६॥ अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः । ततस्तैः खनिता भूमिः सर्वत्र बलसंयुक्तैः ॥१७॥ तैस्तु संवर्धितो विप्र समुद्रो लवणात्मकः । तेन सागर- नामाऽभूत्तदारभ्य स्वकर्मणा ॥१८॥ तमश्वराजं ददृशुश्चरंतं कपिलांतिके । तं चौरं सागरा ज्ञात्वा हंतुं शस्त्राणि संदधुः ॥१९॥ कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे । सगरा हर्षितस्तेन स प्रतापी पुरंदरः ॥२०॥ नारदात् सगरो ज्ञात्वाऽंशुमंतं पौत्रकं ततः । प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥२१॥ स्तुतः संपूजितस्तेन कपिलः प्रददौ हयम् । संगृह्य स ययौ विप्र सगरं स्वपितामहम् ॥२२॥ ततश्चकार तं यज्ञं संपूर्णं त्वश्वमेधकम् । ययौ राज्ये- ऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥२३॥ गुरोः प्राप्य महामंत्रं गाणेशं योगशांतिदम् । साधयित्वा स वै योगी बभूव परमद्युतिः ॥२४॥ अनन्यमनसा देवं गणेशमभजन्नृपः । अंते स गणपं विप्र ययौ ब्रह्मपरायणः ॥२५॥ अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥२६॥ तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः । दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥२७॥ ततो भगीरथो राजा दिलीपस्थापितः स वै । पालयामास संपूर्णं राज्यं सद्धर्मभावतः ॥२८॥ एकदा नारदस्तत्र जगाम नृपतिं मुने । पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥२९॥ नारद उवाच । भगीरथ महाभाग शृणु मे वचनं हितम् । तव ब्राह्मणसंक्रोधाद्दग्धाश्च प्रपितामहाः ॥३०॥ विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते । अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥३१॥ स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः । स्वर्गवासिन एवं ते प्रभविष्यंति पूर्वजाः ॥३२॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।