मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 335, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २५ पान ५१ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ययौ स्वर्गं ततो विप्र राजा संदुःखितोऽभवत् ॥३३॥ प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ । तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥३४॥ पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी । वरेण च्छंदयामास राजानं भक्तिसंयुतम् ॥३५॥ पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः । प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥३६॥ भगीरथ उवाच । यदि तुष्टा महाभागे तदा मे प्रपितामहान् । प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥३७॥ मदीयमुग्रवेगं संधारणार्थं महामते । पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥३८॥ तथेति स महीपालः पूजयामास शंकरम् । वर्षेणैकेन तं शंभुः प्रसन्नो वरदोऽभवत् ॥३९॥ स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शंकर । तथेति शिव ऊचे तं सस्मार स महानदीम् ॥४०॥ आगतां तां तदा प्राह पत देवि महीतले । धारयिष्यति ते वेगं शंकरः करुणानिधिः ॥४१॥ स्वर्गंगा गर्वयुक्ता च तथेति शिवस्तके । पपात सैव धाराभिः सहस्रेण समंततः ॥४२॥ शिवमस्तकमाप्लाव्द्य गमिष्यामि रसातलम् । इति संधार्य मनसि महावेगयुता ययौ ॥४३॥ तस्या गर्वं परिज्ञाय शंकरेण स्वमायया । जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥४४॥ नांतं जगाम शंभोः सा जटायास्तं नमाम वै । ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥४५॥ तत्र जह्नुं महीपालं ददर्श स्वर्गवाहिनी । तं तपंतं तपो घोरं जगाद चल तापस ॥४६॥ नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा । तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥४७॥ तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः । तपोबलेन तां पीत्वा संतस्थौ तपसि प्रभुः ॥४८॥ ततो भगीरथस्तं प्रणनामाऽथ महायशाः । प्रार्थितः स सुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥४९॥ तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते । पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥५०॥ विमानवरमारूढास्ते भगीरथसन्निधौ । ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥५१॥ राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी । पुत्रीभावेन संक्लृप्ताऽभवत् भागीरथी ततः ॥५२॥ एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् । भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥५३॥ संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् । वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥५४॥ साधयित्वा स वै राजा गाणपत्यों बभूव ह । अंते जगाम गाणेशसायुज्यं योगसेवया ॥५५॥ इदं भगीरथाऽऽख्यानं यः शृणोति नरोत्तमः । पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥५६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पंचविंशतितमोऽध्यायः ॥