भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ३ अ. २२ पान ४५ सद्यः कृत्वा नरसुरूपिणम् । गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥२७॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥२८॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण तोषयामास नित्यदा ॥२९॥ शांतियोगधरः सोऽपि बभूव वनसंस्थितः । अंते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥३०॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥३१॥ वनं ययौ महाभागो मनुर्वैवस्वतो मुने । सूर्यात् प्राप्य महामंत्रं जजाप च षडक्षरम् ॥३२॥ सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् । अभजय्योग- शांत्यर्थं सोऽपि शांतो बभूव ह ॥३३॥ नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा । महायोगी मनुर्देवं न मुमोच कदाचन ॥३४॥ इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः । अष्टाक्षरेण मंत्रेणाऽतोषयद् गणनायकम् ॥३५॥ शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् । स्तुतः संपूजितस्तेन ययौ स्थानं गणेश्वरः ॥३६॥ गणेश्वरवरदानेन विकुक्षिरतस्य चात्मजः । बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥३७॥ संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् । पुनस्तेन सुमंत्रेण तोषयामास विघ्नपम् ॥३८॥ क्रमेण शांतिमापन्न इक्ष्वाकुर्ब्राह्मणो मुने । ब्रह्मभूतः स्वभावस्थः स्वानंदे गणपं ययौ ॥३९॥ विकुक्षेरभवन् पुत्रा दश पंच महामुने । तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥४०॥ दैत्यैः संताडिता देवाः शरणं तं नृपात्मजम् । ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥४१॥ तत्रेंद्रं वृषभं तस्य कृत्वा ककुदि संस्थितः । जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥४२॥ ककुत्स्थस्तेन देवेंद्रैर्नाम्ना संकीर्तितो नृपः । स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥४३॥ ततोऽनेनाः पृथुस्तस्माद्विश्वरंधिश्च तत्सुतः । तस्माच्चंद्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥४४॥ तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः । ततः कुवल्याश्वश्च पुत्रोऽभूदेव धुंधुहा ॥४५॥ धुंधुं हत्वा महादैत्यं धुंधुमारो बभूव ह । धुंधुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥४६॥ दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः । दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥४७॥ हर्यश्वस्य निकुंभोऽभून्निकुंभाद्दृहणाश्वकः । कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य संमतौ ॥४८॥ कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः । स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥४९॥ तेन पुत्रार्थमानंदान् मुनिभिश्च महात्मना । वरुणस्य कृतो यज्ञ- स्तत्र तैर्मंत्रितं जलम् ॥५०॥ रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः । ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥५१॥ राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः । ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥५२॥ तवोदरे तथा गर्भो

भविष्यति न संशयः । एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥२३॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । संपूर्णी तत्र देवेंद्रो गर्भं तस्य महात्मनः ॥२४॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेंद्रस्तानुवाच ह ॥२५॥ मां धास्यति ततस्तेन मांधाता कथितो द्विजैः । इंद्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥२६॥ स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥२७॥ गुणा वर्णयितुं शक्या मांधातुर्न महात्मनः । स एव गणराजं तमभजन्नित्यमादरात् ॥२८॥ वसिष्ठाद्योगमाश्रित्य योगिवंद्यो बभूव ह । पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥२९॥ गणेशभक्तिं वै तत्र चकारांऽते लयं ययौ । स्वानंदे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥३०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांधातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुनिरुवाच । मनोर्वंशे महाभागोऽबरीषश्च बभूव यः । एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥१॥ नरनारायणावूचतुः । मनोर्वंशेऽन्त्यपुत्रोऽभूदंबरीषः प्रतापवान् । नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥२॥ एकादशीव्रतेनैव तोषयामास माधवम् । ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥३॥ दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् । तं प्रणम्य स राजर्षिरुवाच प्रकृतांजलिः ॥४॥ भगवन् स्वल्पकालस्था द्वादशी मे च पारणे । व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥५॥ स्वल्पकालेन संध्यादि कृत्वाऽऽगंतव्यमादरात् । तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥६॥ तत्र शीघ्रतया तेन कृतं संध्यादिकं मुने । तथापि कालयोगेन द्वादशी पगता ततः ॥७॥ मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् । नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥८॥ विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये । पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥९॥ ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने । राज्ञा तस्मै स्ववृत्तांतः कथितो विस्तरेण ह ॥१०॥ श्रुत्वा स कुपितोऽत्यंतं दुर्वासास्तं शशाप ह । निमंत्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥११॥ अतस्त्वं फलहीनो वै भविष्यसि न संशयः । एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥१२॥ ततः सोऽपि नृपोऽत्यंतं दुःखितः संस्थितोऽभवत् । उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥१३॥ अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् ।

निमंत्र्य तं विशेषेण जपध्यानपरायणः ॥१४॥ गते संवत्सरे तत्राऽऽजगाम मुनिनारदः । प्रपूज्य सर्ववृत्तांतं कथयामास तं नृपः ॥१५॥ ततस्तं नारदः प्राह शृणु राजन् महामते । जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥१६॥ तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः । द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥१७॥ अपराधविहीनस्य तवाऽयं विघ्न उत्थितः । दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥१८॥ अतस्त्वं विघ्नराजं तं भज यत्नेन मानद । तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥१९॥ विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम । सर्वेषामादिरूपोऽयमंते सोऽपि गणेश्वरः ॥२०॥ शिवविष्ण्वा- दयस्तस्य गणाः प्रोक्ता न संशयः । तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥२१॥ चित्तं बुद्धिस্বরূপं यत्तत्र चिंतामणिः स्थितः । तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥२२॥ त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः । तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥२३॥ एवमुक्त्वा मुनिस्तस्मै ददौ मंत्रं षडक्षरम् । महाविष्णुर्जपति यं ततः सोऽंतर्हितोऽभवत् ॥२४॥ अंबरीषस्तदारभ्य विघ्नेशं शरणं गतः । जजाप मंत्रराजं तं पूजयित्वा विनायकम् ॥२५॥ विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः । गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥२६॥ ततो दुर्वाससो विप्र मनश्चंचलतां गतम् । दयया स्वयमेवासावंबरीषं जगाम ह ॥२७॥ समागतं मुनींद्रं तं दृष्ट्वा विस्मितमानसः । प्रणम्यादावंबरीषोऽपूजयद् भक्तिसंयुक्तः ॥२८॥ ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः । दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥२९॥ दुर्वासा उवाच । क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम । अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥३०॥ त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप । उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥३१॥ मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् । सैव निष्फलरूपैकादशी तव भविष्यति ॥३२॥ अन्याः फलयुताः सर्वास्ते भवंतु नृपोत्तम । एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥३३॥ तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् । अंबरीषस्ततो देवं गणेशमभजत् सदा ॥३४॥ तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् । राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥३५॥ भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा । कालेनाऽंते गणेशानं ययौ योगेन तत्त्वतः ॥३६॥ अंबरीषस्य पठति चित्रं यच्च शृणोति यः । चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते अंबरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥

[पान ४८]

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । पुरुकुत्सस्य दायादावभूतां तु महाबलौ । अंबरीषो महाभागो मुचुकुंदस्तथा- ऽपरः ॥१॥ अंबरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ । तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥२॥ चकार मुचुकुंदः स राजर्षिराज्यमुत्तमम् । धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥३॥ कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् । तत्र देवा जिताः सर्वै दैत्यैः परमदारुणैः ॥४॥ मुचुकुंदं ततो देवाः शरणं जग्मुरादरात् । ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥५॥ तत्र युद्धप्रसंगेन कालो विप्र गतो बहुः । युगान्तिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥६॥ युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह । ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥७॥ ततस्ते दैवताः सर्वे जगुः परमभाविताः । अधुना पर्वत- द्रोण्यां निद्रायुक्तो भव प्रभो ॥८॥ नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति । स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥९॥ तत्र ते वासुदेवस्य दर्शनं प्रहविष्यति । स एव ज्ञानसंदाता महायोगी नृपोत्तम ॥१०॥ ययावुवाचैव वनं तान् तथेति महाबलः। स गंधमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥११॥ ततो बहुगते काले वसुदेवसुतोऽभवत् । विष्णुः साक्षात् महायोगी तपसाऽऽराधितो मुने ॥१२॥ कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् । कंसस्य श्वशुरोऽत्यंतं क्रोधयुक्तो बभूव ह ॥१३॥ जरासंधो ययौ तत्र युद्धार्थं सैन्यसंयुतः । राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥१४॥ त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ । तन्ममर्द्द महातेजाः कृष्णः संकर्षणान्वितः ॥१५॥ पलायत ततो राजा गतः स्थानं पुनर्ययौ । तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥१६॥ एवं महाबलः सप्त दश वारं समागतः । जरासंधस्ततो राजा न यशः प्राप दुःखितः ॥१७॥ तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः । सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥१८॥ स वै यवनराजश्च यादवानां विनाशकृत् । गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥१९॥ तमागतं परिज्ञाय मायया निर्ममे स्वयम् । द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥२०॥ ततो यवनराजस्य समीपे स समागतः । दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥२१॥ नारदेन च कृष्णस्य चिह्नानि कथितानि वै । यवनेंद्राय तैः कृष्णं ज्ञात्वा संधावितोऽभवत् ॥२२॥ अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् । यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥२३॥ ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः । मुचुकुंदः स तं त्यक्त्वा गुहांतरगतोऽभवत् ॥२४॥ यवनेंद्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् । किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥२५॥ बोधितो यवनेनैवं मुचुकुंदः प्रतापवान् । तस्य नेत्रोद्भवो वह्निर्यवनं स

खं. ३ अ. २५ पान ४९ ददाह च ॥२६॥ एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः । आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥२७॥ तमागतं समादृष्ट्वा मुचुकुंदो ननाम च । उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥२८॥ मुचुकुंद उवाच । देवैः संकथितं कृष्ण ममैतद्- भवत् प्रभो । अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥२९॥ मुचुकुंदस्य वाक्यं स श्रुत्वा हर्षसमन्वितः । जगाद तं महाभागं कृष्णः परमयोगवित् ॥३०॥ श्रीकृष्ण उवाच । अहं गणेश्वरः पूर्णो न भिन्नश्च महामते । एतदेव परं ज्ञानं संज्ञातव्यं त्वया नृप ॥३१॥ त्यक्त्वा पंचविधं चित्तं तदैश्वर्यं च मोहदम् । योगेन ब्रह्मणि प्रोक्तं गणेशास्त्वं भविष्यसि ॥३२॥ चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप । सिद्धिर्गणपतेर्माये तत्र बिंबं स्थितं च यत् ॥३३॥ तदेव गणनाथोऽयं पश्य तं योगसेवया । चित्ते चिंतामणिं भूप त्यक्त्वा बिंबभवं भ्रमम् ॥३४॥ गकारात्मकरूपां वै सिद्धिं जानीहि मानद । णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥३५॥ तं भजस्व महाभाग तेन शांतिमवाप्स्यसि । ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥३६॥ एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः । आगत्य मथुरायां स जघान यवनान् प्रभुः ॥३७॥ जरासंधं समागत्य धावितो रामसंयुतः । वंचयित्वा ययौ तं स द्वारकायां महामुने ॥३८॥ मुचुकुंदश्च राजर्षिः साधयामास यत्नतः । कृष्णेन कथितं योगं तेन शांतिं जगाम ह ॥३९॥ ततो भ्रमन् स राजेंद्रः पृथिव्यां यत्र तत्र च । गणेशमभजत् भक्त्या तं प्राणांतं महायशाः ॥४०॥ मुचुकुंदस्य यो मर्त्यश्चरितं शृणुयात् परम् । पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । अंबरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः । हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥१॥ पुरुकुत्सस्य पुत्रोऽभूत्त्रसदस्युस्ततोऽभवत् । अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसंमतः ॥२॥ अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः । तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥३॥ स एवाऽभूत्त्रिशंकुवाख्यो देहभृत् स्वर्गलोंकगः । तस्य पुत्रो हरिश्चंद्रः सर्वधर्मपरायणः ॥४॥ विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् । स्वानंदे गणनांथं सोऽन्ते जगाम महायशाः ॥५॥ रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् । चंपस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥६॥ ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः । सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥७॥ ताभ्यामाराधितो योगी भृगुः परमपावनः ।

खं. ३ अ. २५ पान ५० पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥८॥ षष्टिसहस्रपुत्रा वै वृताश्च प्रभया ततः । एकं वंशधरं भानुमती वव्रे महामुने ॥९॥ भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः । असमंजसनामा वै पुत्रो वंशधरो मुने ॥१०॥ स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः । चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥११॥ वनं ययौ ततः पित्रा स संत्यक्तो महामुने । जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥१२॥ तस्य पुत्रः समुत्पन्नोऽंशुमान् धर्मपरायणः । प्रभायां षष्टिसहस्रं पुत्राणां प्रबभूव ह ॥१३॥ सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् । शतसंख्याः प्रमाणेन तत्रेंद्रः क्षुभितोऽभवत् ॥१४॥ अंत्ये यज्ञे समारब्धे मायया च सुराधिपः । अश्वं संगृह्य पाताले स्थापयामास सन्निधौ ॥१५॥ कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये । कुपितास्ते सहस्राणां षष्टिः परमदुर्जेयाः ॥१६॥ अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः । ततस्तैः खनिता भूमिः सर्वत्र बलसंयुक्तैः ॥१७॥ तैस्तु संवर्धितो विप्र समुद्रो लवणात्मकः । तेन सागर- नामाऽभूत्तदारभ्य स्वकर्मणा ॥१८॥ तमश्वराजं ददृशुश्चरंतं कपिलांतिके । तं चौरं सागरा ज्ञात्वा हंतुं शस्त्राणि संदधुः ॥१९॥ कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे । सगरा हर्षितस्तेन स प्रतापी पुरंदरः ॥२०॥ नारदात् सगरो ज्ञात्वाऽंशुमंतं पौत्रकं ततः । प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥२१॥ स्तुतः संपूजितस्तेन कपिलः प्रददौ हयम् । संगृह्य स ययौ विप्र सगरं स्वपितामहम् ॥२२॥ ततश्चकार तं यज्ञं संपूर्णं त्वश्वमेधकम् । ययौ राज्ये- ऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥२३॥ गुरोः प्राप्य महामंत्रं गाणेशं योगशांतिदम् । साधयित्वा स वै योगी बभूव परमद्युतिः ॥२४॥ अनन्यमनसा देवं गणेशमभजन्नृपः । अंते स गणपं विप्र ययौ ब्रह्मपरायणः ॥२५॥ अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥२६॥ तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः । दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥२७॥ ततो भगीरथो राजा दिलीपस्थापितः स वै । पालयामास संपूर्णं राज्यं सद्धर्मभावतः ॥२८॥ एकदा नारदस्तत्र जगाम नृपतिं मुने । पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥२९॥ नारद उवाच । भगीरथ महाभाग शृणु मे वचनं हितम् । तव ब्राह्मणसंक्रोधाद्दग्धाश्च प्रपितामहाः ॥३०॥ विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते । अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥३१॥ स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः । स्वर्गवासिन एवं ते प्रभविष्यंति पूर्वजाः ॥३२॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।

खं. ३ अ. २५ पान ५१ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ययौ स्वर्गं ततो विप्र राजा संदुःखितोऽभवत् ॥३३॥ प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ । तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥३४॥ पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी । वरेण च्छंदयामास राजानं भक्तिसंयुतम् ॥३५॥ पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः । प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥३६॥ भगीरथ उवाच । यदि तुष्टा महाभागे तदा मे प्रपितामहान् । प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥३७॥ मदीयमुग्रवेगं संधारणार्थं महामते । पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥३८॥ तथेति स महीपालः पूजयामास शंकरम् । वर्षेणैकेन तं शंभुः प्रसन्नो वरदोऽभवत् ॥३९॥ स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शंकर । तथेति शिव ऊचे तं सस्मार स महानदीम् ॥४०॥ आगतां तां तदा प्राह पत देवि महीतले । धारयिष्यति ते वेगं शंकरः करुणानिधिः ॥४१॥ स्वर्गंगा गर्वयुक्ता च तथेति शिवस्तके । पपात सैव धाराभिः सहस्रेण समंततः ॥४२॥ शिवमस्तकमाप्लाव्द्य गमिष्यामि रसातलम् । इति संधार्य मनसि महावेगयुता ययौ ॥४३॥ तस्या गर्वं परिज्ञाय शंकरेण स्वमायया । जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥४४॥ नांतं जगाम शंभोः सा जटायास्तं नमाम वै । ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥४५॥ तत्र जह्नुं महीपालं ददर्श स्वर्गवाहिनी । तं तपंतं तपो घोरं जगाद चल तापस ॥४६॥ नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा । तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥४७॥ तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः । तपोबलेन तां पीत्वा संतस्थौ तपसि प्रभुः ॥४८॥ ततो भगीरथस्तं प्रणनामाऽथ महायशाः । प्रार्थितः स सुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥४९॥ तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते । पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥५०॥ विमानवरमारूढास्ते भगीरथसन्निधौ । ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥५१॥ राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी । पुत्रीभावेन संक्लृप्ताऽभवत् भागीरथी ततः ॥५२॥ एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् । भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥५३॥ संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् । वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥५४॥ साधयित्वा स वै राजा गाणपत्यों बभूव ह । अंते जगाम गाणेशसायुज्यं योगसेवया ॥५५॥ इदं भगीरथाऽऽख्यानं यः शृणोति नरोत्तमः । पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥५६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पंचविंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह । सिंधुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥१॥ अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः । स वै नलसखस्तस्मादश्वविद्यापरायणः ॥२॥ सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः । सौदासास्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥३॥ कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः । अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥४॥ अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः । स हि राम- भयाद्राजा वनं प्राप्य सुदुःखितः ॥५॥ तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः । नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥६॥ तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः । ततो विश्वसहस्तस्मात् खड्वांगो ढुंढिमाप्तवान् ॥७॥ दीर्घबाहुस्तत- स्तस्माद्रघुस्तस्मादजोऽभवत् । पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥८॥ तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने । कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥९॥ यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् । नानायत्नं चकाराऽसौ व्रत- तीर्थादिकं मुने ॥१०॥ ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ । प्रधानेषु विनिक्षिप्य राज्यं निहतकंटकम् ॥११॥ वसिष्ठेन गणेशस्य मंत्रो दत्तो दशाक्षरः । तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥१२॥ सूर्यस्य कुलदैवत्वं संप्राप्तः स गजाननः । तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥१३॥ तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् । परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥१४॥ अतस्त्वमपि राजेंद्र गणपं भज भावतः । न त्याज्योऽयं मंत्रराजस्त्यागे हानिर्भविष्यति ॥१५॥ तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् । तताप वै दशरथस्तप उग्रं महायशाः ॥१६॥ वायुमात्राशनो भूत्वा- ऽपूजयद् गणनायकम् । पत्न्या सह विनीतात्माऽजपत्तं मंत्रमुत्तमम् ॥१७॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तं वरान् दातुं मूषकारूढ एव सः ॥१८॥ तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् । पूजयामास तं देवं स्तुत्वा स्तोत्रै- र्ननाम च ॥१९॥ ततस्तं गणराजो वै जगाद स नृपोत्तमम् । वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥२०॥ ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः । प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥२१॥ दशरथ उवाच । यदि प्रसन्नो देवेश तदा देहि गजानन । भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥२२॥ अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् । बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥२३॥ मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव । पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥२४॥ तथेति वै दशरथं जगाद गणनायकः । अंतर्धाय स्वमात्मानं ययौ स्वानंदमादरात् ॥२५॥ ततो वसिष्ठहस्तेन

खं. ३ अ. २६ पान ५३ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ स्थापिता मूर्तिरादरात् । गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥२६॥ पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् । आययौ नगरेऽयोध्यायां सर्वान् संप्रहर्षयन् ॥२७॥ ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः । गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥२८॥ चतुर्धात्मानमाभाज्य विबभौ हरिरव्ययः । कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥२९॥ कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः । शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥३०॥ ततो दशरथो राजा काम- भोगपरायणः । संजातस्तं न सस्मार विस्मृत्या गणनायकम् ॥३१॥ ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने । विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥३२॥ स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः । हतः सुबाहको नाम राक्षसो दारुणो मुने ॥३३॥ प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् । अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥३४॥ ततो जनकयज्ञं वै जगाम मुनिकौशिकः । रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥३५॥ माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् । आकर्षणेन महता भग्नं मध्ये महामुने ॥३६॥ ततो जनकभूपेन दत्ता सीता महात्मने । रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥३७॥ भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने । भरताय तथा शत्रुघ्नाय भावेन मानद ॥३८॥ ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् । रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥३९॥ वरदान- प्रभावेन तथेति स चकार ह । वर्षाणि वनवासं स चतुर्दश च राघवः ॥४०॥ सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् । स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥४१॥ तत्रातिथिरूपेण रावणश्च समाययौ । एकाकिनीं च सीतां संगृह्य लंकां ययौ खलः ॥४२॥ सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् । पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥४३॥ ततो जगाम रामश्च सीतामन्वेषयन् वने । कर्णाटे तत्र शैवं स क्षेत्रं मुख्यं ददर्श ह ॥४४॥ तत्र शंभुं स रामो वै लक्ष्मणेन समन्वितः । आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥४५॥ संतुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः । सीताप्राप्ति- स्वरूपं तमुपदेशं चकार सः ॥४६॥ शिव उवाच । शृणु राम महाभाग त्वं वै विष्णुः सनातनः । भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥४७॥ सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः । अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥४८॥ तेन ज्ञानं च ते राम भविष्यति पुरातनम् । सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥४९॥ शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः । रामः परमशोकार्तो विनयेन समन्वितः ॥५०॥ राम उवाच । वद शंभो महेशान गणेशस्य

स्वरूपकम्। कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥५१॥ रामस्य वचनं श्रुत्वा शंकरस्तमुवाच ह। योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥५२॥ शिव उवाच। शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम्। तेन त्वं सर्वभावज्ञः शांतिं प्रलभसे प्रभो ॥५३॥ पंचधा हृदि संस्था या बुद्धिः सैव न संशयः। चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥५४॥ नानाभ्रम- करी माया सिद्धिः सर्वत्र दृश्यते। भ्रमंति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥५५॥ सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता। बभूव दक्षिणांगे वै बुद्धिर्मायेति कथ्यते ॥५६॥ तयोः स्वामी गणेशः स योगशांतिमयो मतः। तं ज्ञात्वा च वयं राम शांतिं प्राप्ता भजामहे ॥५७॥ बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम्। योगादिसाधने नैव लभ्यते तच्च सिद्धिदम् ॥५८॥ माये च द्विविधे त्यक्त्वा भजस्व गणनायकम्। तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥५९॥ विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः। तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥६०॥ विघ्नाधीनं महाभाग सकलं वेदवर्णितम्। अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥६१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः। तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥६२॥ हेरंबं भज भावेन भक्तिमार्गं वदामि ते। तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥६३॥ स्वकीयसत्तया हीनो भवेद्वै यदि मानवः। हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥६४॥ दीनानां रक्षका ये वै ईश्वराः परमेश्वराः। ते दीनपालकाः प्रोक्ता विचारय महामते ॥६५॥ दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम्। नाथो रंबस्तयोर्योगे हेरंबश्च प्रकथ्यते ॥६६॥ दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः। तेषां स्वामी स हेरंबस्तं भजस्व विधानतः ॥६७॥ अभिमानं च द्विविधं त्यज त्वं राघव प्रभो। दीनात्मकं तथा पूर्णपालनात्मक- मुत्तमम् ॥६८॥ दीना येन कृता जीवाः पालकाः परमेश्वराः। तदधीनं जगद्ब्रह्म मत्वा तं शरणं व्रज ॥६९॥ एवमुक्तवा महादेवो राघवं च सलक्ष्मणम्। अंतर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥७०॥ विद्याधीशपुरे रामस्तताप तप उत्तमम्। शिवोपदिष्टमंत्रेण तोषयामास विघ्नपम् ॥७१॥ हेरंबं तं सदा रामो लक्ष्मणश्च विशेषतः। पुपूज भक्तिसंयुक्तो निराहार- समन्वितः ॥७२॥ ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः। रामः शांतियुतो विप्र समभूद् योगसेवया ॥७३॥ निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ। षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥७४॥ सलक्ष्मणं च रामं स बोधयामास विघ्नपः। ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥७५॥ ततस्तं पूजयामास रामो देववरो मुने। तुष्टाव स गणाधीशं

यहाँ पृष्ठ का सम्पूर्ण देवनागरी पाठ प्रस्तुत है:

शीर्षक (Header): खंड. ३ अ. २६ | पान ५५


भक्तिनम्रात्मकंधरः ॥७६॥ राम उवाच । हेरंबाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥७७॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥७८॥ अनादये च सर्वेषामादि- रूपाय ते नमः । अंतमध्यप्रतिष्ठाय लंबोदर नमो नमः ॥७९॥ चिंतामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय तदाकाराय ते नमः ॥८०॥ सर्वपूज्याय सर्वादिपूज्याय परमात्मने । अनंताय परेशाय ढुंढिराजाय ते नमः ॥८१॥ पूर्णाय पूर्णनाथाय स्वानंदस्थाय ते नमः । सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिपराय च ॥८२॥ समर्थानां च ते भक्तिहीनानां दैन्य- कारिणे । दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥८३॥ दीनत्वं च समर्थत्वं त्वदधीनं न संशयः । अतो मां रक्ष योगेश योगेशाय नमो नमः ॥८४॥ किं स्तौमि त्वां गणाधीश शांतियोगस्वरूपिणम् । न समर्थाश्च वेदा यं योगींद्रास्तत्र कोऽप्यहम् ॥८५॥ रामस्य तस्य स्तुवत एवं संभक्तिभावितः । रोमोद्गमः प्रादुरासीत् कंठरोधस्तथैव च ॥८६॥ ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः । जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥८७॥ त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । शांतियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥८८॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणेन न संदेहः प्रियो मे स भविष्यति ॥८९॥ हेरंबस्य वचः श्रुत्वा तमुवाच जनार्दनः । रामः परमभावेन भक्त्या च प्रकृतांजलिः ॥९०॥ राम उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥९१॥ योगशांतिः स्मृतिर्नित्यं यथा शंकरभाषितम् । तथा योगींद्रवंद्यं मां कुरुष्व गणप प्रभो ॥९२॥ रावणेन हृता सीता तद्वधार्थं समुद्यतः । अहं तत्र च हेरंब जयं देहि विशेषतः ॥९३॥ मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् । कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥९४॥ एवं तस्य वचः श्रुत्वा हेरंबो राममब्रवीत् । यथा संप्राथितं विष्णो तथाऽस्तु तव नित्यदा ॥९५॥ मदीय- स्मरणेनैव सर्वं ते सुलभं भवेत् । तव नामप्रभावेण तरिष्यंति तु जंतवः ॥९६॥ एवमुक्त्वा गणेशानोऽंतर्धानं प्रचकार ह । रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥९७॥ ततोऽगस्त्यं समानीय रामो विप्रेंद्रसत्तमैः । मूर्तिं संस्थापयामास हेरंबस्य विधानतः ॥९८॥ तदादिगणनाथस्तु हेरंबः संस्थितोऽभवत् । विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥९९॥ तं पूजयित्वा रामः स शोकहीनतया मुने । जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥१००॥ सुग्रीवं मित्रभावेन वानरैः सहितं मुने । कृत्वा च वालिनं हत्वा ययौ लंकां महाबलः ॥१॥ हनूमदंगदाद्यैश्च सुग्रीवाद्यैश्च संवृतः । अन्यैर्जांबवदाद्यैश्च

खं. ३ अ. २७ पान ५६ वानरैर्देवरूपिभिः ॥२॥ सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः । हत्वा राक्षससंघान् स कुंभकर्णं जघान च ॥३॥ लक्ष्मणश्चेंद्रजेतारं मारयामास वेगतः । ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥४॥ तेन सर्वे कपींद्राश्च हताः संमूर्च्छिताः कृताः । लक्ष्मणे मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥५॥ शस्त्रास्त्राणि च रामस्य कुंठितानि विशेषतः । ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥६॥ स्मृतिमात्रेण रामस्य हृदि चिंतामणिः स्वयम् । ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥७॥ स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् । बुद्धयधीनं विशेषेण जगद्ब्रह्म महामुने ॥८॥ ततो हत्वा महावीरं रावणं रविवंशजः । रामश्चकार लंकायां राजानं च बिभीषणम् ॥९॥ ययौ सीतां विमानेन संगृह्य नगरे स्वके । चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥१०॥ सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् । गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥११॥ अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि । ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥१२॥ ततः शांतिसमायुक्तो गणेशं मनसा सदा । पुपूज भक्तिसंयुक्तो बर्हिमूर्तिधरं मुने ॥१३॥ अंते जगाम रामः स विकुंठं विष्णुरव्ययः । तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥१४॥ इदं रामचरित्रं यः शृणुते भक्तिसंयुतः । पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥१५॥ अयं महोदरस्यैवावतारस्ते महामुने । हेरंबारूयस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥११६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रामचंद्रचरितं नाम षड्विंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते । सर्वं मायामयं विद्धि मार्कंडेय विशेषतः ॥१॥ ब्रह्मणा सृष्टमापूर्वं विष्णुना पालितं तथा । हरेण संहृतं सर्वं ब्रह्मांडं मायया कृतम् ॥२॥ अनंतानि च सर्वत्र ब्रह्मांडाानि स्थितानि वै । महाकारणरूपेण संधृता विद्धि मानद ॥३॥ मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः । भ्रमनाशेन योगेन ज्ञायंते नात्र संशयः ॥४॥ मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते । मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥५॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च । भ्रमेण मायया विप्र भासते योगिनां हृदि ॥६॥ रामस्य चरितं पूर्णं कथितं ते समासतः । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥७॥ भानुरुवाच । तयोर्वचनमाकर्ण्य

खं. ३ अ. २७ पान ५७ मार्कंडेयश्च तौ पुनः । जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥८॥ मार्कंडेय उवाच । नरनारायणौ देवौ भवद्भ्यां पावितो- ऽप्यहम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥९॥ अतो गणेशयोगं मे वदतं येन चाप्यहम् । रामवच्छांतिमाश्रित्य ब्रह्मभूतो भवामि च ॥१०॥ नरनारायणावूचतुः । गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः । न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥११॥ चित्तं पंचविधं विप्र तत्र चिंतामणिः स्थितः। पंचवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥१२॥ भ्रांतिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता । भ्रांतिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥१३॥ तयोर्बिंबं च यत् प्रोक्तं तदेव गणनायकः । मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥१४॥ बिंबिभावं परित्यज्य भव त्वं गणनायकः । अहं गणेशरूपश्च योगोऽयं शांतिदायकः ॥१५॥ चित्तं पंचविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् । अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥१६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥१७॥ तयोः स्वामी गणेशानो वेदे पश्य महामुने । तं भजस्व ततः शांतिं गच्छसि त्वं न संशयः ॥१८॥ एवमुक्त्वा बालखिल्या नरनारायणावृषी । विरेमतुरुथैवं तं जानीत गणनायकम् ॥१९॥ तौ प्रणम्य पुनः प्राह मार्कंडेयः प्रतापवान् । धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥२०॥ मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् । दर्शयेतं महामायां भगवंतौ नमाम्यहम् ॥२१॥ भानुरुवाच । तथेति तं बालखिल्या ऊचतुर्मुनिसत्तमौ । पश्यसि त्वं महामायां मार्कंडेय न संशयः ॥२२॥ आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ । ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥२३॥ ततः कदाचिद्विप्रेन्द्रो मार्कंडेयः स्व आश्रमे । संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥२४॥ ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् । भयाक्रांतोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥२५॥ हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः । मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥२६॥ ततः समुद्र- जेनैव जलेन प्लावितं महत् । सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥२७॥ मत्स्यादिभिश्च विप्रेन्द्रः किंचित् क्षतयुतः कृतः । सस्मार गणनाथं स मार्कंडेयोऽतिविह्वलः ॥२८॥ ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् । अंगुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥२९॥ तं प्रणम्य प्रतुष्टाव मार्कंडेयो महर्षयः । अथर्वशिरसा देवं संतुष्टं स चकार ह ॥३०॥ उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने । वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥३१॥ तं प्रणम्य तथोऽवाच मार्कंडेयः प्रसन्नधीः । मायां दर्शय मे विष्णो तां ज्ञात्वा संत्यजाम्यहम् ॥३२॥ ततस्तं विष्णुरूपः स बालको भक्तियंत्रितः । जगाद हास्य-

खं. ३ अ. २७ पान ५८ संयुक्तो भक्तरक्षणतत्परः ॥३३॥ बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥३४॥ मार्कंडेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानंदान्नानाभावप्रकाशिनीम् ॥३५॥ व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयंति नरान् सदा ॥३६॥ कुत्र ब्रह्मांडनाशश्च कुत्र ब्रह्मांडपालनम् । कुत्रोत्पत्तिश्च विप्रेंद्रा दृश्यते तेन योगिना ॥३७॥ कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः । ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥३८॥ कुत्र योगार्थमत्यंतं नराः परमभाविकाः । लिप्यंते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥३९॥ पुनः पुनश्च सृज्यंते म्रियंते च पुनः पुनः । ईश्वरानेश्वराः कुत्र प्रभवंतीश्वरा नराः ॥४०॥ अमृतं विषरूपं च विषं चामृतदायकम् । ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥४१॥ स्थले जलं जले चैव स्थलं नानाविकारजम् । मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥४२॥ न प्रलेभे गतिं तत्रेश्वरो भ्रांत्या ह्यनीश्वरः । जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥४३॥ एवं नानाविधं भावं ददर्श मुनिसत्तमः । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥४४॥ ततस्तं परितुष्टाव बालविष्णुं महामुनिः । नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥४५॥ निवर्तय हरे मायां कुरु मां पूर्ववद्यथा । इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥४६॥ ततस्तत्र द्विजेंद्रेण न दृष्टमिव तद्बभौ । यथा स्वप्नगतं जंतुर्न ददर्श समुत्थितः ॥४७॥ न जलं नैव सामुद्रं भयं दुःखं न केशवः । बालरूपधरश्चैव न माया तेन विस्मितः ॥४८॥ बालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् । गणेशभजने सक्तोऽजपद्वै मंत्रमुत्तमम् ॥४९॥ नरनारायणाभ्यां यः कथितो योग उत्तमः । हेरंबमंत्रभावेन साधयामास तं पुनः ॥५०॥ रामेण साधितः पूर्वं तथा तेनाऽपि साधितः । योगः शांतिप्रदः पूर्णो गाणपत्यस्वभावतः ॥५१॥ योगशांतिपरो भूत्वाऽभजत्तं गणनायकम् । अनन्यचेतसा सोऽपि मार्कंडेयः सुयोगवित् ॥५२॥ अंते गणेशदेहे स सायुज्यं प्राप भक्तितः । एवं नानाविधा विप्रा गाणेशाः संभवंति वै ॥५३॥ एतन् मृकंडुपुत्रस्य चरितं यः शृणोति वा । पठेत्तु तस्य वै मायाबंधो न प्रभविष्यति ॥५४॥ महोदरो भवेद्देवो हेरंबाख्यः प्रकीर्तितः । विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥५५॥ अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः । योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥५६॥ मुद्गल उवाच । एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः । रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥५७॥ ऊचुः प्रांजलयस्ते तं भानुं सर्वप्रियं पुनः । कृतकृत्याः कृता भानो वयं देव न संशयः ॥५८॥

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण (Transcription) प्रस्तुत है:

सं. ३ अ. २८ [Page Header Left] | पान ५९ [Page Header Right]

किं प्रदद्मो महात्मंस्त्ववां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥५९॥ ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥६०॥ साधयित्वा यथायोगं श्रुतमंत्र प्रजापते । योगिनः सर्ववंद्यास्ते संबभूवुर्विशेषतः ॥६१॥ हेरंबं भजमानाश्च नित्यं ध्यानपरायणाः । अनन्यबुद्धयः सर्वे योगशांतिं प्रलेभिरे ॥६२॥ हेरंबाख्यावतारश्च महोदरकलात्मकः । कथितस्ते प्रजापाल नानाख्यानसन्वितः ॥६३॥ एतादृशा- ऽवताराश्च बहवस्तस्य मानद । महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥६४॥ नैव शक्यं कथयितुं तत् केनाऽपि न संशयः । अतः संक्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥६५॥ सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः । ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥६६॥ प्रभवेत् स विशेषेण सर्वसंपत्प्रदायकः । मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिर्वर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ❧ ❖ ❧ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् । श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥१॥ पुनस्त्वं वद मे ब्रह्मन् भवेदक्षेण संश्रुतम् । मुद्गलान् मुनिमुख्याच्च सर्वेषां संमतं परम् ॥२॥ सूत उवाच । सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् । श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥३॥ दक्ष उवाच । श्रुतं हेरंबमाहात्म्यं ब्रह्मभूतपदप्रदम् । पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥४॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम । कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥५॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः । जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥६॥ मुद्गल उवाच । युधिष्ठिरेण देवेशो मानप्रद महोदरः । आराधितो विशेषेण योगी सोऽभूच्च पांडवः ॥७॥ दक्ष उवाच । युधिष्ठिरस्य विप्रर्षे चरित्रं वद सांप्रतम् । प्रारभ्य चंद्रवंशाच्च तदंतं पुण्यदं भवेत् ॥८॥ मुद्गल उवाच । अत्रिनेत्रात् समुत्पन्नश्चंद्रोऽमृतमयः पुरा । तेनातितपसा देवः सेवितो गणनायकः ॥९॥ गणेशवरदानेन ताराणामधिपोऽभवत् । ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥१०॥ ततः स राजा मोहेन मोहितोऽतितरां विभो । गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥११॥ ततो विघ्नेन वै चंद्रः पीडितो मोहसंयुतः । मोहेन गर्हितं कर्म यच्चकार शृणुष्व तत् ॥१२॥

[पान ६०]

बृहस्पतेश्च या नारी तारा यौवनशालिनी। रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥१३॥ मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुंब हठसंयुतः ॥१४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया प्रजापाल कामबाणप्रपीडितः ॥१५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चंद्रमाः ॥१६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तांतं क्षुभितो भृशम् । नानायत्नेन चंद्रं स ययाचे न ददौ शठः ॥१७॥ ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः । शंभुरंगिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥१८॥ देवैरिंद्रादिभिः सर्वैः शंकरः क्रोधसंयुतः । हंतुं चंद्रं ययौ तत्र क्रोधारुणविलोचनः ॥१९॥ भयभीतः शशी तत्र शुक्रं स शरणं ययौ । तेनाप्यांगिरस्यैव वैरी संपादितोऽभवत् ॥२०॥ शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः । संग्रामाय शिवेनैव ससुरेण महाबलाः ॥२१॥ ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥२२॥ मासमात्रं महोग्रं तन्न शांतिमलभन् कदा । दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥२३॥ ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् । निंदयामास चात्मानं तथा चंद्रं प्रजापते ॥२४॥ अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् । गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥२५॥ मदर्थं देवदैत्यानामधुना नाश आगतः । किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥२६॥ निर्विघ्नं कुरु मां ढूंढेऽधुना देव दयानिधे । देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥२७॥ तथा चंद्रः स तं देवं सस्मार हृदि भावतः । ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥२८॥ तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः । देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥२९॥ शंकराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् । वारयामास सर्वज्ञो विधाता सर्वभावनः ॥३०॥ ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः। प्रणम्य तं विधातारं बद्धांजलिपुटाः पुरः ॥३१॥ चंद्रं ततस्तिरस्कृत्य ददौ तारां पितामहः। गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥३२॥ ताराया उदरे गर्भो वा चंद्रस्य बृहस्पतेः । न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥३३॥ त्यज गर्भं महाभागे कस्यांऽशोऽयं वद स्नुषे । तथा तया च संत्यक्तो गर्भः संपतितोऽभवत् ॥३४॥ महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे । लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥३५॥ ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् । चंद्रस्याऽहं न संदेहस्तं ताराऽपि तथाऽब्रवीत् ॥३६॥ तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा । चंद्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥३७॥ एवं पुरा तारकार्थे संग्रामस्तारकामयः । बभूव परमोग्रश्च दैत्यदेवविनाशकृत् ॥३८॥

खं. ३ अ. २९ पान ६१ बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥३९॥ इलायां गर्भसंदानात्तस्य जन्म मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥४०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमंडलस्य च । धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥१॥ मुनिशापसमायुक्तोर्वशी नृपतिमाययौ । कुरुक्षेत्रे चरंतं स चकमे तां महीपतिः ॥२॥ सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो । रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥३॥ तदा तव गृहे राजन् वसामि घृतभोजना । तथेति स तु भूपस्तां संगृह्य गृहमाययौ ॥४॥ तस्यां पुत्रा बभूवुश्च षडिंद्रसमतेजसः । आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥५॥ शतायुः स्थायुरेते च नामभिः परिकीर्तिताः । चंद्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥६॥ तत इंद्रेण गंधर्वाः प्रेषिता राजवेश्मनि । उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥७॥ तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ । उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥८॥ तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ । उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥९॥ मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि । तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥१०॥ नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् । विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥११॥ तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे । तथा तमुर्वशी दृष्ट्वाऽन्तर्धानं सा चकार वै ॥१२॥ मेषौ प्रगृह्य गंधर्वा गताः स्वर्गं विहायसा । उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥१३॥ राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् । तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥१४॥ तथाविधो महाराजो विललाप पुरूरवाः । बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥१५॥ ततो बहौ गते काले वर्षमात्रे दयायुताम् । कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥१६॥ मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् । अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥१७॥ ततस्तेन समायुक्ता रात्रिमेकामुवास सा । उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥१८॥ अहं देवाप्सरो रम्या गंधर्वाऽधीनतां गता । अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥१९॥ ततः स्वर्गे

खं. ३ अ. २९ पान ६२ च ते वासो भविष्यति महामते । त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥२०॥ ततः शोकाकुलो राजा रुरोदातीव दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवांगना च तम् ॥२१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं महाभाग ततः साऽन्तर्हिताऽभवत् ॥२२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥२३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामांकिता देवाः श्राद्धेऽस्माकं भवंतु च ॥२४॥ अक्षयः पितृलोकस्ते भविष्यति न संशयः । एवमुक्त्वाऽंतर्दधुस्ते पितरो भक्तवत्सलाः ॥२५॥ ततः स्वल्पेन कालेन भूमिपो निधनं गतः । स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥२६॥ तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः । भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥२७॥ ततो बहौ गते काले पितृलोके गतेन सः । नारदेन महीपालो बोधितो दयया विधे ॥२८॥ नारद उवाच । किं राजंस्त्वं महाभाग विषयेषु विशेषतः । सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥२९॥ देहोऽयं बंधनागारं तत्र त्वं निगडेन च । बद्धस्तस्माच्च योगेन बंधहीनो भव प्रभो ॥३०॥ पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशा- स्त्वया । न तृप्तिमधिगच्छंति जना अज्ञानसंयुताः ॥३१॥ ब्रह्मामृतं पिब त्वं च सदा स्वानंददायकम् । तच्च्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्घधः ॥३२॥ चतुरशीति लक्षासु नरो भ्रमति योनिषु । तत्र स्त्रीपुत्रकार्यं स लभते नाऽत्र संशयः ॥३३॥ मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् । तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥३४॥ कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः । पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥३५॥ द्वंद्वभावमयं दुःखं यत्र तत्र च विंदति । न शाश्वतस्वरूपं स ब्रह्म भुंक्ते नरः कदा ॥३६॥ त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते । तारयस्व स्वमात्मानं योगेन नरसत्तम ॥३७॥ नारदस्य वचः श्रुत्वा तं जगाद नराधिपः । सत्यमुक्तं त्वया योगिन् मया तच्चैव संधृतम् ॥३८॥ अहं विषयदोषेण पीडितोऽतितरां प्रभो । निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥३९॥ नारद उवाच । गणेशं भज भावेन ततः क्षेमं भविष्यति । एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥४०॥ हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् । योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥४१॥ चित्तं त्यक्त्वा महाराज भव चिंतामणिः स्वयम् । एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥४२॥ ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह । सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥४३॥ कालेन स्वल्पभावेन गाणपत्यो बभूव ह । ततः स निंदयामास स्वात्मानं भृशदुःखितः ॥४४॥

खं. ३ अ. ३० पान ६३ अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥४५॥ अस्थिमांसमयो देहस्तत्र दुर्गंधसंयुक्तः। छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥४६॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥४७॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥४८॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः । अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥४९॥ अंते जगाम योगेन गणेशं स पुरूरवाः । महिमा कथितस्तस्य पापनाशकरो यतः ॥५०॥ पुरूरवस आख्यानं यः शृणोति नरोत्तमः । पापक्षयकरं तस्य भवतीदं प्रजापते ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आयुषस्तनया दक्ष पंचाऽऽसन् दृढविक्रमाः । स्वर्भानुतन्यायां वै प्रभायां तेजसा युताः ॥१॥ नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः । चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥२॥ तत्रेंद्रः क्षुभितोऽत्यंतं निराकर्तुं शशाक न । राजानं सर्वशास्त्रज्ञं ततः शांतो बभूव ह ॥३॥ गौतमेन महेंद्रोऽथ शापितस्त्रीप्रधर्षणात् । भ्रष्ट- राज्योऽभवद्देवस्ततो देवा भयातुराः ॥४॥ दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः । बृहस्पतिं समागम्य पप्रच्छुः क्षेम- कारकम् ॥५॥ तेनाज्ञाप्तास्ततो देवा मुनयश्च प्रजापते । नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥६॥ देवेंद्रो नहुषो भूत्वा शशास स्वर्गमंडलम् । इंद्रासने समासीनः पालयामास तान् सुरान् ॥७॥ तस्मै वरं ददौ देवा मुनयस्ते प्रजापते । क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥८॥ ततोऽतितेजसा युक्तो बभूव स नराधिपः । देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥९॥ ततोऽतिगर्वितो राजाऽभवत् स्त्रीसंगलालसः । शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥१०॥ देवानुवाच सा देवी नाहं यामि नराधिपम् । इंद्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥११॥ एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः । ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥१२॥ तस्या वृत्तांतमुग्रं स श्रुत्वा देवगुरुः स्वयम् । निकटे तां समास्थाप्य इंद्रार्थं ह्युद्यतोऽभवत् ॥१३॥ गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् । शापहीनं महेंद्रं त्वं कुरुष्व

वचनाच्च मे ॥१४॥ तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥१५॥ गौतमाय ततस्तेन कथितं सुखदं परम् । विनायकस्य मंत्रं त्वं देहींद्राय महामुने ॥१६॥ गौतमेन तदा दत्तः स्वमंत्रो गणपस्य च । इंद्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥१७॥ जजाप मंत्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥१८॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥१९॥ गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः । गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥२०॥ सिंहारूढो महाबाहुश्चतुर्भुज- विराजितः । सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥२१॥ इंद्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् । मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥२२॥ ततस्तं प्रणनामाऽथ इंद्रो भक्तिसमन्वितः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥२३॥ इंद्र उवाच । नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक । विनायकाय देवाय हेरंबाय नमो नमः ॥२४॥ अनादये च सर्वेषामादिभूताय ते नमः । आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥२५॥ आदिमध्यांतहीनाय ह्यादिमध्यमयाय च । अंत्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥२६॥ पाशांकुशधरायैव सिंहवाहाय ते नमः । अमेयाय नमस्तुभ्यं नानामायाधराय च ॥२७॥ विघ्नकर्त्रे ह्यभक्तानां सदा स्वानंदवासिने । सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥२८॥ ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे । धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥२९॥ पूर्णाय पूर्णभावज्ञ पूर्णानंदप्रदाय वै । कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥३०॥ सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने । स्थूलसूक्ष्मादिहीनाय लंबोदर नमोऽस्तु ते ॥३१॥ किं स्तौमि त्वां सदा शांतिरूपं तस्मान्नमो नमः । तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥३२॥ मुद्गल उवाच । एवं स्तुतिं समाकर्ण्य मघवंतमुवाच ह । गणेशो भक्तिभावेन संतुष्टो भक्तमुत्तमम् ॥३३॥ गणेश उवाच । इंद्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यः पठेच्छृणुयाच्चैवस्तस्मै सर्वार्थदं तथा ॥३४॥ नित्यं त्वमपि देवेंद्र पठ स्तोत्रं प्रयत्नतः । तेन विघ्नविहीनस्तु भविष्यसि महामते ॥३५॥ वरान् ब्रूहि महाभाग ये ते चित्ते भवंति वै । तान् दास्यामि न संदेहो भक्त्या स्तोत्रेण तोषितः ॥३६॥ ततस्तं मघवा देवं प्रणम्याभिदधे वचः । निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥३७॥ भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते । इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥३८॥ तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् । स्वानंददायकं स्नानमात्रेणात्र न संशयः ॥३९॥ पुरे कदंबनाम्न्येव गाणेशं चिंतिताथर्दम् ।