भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 354, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 354

पान ७०

परः ॥७५॥ इति गर्वेण संयुक्तमिंद्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥७६॥ उवाच नरशार्दूलः ततस्तं मोहसंयुतः । न संख्या विद्यते देव मम पुण्यस्य देवप ॥७७॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे । न मे कलां च पुण्यस्य लभंते देवनायक ॥७८॥ तस्य तद्वचनं श्रुत्वा तमिंद्रः प्रत्युवाच ह । न जानासि महाराज एषां पुण्यप्रभावकम् ॥७९॥ सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः । स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥८०॥ तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप । प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥८१॥ ततः पपात भूपृष्ठे ययातिर्दुःख- संयुतः । तं पतंतं च दौहित्रा ददृशुः शिबिमुख्याः ॥८२॥ मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् । तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥८३॥ ततस्तं नारदो योगी जगाद करुणायुतः । त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥८४॥ विघ्नेशं भज राजंस्त्वमंते स्वानंदगस्ततः । भविष्यसि न संदेहो नोचेद्भूमौ पतिष्यसि ॥८५॥ ततस्तेन गणेशस्य मंत्रो दत्तो दशाक्षरः । तं जजाप ययातिश्च गणेशध्यानतत्परः ॥८६॥ पुण्यक्षये स राजेंद्रः शुक्लगत्या प्रजापते । गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥८७॥ ययातेश्चरितं पुण्यं संक्षेपेण निरूपितम् । शृण्वते कामदं पूर्णं भविष्यति न संशयः ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥ ❧❦❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः । सहस्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥१॥ शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् । हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥२॥ हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः । तस्य नेत्रस्तस्य कुंतिः सोहंजिस्तत्सुतः स्मृतः ॥३॥ सो हंजेरभवत् पुत्रो महिष्मानाम पार्थिवः । माहिष्मती च नगरी वासिता येन भूभुजा ॥४॥ तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः । धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥५॥ धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः । कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥६॥ कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् । बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥७॥ तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 354, कुल 1023 में से · BharatKosha