मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 356, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ३२ पान ७२ धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि। पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥३४॥ राज्यादिकं समुत्सृज्य वने तपति संस्थितः। तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥३५॥ केनोपायेन पुत्रश्च भविता तं वदस्व मे। प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ॥३६॥ ततस्तं प्रत्युवाचेदं वचनं चतुराननः। पूर्वजन्मनि संभूतं द्विजहत्यायुतं व्रतम् ॥३७॥ पुनः प्रोवाच तं देवो विधिः सर्वार्थकोविदः। पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् ॥३८॥ अज्ञानेन व्रतं तेन कृतं संकट- हारकम्। चतुर्थीप्रभवं तेन पापं सर्वं लयं गतम् ॥३९॥ महापापानि नश्यंति संकष्टीव्रतसाधनात्। संकष्टीव्रतसंबंधिदिवसे यत् कृतं भवेत् ॥४०॥ तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः। चतुर्थ्यां भूप कृष्णायां पुण्यमेव समाचरेत् ॥४१॥ तव पुत्रेण राजेंद्र द्वादश ब्राह्मणा हताः। चतुर्थ्यां पूर्वजन्मस्थेन पापं तत्स्थितं महत् ॥४२॥ नानातपःप्रभावेण व्रततीर्थादिकेन च। यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति ॥४३॥ संकष्ठयां यत्कृतं पापं वज्रलेपं च तत्स्मृतम्। तत्र कश्चिदुपायो न तथाऽपि शृणु मे वचः ॥४४॥ येन संकष्टिका पुण्या चतुर्थी साधिता नृप। तस्य जन्मादिकं नैव भविष्यति कदा पुनः ॥४५॥ चतुर्विधं प्रजानीहि सर्वं मायामयं जगत्। संकटं चैव जीवानां तेन युक्ता भ्रमंति ते ॥४६॥ चतुर्थी गणनांथस्य संकष्टी साधिता यदा। चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ॥४७॥ ब्रह्मणि ब्रह्मभूतोऽन्ते स्वानंदे वर्तते नरः। व्रतस्यैव प्रभावेणेहलोके सुखमाप्नुयात् ॥४८॥ चतुर्थ्यां पापकारा ये तेषां मुक्तिर्न विद्यते। पापयुक्ततया राजन् स्वर्गस्थास्ते भवंति च ॥४९॥ पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम्। भुंजंति च पुनः सर्वे गाणपत्या भवंति ते ॥५०॥ अतो गणेशदूतैः स कैलासे स्थापितोऽन्त्यजः। पापभोगार्थमेवं च तव पुत्रोऽधुनाऽभवत् ॥५१॥ चतुर्थ्यां यत्कृतं पापं चतुर्थी हंति तत् सदा। तदर्थं ते सुतो राजंश्चतुर्थीमाचरिष्यति ॥५२॥ तदा पापविहीनोऽयं भविता नात्र संशयः। पुत्रयुक्तश्च ते पुत्रो भविष्यति महामते ॥५३॥ अपराधयुतं कर्म कृतं नाशार्थमादरात्। तस्य पुण्यं प्रकर्तव्यं दुरितं तेन नश्यति ॥५४॥ चतुर्थी महिमाऽनंतो भूतं यदपि तद्दिने। पापं क्रोधसमायुक्ता महाकृच्छ्रेण हंति सा ॥५५॥ अतस्तत्पापनाशार्थं संकष्टीर्द्वादशाऽऽचरेत्। तदा द्वादशविप्रांतभवं पापं गमिष्यति ॥५६॥ ततस्तं करुणायुक्तः स विधि व्रतमादरात्। कथयामास वै ब्रह्मा ययौ राजा प्रणम्य तम् ॥५७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते धनदस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः ॥