मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 358, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ३४ | पान ७४ कृतवीर्यकः । बभूव वर्णितं विप्र त्वया संशयदायकम् ॥२६॥ अतः संशयनाशार्थं वद मुद्गल मे वचः । सर्वज्ञस्त्वं न संदेहः साक्षाद्योगीश्वरो महान् ॥२७॥ मुद्गल उवाच । प्रजापते शृणु ह्यत्र वचनं मे महामते । येन ते संशयो नाशं गमिष्यति न संशयः ॥२८॥ व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् । संकष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥२९॥ पृथिव्यां स्वर्गलोके तत् पाताले सर्वसंमतम् । चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥३०॥ जनास्तन्नैव जानंति पृथिव्यां कुत्रचित् प्रभो । कृतवीर्याच्च सर्वत्र प्रकाशमगमद्द्रुतम् ॥३१॥ एत्तते सर्वमाख्यातं शृणु तस्य कथानकम् । कृतवीर्यस्य भूपस्य पुण्यदं शृण्वते भवेत् ॥३२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वर्षमात्रव्रतेनैव गतं पापं लयं महत् । द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥१॥ व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपांगना । सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥२॥ हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह । कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥३॥ त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै । महोत्सवायुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥४॥ रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् । तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥५॥ गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम । आगमिष्यामि ते गेहं सांगं पुत्रं करोम्यहम् ॥६॥ मा चिंतां कुरु राजेंद्र गणनाधप्रसादजः । पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥७॥ ततः सोऽन्तर्दधे योगी दत्तात्रेय- स्तथा नृपः । प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥८॥ ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः । चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥९॥ येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् । चांडालादिद्विजांतास्ते व्रतं चक्रुर्विशेषतः ॥१०॥ अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद । अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥११॥ तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न । न वंध्यादि भयं तद्वद्रोगादिकभयं नहि ॥१२॥ ततो द्वादशवर्षेषु गतेषु स जगाम ह । दत्तो योगींद्र- सेव्यश्च तं ननाम नराधिपः ॥१३॥ पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् । पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥१४॥