मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 359, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ३४ पान ७५ ततः स हर्षितो राजा ददौ पुत्रं च तत्करे । अंके संगृह्य योगींद्रो राजानं प्रत्युवाच ह ॥१५॥ राजन् व्रतं त्वया तत्रांग- हीनत्वमजानता । कृतं तु तेन ते पुत्रोऽंगहीनः प्रबभूव ह ॥१६॥ व्रतस्य जागरे राजन् जृंभितं च पुनः पुनः । त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥१७॥ व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः । पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥१८॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥१९॥ अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः । अंतर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥२०॥ प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादि- संयुते । राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥२१॥ ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् । वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥२२॥ मंत्रं जजाप भो दक्ष हस्तपादविवर्जितः । देहभावमतिक्रम्य संस्थितः काष्ठवद्भूमौ ॥२३॥ तपःप्रभावतस्तस्य वने निर्वैरभावतः । प्राणिनः संचरंति स्म गजसिंहादयः सदा ॥२४॥ एवं द्वादशवर्षाणि गतानि तपसो यदा । तदा तत्राऽऽययौ ढुंढिर्भक्तं परमभाविकम् ॥२५॥ तडागमध्यभागात्तं निःसृतं गणपं नृपः । दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥२६॥ हर्षेण महता युक्तस्तं तुष्टाव गजाननम् । सरोमांचो महावीरः कार्तवीर्यो महायशाः ॥२७॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥२८॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥२९॥ सर्वपूज्याय हेरंब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥३०॥ निराकाराय साकाररूपाय परमात्मने । योगाय योगदात्रे ते शांतिरूपाय वै नमः ॥३१॥ सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने । आनंदाय सदानंदकंदरूपाय ते नमः ॥३२॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च । तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥३३॥ नानामायाधरायैव नानामायाविवर्जित । मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥३४॥ स्वानंदपतये तुभ्यं सिद्धिबुद्धिबराय च । सिद्धिबुद्धिप्रदात्रे च लंबोदर नमोऽस्तु ते ॥३५॥ किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे । शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥३६॥ जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् । वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥३७॥ त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । अंगहीनस्य सर्वस्य स्वंगदं प्रभविष्यति ॥३८॥ कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् । तस्य सांगं सदा सर्वं करोमि स्तोत्रपाठतः ॥३९॥ इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः । अंते स्वानंदगो भूत्वा ब्रह्मभूतो