भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 360, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 360

भविष्यति ॥४०॥ ततस्तं कार्तवीर्यश्च जगाद गणनायकम् । हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥४१॥ कार्तवीर्य उवाच । किं वृणोमि गणाधीश सर्वं मायामयं विभो । तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥४२॥ सुहृदां तदपि स्वामिन् संतोषार्थं वृणोम्यहम् । शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥४३॥ यद्यदिच्छामि तत्तच्च सुलभं मे गजानन । भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥४४॥ अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप । धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥४५॥ प्रवालमयरूपेण मया दृष्टो गजाननः । प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥४६॥ सदा विजयसंयुक्तं सहस्रभुजसंयुक्तम् । मां कुरुष्व दयासिंधो विष्णुतुल्यपराक्रमम् ॥४७॥ मदीयसेवनं देव देववच्च सदा भवेत् । मंत्रादिकं च मे नाथ भवतु त्वत्प्रसादतः ॥४८॥ मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो । न मत्सम्स्त्रिलोकेषु सेंद्रादिषु भवेत्किल ॥४९॥ ततस्तं गणनाथः स तथेति प्रत्युवाच ह । सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥५०॥ मदीयस्मरणेनैव मंत्रादीनां प्रसेवया । निर्विघ्नं ते च राजेंद्र भविष्यति निरंतरम् ॥५१॥ एवमुक्त्वा गणेशस्तमंतर्धानं जगाम ह । ततस्तस्य प्रजानाथ देहः सांगो बभूव ह ॥५२॥ सहस्रभुजसंयुक्तो बभूव पदसंयुतः । महाबलो महावीर्य- स्तेजसा संयुतोऽभवत् ॥५३॥ तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च । साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥५४॥ ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् । गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥५५॥ पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः । ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥५६॥ ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः । हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥५७॥ कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः । दूतैर्ज्ञात्वा च वृत्तांतं तं ययुः सर्वनागराः ॥५८॥ प्रधानांश्च प्रणम्यैनं सुहृद्भिरभिनंदितम् । अलंकृते पुरे सर्वे वेशयामासुरादरात् ॥५९॥ ननाम मातरं सोऽपि पितरं हर्षसंयुतः । ताभ्यामाशीर्भिरत्यंतं मुदितश्च कृतो बभौ ॥६०॥ ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् । स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥६१॥ राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा । स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥६२॥ तस्य राज्ये जनाः सर्वे संकष्टीव्रतकारकाः । क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥६३॥ इदं च कृतवीर्यस्य चरितं यः शृणोति चेत् । पठेद्वा तस्य संकटं भवेन्न च चतुर्विधम् ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुर्विंशोऽध्यायः ॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 360, कुल 1023 में से · BharatKosha