भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 370, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 370

खं. ३ अ. ३९ पान ८६ कीर्तिज्ञानादिकं यशः । सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥४१॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुंदुभेः । पुनर्वसुः सुतस्तस्याहूकस्तस्य सुतः स्मृतः ॥४२॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥४३॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥४४॥ धृतदेवा तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शांतिदेवा च सहदेवा च सुव्रता ॥४५॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते । उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥४६॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य स्वयंभोजश्च तत्सुतः ॥४७॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥४८॥ वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥४९॥ देवकीपुत्रतां यातो देवैः संप्रार्थितो हरिः । भूमिभारावताराय साधूनां पालनाय च ॥५०॥ रोहिणी च महाभागा वसुदेवादजीजनत् । संकर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥५१॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥५२॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥५३॥ सुषेणश्च ततो दायि भद्रसेनो महाबलः । ऋतुः संमर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥५४॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत लोकनाथं तं बलभद्रं हलायुधम् ॥५५॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्सांकितवक्षसम् ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निष्षठोल्मुकौ ॥१॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः संप्रोक्ताश्चारुरूपाः सुलोचनाः ॥२॥ तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥३॥ प्रद्युम्नसांबमुख्याश्च महातेजोयुताः सुताः । महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥४॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥५॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 370, कुल 1023 में से · BharatKosha