भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ३ अ. ३९ पान ८६ कीर्तिज्ञानादिकं यशः । सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥४१॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुंदुभेः । पुनर्वसुः सुतस्तस्याहूकस्तस्य सुतः स्मृतः ॥४२॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥४३॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥४४॥ धृतदेवा तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शांतिदेवा च सहदेवा च सुव्रता ॥४५॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते । उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥४६॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य स्वयंभोजश्च तत्सुतः ॥४७॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥४८॥ वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥४९॥ देवकीपुत्रतां यातो देवैः संप्रार्थितो हरिः । भूमिभारावताराय साधूनां पालनाय च ॥५०॥ रोहिणी च महाभागा वसुदेवादजीजनत् । संकर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥५१॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥५२॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥५३॥ सुषेणश्च ततो दायि भद्रसेनो महाबलः । ऋतुः संमर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥५४॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत लोकनाथं तं बलभद्रं हलायुधम् ॥५५॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्सांकितवक्षसम् ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निष्षठोल्मुकौ ॥१॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः संप्रोक्ताश्चारुरूपाः सुलोचनाः ॥२॥ तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥३॥ प्रद्युम्नसांबमुख्याश्च महातेजोयुताः सुताः । महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥४॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥५॥

खं. ३ अ. ३९ पान ८७


मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः । जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥६॥ दक्ष उवाच । कथं विष्णुः स्वयं साक्षात् मानुषे देहधारकः । बभूव तत्र यन्मूलं तदेव वद मानद ॥७॥ मुद्गल उवाच । कथां शृणु महारम्यां पुरा जातां प्रजापते । यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥८॥ पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः । राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥९॥ ततस्तान् हंतुमत्यंतं ययुर्देवा उदायुधाः । प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥१०॥ अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः । राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥११॥ शस्त्रादिभिर्विहीनान्नः कथं हंतुं समुद्यताः । सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥१२॥ अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् । मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥१३॥ तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् । देवा हंतुं प्रारभंत पलायंताऽसुरास्तदा ॥१४॥ शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः । उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥१५॥ तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः । समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥१६॥ रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् । नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥१७॥ तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा । मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥१८॥ तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः । तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥१९॥ एतस्मिन्नंतरे तत्राजग्मुर्विष्णुपुरोगमाः । देवा उदायुधाः सर्वे दैत्यान् हंतुं प्रचक्रमुः ॥२०॥ तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः । दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥२१॥ तामनादृत्य देवेंद्रो विष्णुना प्रेरितः स्वयम् । वज्रं धृत्वा ययौ हंतुं दैत्यान् क्रोधविलोचनः ॥२२॥ ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् । सवज्रं देवराजं तं स्तंभितं प्रचकार ह ॥२३॥ तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना । शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥२४॥ एतस्मिन्नेव काले तु भृगुस्तत्र समागतः । मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥२५॥ शशाप विष्णुमावेशात् पत त्वं पृथिवीतले । ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥२६॥ भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते । जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥२७॥ ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः । शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥२८॥ तत्राऽतितपसा देवं वर्षमात्रं प्रजापते । निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥२९॥ ततस्तं गणराजः स ययौ भक्तिनियंत्रितः । उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥३०॥ गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः ।


पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥३१॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु केशव ॥३२॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥३३॥ अत्रैव वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥३४॥ ओमित्युक्त्वा स्वयं ढुंढिरूचिवान् भक्तमुत्तमम् । मा चिंतां कुरु विष्णो त्वं शृणु मे परमं वचः ॥३५॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥३६॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥३७॥ देवैः संप्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायोऽवतारं प्रधरिष्यसि ॥३८॥ तत्र ते कीर्तिरत्यंतं भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥३९॥ तत्र त्वदीयभक्ताश्च भविष्यंति विशेषतः । तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥४०॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । वैकुंठे ते सदा वासो भविष्यति न संशयः ॥४१॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥४२॥ अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥४३॥ इत्युक्त्वाऽंतर्दधे दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥४४॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः । विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥४५॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥१॥ तेषां चरित्रमत्यंतं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥२॥ पुरोर्वंशे महाराज शांतनुः प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥३॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गंगायां सर्व- शास्त्रज्ञो ब्रह्मचर्यपरायणः ॥४॥ सत्यवत्यां च पुत्रौ द्वौ शांतनोर्वै बभूवतुः । चित्रांगदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥५॥ चित्रांगदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्रांगदेन युद्धे स गंधर्वेण हतोऽभवत् ॥६॥ विचित्रवीर्यकस्तत्र यक्ष्मणा

[headers] खं. ३ अ. ४० पान ८९

पीडितोऽभवत् । मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥७॥ तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके । अंबिकांऽबालिका नान्द्यौ दुःखिते ते बभूवतुः ॥८॥ सत्यवत्या कृतं तत्र संतानार्थं महामुनेः। व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥९॥ स आगत उवाचैनां किमर्थं दुःखिता वद । मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥१०॥ तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो । विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥११॥ तथेति तेन वंशस्य कृता वृद्धिः प्रजापते । कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥१२॥ अंबिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह । पांडुरंबालिकायां वै दास्यां च विदुरोऽभवत् ॥१३॥ यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् । मांडव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥१४॥ दक्ष उवाच । कथं मांडव्यशापश्च यमेशस्य पुराऽभवत् । धर्ममार्गरतस्याऽपि स्वपरेषु समस्य भोः ॥१५॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् । पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥१६॥ मांडव्यो मुनिवर्यः स वने तपसि संस्थितः । तत्र चोरा धनं हृत्वा पलंतश्च समाययुः ॥१७॥ राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः । चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसंनिधौ ॥१८॥ धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते । राजदूतैर्धनं दृष्टं संगृह्य कुपिता भृशम् ॥१९॥ ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् । संगृह्य ताडर्यंतस्त आययुर्नगरे स्वके ॥२०॥ राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् । वृत्तांतं चौरसंभूतं नृपोऽपि कुपितोऽभवत् ॥२१॥ शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः । तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥२२॥ तत्र दुःखसमायुक्तो मांडव्यस्तपसि स्थितः । सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥२३॥ स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ । तं तथा दुःखसंयुक्तं दृष्ट्वा संदुःखितोऽभवत् ॥२४॥ उवाच तं स्वशिष्यं स भज त्वं गणनायकम् । सर्वविघ्ननिहंतारं भक्तेभ्यः शांतिदायकम् ॥२५॥ ततस्तं मुनिशार्दूलं मांडव्यः प्रजगाद वै । केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥२६॥ तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह । गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥२७॥ कश्यप उवाच । पंचधा चित्तवृत्तेश्च चालकोऽयं गजाननः । चिंतामणिरिति ख्यातो वेदांते वेदवादिभिः ॥२८॥ संप्रज्ञातस्वरूपो वै देहस्तस्य महामुने । असंप्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥२९॥ तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय । भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥३०॥ भ्रमधारकborder/रूपां त्वं बुद्धिं जानीहि सत्तम । तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥३१॥ तं भजस्व

खं. ३ अ. ४० पान ९०


विधानेन योगशांतिमयं मुने। तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥३२॥ इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः। एकाक्षरविधानेन कवचं शास्त्रसंमतम् ॥३३॥ आज्ञां संगृह्य विप्रेशः कश्यपः स्वालयं ययौ। मांडव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥३४॥ कवचं गणराजस्य दधार मुनिसत्तमः। कवचे संधृते दक्ष पीडाहीनो बभूव ह ॥३५॥ तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ। ददर्श तं महाविप्रं प्रणनाम कृतांजलिः ॥३६॥ रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत्। मा रुद् त्वं महीपाल नैव शापं ददाम्यहम् ॥३७॥ मदीयकर्मदोषेण शूलप्रोतोऽहमेव च। अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥३८॥ ततो नृपेण विप्रार्थं लोहकारविचक्षणाः। समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥३९॥ शूलाग्रं हस्तगं तत्रैकभागं संगतं बभौ। निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥४०॥ शस्त्रैः संछेदितं तैस्तत् शूलाग्रं हस्तगं विधे। यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥४१॥ राज्ञा संपूजितो विप्रः प्रययौ यमसंनिधिम्। उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥४२॥ मांडव्य उवाच। मया किं प्रकृतं कर्म पापरूपं वदस्व माम्। येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥४३॥ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः। प्रांजलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥४४॥ यम उवाच। बालभावे त्वया ब्रह्मन् कीटः कंटकवेधितः। तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥४५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः। जगाद धर्मराजं तं मांडव्यश्च प्रजापते ॥४६॥ अहो बालस्वभावेन कृतं कर्म मया किल। अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥४७॥ अतो नीतिविहीनस्त्वं पतिष्यसि धरातले। शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥४८॥ अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज। अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥४९॥ मम वाक्येन भवतु गणराजप्रसादतः। तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥५०॥ मांडव्यः स्वाश्रमे गत्वा तताप तप उत्तमम्। एकाक्षरविधानेन तोषयामास विघ्नपम् ॥५१॥ कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम्। बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥५२॥ अणिमांडव्यको नाम्ना तदादि स बभूव ह। स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥५३॥ नित्यं गणपतेर्विप्रो मूर्तिपूजारतोऽभवत्। सदा गणेशभावज्ञः सर्ववंद्यो महायशाः ॥५४॥ मांडव्यचरितं पुण्यं यः शृणोति नरोत्तमः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांडव्यचरितं नाम चत्वारिंशोऽध्यायः ॥

यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:

शीर्षक (Header): खं. ३ अ. ४१ | पान ९१


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । धृतराष्ट्रं च जन्मांधं त्यक्त्वा पांडुं प्रचक्रिरे । राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुंधराम् ॥१॥ छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः । धृतराष्ट्रं चकाराऽसौ पांडुः परपुरंजयः ॥२॥ धृतराष्ट्रस्य भार्या- ऽभूद्गांधारी च पतिव्रता । पांडोः कुंती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥३॥ भार्याभ्यां संयुतो राजा वनं पांडुर्जगाम ह । क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥४॥ मृगरूपधरं राजा मुनिं जघ्ने शरेण सः । मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥५॥ भार्यासंसक्तरूपं मां हतवांश्च नृपाधम । अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥६॥ तदा ते मरणं सद्यो मम वाक्याद्भविष्यति । इत्युक्त्वा देहसंत्यागं चकार द्विजसत्तमः ॥७॥ श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः । भार्याभ्यां सहितः पांडुः कंदमूलादि भक्षयन् ॥८॥ ततः कुंत्यां समुद्भूतो धर्माद्धर्मभृतां वरः । युधिष्ठिरो महाभागो मंत्रसामर्थ्यकारणात् ॥९॥ वायोश्च भीमसेनो वै बभूव बलसंयुतः । इंद्रात् कुंत्यामर्जुनः स धनुर्विद्यापरायणः ॥१०॥ अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् । माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुक्तौ ॥११॥ गांधार्यां च शतं पूर्णं पुत्राणाममितौजसाम् । बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥१२॥ पांडुः शापविमोहेन माद्र्यां सक्तो ममार ह । सा वै सहगता जाता कुंती पुत्रानपालयत् ॥१३॥ ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे । पुत्रैः कुंती तथा भीष्मादिभिः संमानिताऽवसत् ॥१४॥ ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह । पांडवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥१५॥ दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल । पांडवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥१६॥ इत्यादि विविधैर्भावैः द्वेषयुक्तः स दुर्मतिः । पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥१७॥ अर्धं राज्यं च संगृह्य पुराद् गच्छंतु पांडवाः । इंद्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥१८॥ तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् । कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥१९॥ राजसूयमखं कृत्वा शुशुभुः पांडवास्ततः । यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥२०॥ धृतराष्ट्रेण दुर्बुद्धिरानयामास पांडवान् । द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥२१॥ वनेषु स्थापयामास पांडवान् साहसप्रियः । वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥२२॥ त्यक्त्वा राज्यादिकं सर्वं पांडवा वनमाययुः । तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥२३॥ पांडवान् सांत्वयामास क्रोधयुक्तो बभूव सः । दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥२४॥ कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः । ब्रुवंतं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥२५॥ धर्मयुक्ततया राज्यं

[Page Header] पान ९२


करिष्यामि जनार्दन। अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापप्रदम् ॥२६॥ अतः कोपं महाबाहो नियच्छ मम वाक्यतः। वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥२७॥ ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह। युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥२८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। शृणु दक्ष महाभाग चरितं विघ्नपस्य च। कृष्णः संकथयामास पांडवानमितद्युतिः ॥१॥ श्रीकृष्ण उवाच। युधिष्ठिर महापुण्यशीलः शृणु वचो महत्। येन त्वं संकटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥२॥ इतिहासं पुरावृत्तं कथयामि समासतः। सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥३॥ एकदा देवदेवेशो विष्णुर्वैकुंठसंस्थितः। लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥४॥ गरुडेन समीपस्थेन सदा हर्षसंयुतः। अप्सरोभिश्च गंधर्वैर्देवैः संसेवितो बभौ ॥५॥ तमुवाच महाभागं भगवंतं सनातनम्। शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥६॥ श्रीलक्ष्मीरुवाच। स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः। स्त्रीणां भर्तृसमं नैवास्ति किंचिद्वेदभाषितम् ॥७॥ त्वं साक्षाद्देवदेवेशः शंकराद्यैः सुसंस्तुतः। षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥८॥ देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः। सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥९॥ सर्वेषां पालकस्त्वं वै तव पाता न विद्यते। तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥१०॥ एकांते पूजयसि कं देवं त्वं विष्टरश्रवाः। आनंदं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥११॥ विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो। अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥१२॥ संशयच्छेदनाथं मां वद विष्णो विशेषतः। दासीं ते पादपद्मस्य द्वंद्वहीनः सदा मतः ॥१३॥ सर्वत्र समरूपस्त्वं सदाऽऽनंदमयस्ततः। तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥१४॥ ध्यानेन पूजनेनैव फलं किं ते भविष्यति। तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥१५॥ श्रीकृष्ण उवाच। इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः। समालिंग्य प्रजानाथ उवाच जलधेः सुताम् ॥१६॥ श्रीविष्णुरुवाच। शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम्। तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥१७॥ न करोमि जनानां वै ध्यानं मोहाय नित्यदा। कुलदेवं गणेशानं भजामि सर्वभावतः ॥१८॥ गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः।

पंच देवा महाभागे तेन संस्थापिताः पदे ॥१९॥ गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः । गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥२०॥ ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः । सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥२१॥ प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् । जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥२२॥ अतस्तं भावसंयुक्ता भजामो नित्यमादरात् । स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥२३॥ विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा । जगाद तं महाविष्णुं विनयेन समन्विता ॥२४॥ श्रीलक्ष्मीरुवाच । कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः । स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥२५॥ श्रीविष्णुरुवाच । सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् । वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥२६॥ स्वानंदे सोऽपि वसति गणेशो ब्रह्मनायकः । स्वानंदः पंचधा जातः शृणु तस्य कथानकम् ॥२७॥ नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् । तत्र स्वानंदको योगोऽसद्रूपः परिकथ्यते ॥२८॥ असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् । सत्स्वरूपं च तद्विद्धि सत् स्वानंदः प्रकीर्तितः ॥२९॥ सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा । आनंदात्मकरूपं तत् समस्वानंद उच्यते ॥३०॥ त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् । नेतिरूपं महाभागे स्वानंदोऽव्यक्त उच्यते ॥३१॥ चतुर्णां योगभावोऽयं समाधिर्जायते किल । स्वानंदः पंचमो ह्यत्र सर्वसंयोग उच्यते ॥३२॥ स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः । चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥३३॥ मायाहीनतया ढुंढिरभूत् सोऽयोगवाचकः । न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥३४॥ मायायुक्तविहीनत्वं तदेव भ्रांतिदायकम् । ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥३५॥ तत्र शांतिर्भवेद्देवि योगिनां नात्र संशयः । अतो योगस्वरूपा सा कथ्यते शांतिरुत्तमा ॥३६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥३७॥ तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते । अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥३८॥ भ्रमरूपां महामायां सिद्धिं जानीहि मानदे । सिद्ध्यर्थं सर्वलोकाश्च विभ्रमंतीश्वरा अतः ॥३९॥ भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् । सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥४०॥ तयोः स्वामी सदायोगशांतिरूपोऽयमुच्यते । तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥४१॥ इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः । श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

खं. ३ अ. ४३ पान ९४ ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । शृणु धर्म महाभाग कथां पापापनोदिनीम् । लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥१॥ श्रीमहालक्ष्मीरुवाच । भगवन् भवता प्रोक्तं महाशांतिप्रदं परम् । तथाऽपि मे सुशांत्यर्थं तत्रोपायं वदस्व मे ॥२॥ श्रीनारायण उवाच । षडक्षरेण मंत्रेण यदि तं साधयिष्यसि । तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥३॥ तस्य दर्शनमात्रेण शांतिं प्राप्स्यसि निश्चितम् । तमाराधय यत्नेन तपसा योगभाविता ॥४॥ एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् । षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥५॥ ततः सा तं प्रणम्यैव तपसे वनमाययौ । हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥६॥ षडक्षरविधानेन ध्यात्वा देवं गजाननम् । जजाप मंत्रराजं तं नासाग्रनयना सती ॥७॥ चित्तस्य चेंद्रियाणां संस्थाप्य वृत्तिं गजानने । निराहारयुता देवी बभूव तपसि स्थिता ॥८॥ शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता । तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥९॥ तमागतं महादेवी प्रणनाम चतुर्भुजम् । महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥१०॥ मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् । सिद्धिवुद्धिसमायुक्तं नानाभूषणभूषितम् ॥११॥ गले चिंतामणिमणिं बिभ्रतं ज्योतिषां पतिम् । शेषनाभिं गजास्यं वै पोतवस्त्रैश्च शोभितम् ॥१२॥ ततस्तं पूजयामास प्रभुं नानोपचारकैः । प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥१३॥ श्रीमहालक्ष्मीरुवाच । नमो महोदरायैव नानालीलाधराय ते । सदा स्वानंदसंस्थाय भक्तिगम्याय वै नमः ॥१४॥ चतुर्बाहुधरायैव चतुर्णां चालकाय ते । मूषकारूढरूपाय मूषकध्वजिने नमः ॥१५॥ अनंता- ननदेहाय ह्यनंतविभवाय ते । अनंतहस्तपादाय सदाऽनंताय ते नमः ॥१६॥ चराचरमयायैव चराचरविवर्जित । योगशांति- प्रदात्रे ते सदा योगस्वरूपिणे ॥१७॥ अनादये गणेशायादिमध्यांतस्वरूपिणे । आदिमध्यांतहीनाय विघ्नेशाय नमो नमः ॥१८॥ सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः । सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥१९॥ विनायकाय सर्वेषां नायकाय विशेषतः। ढुंढिराजाय हेरंब भक्तेशाय नमो नमः॥२०॥ सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः । त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥२१॥ कर्मणां फलदात्रे च कर्मणां चालकाय ते । कर्माकर्मादिहीनाय लंबोदर नमोऽस्तु ते ॥२२॥ योगेशाय च योगिभ्यो योगदाय गजानन । सदा शांतिघनायैव ब्रह्मभूताय ते नमः ॥२३॥ किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥२४॥ धन्याऽहं कृतकृत्याऽहं सफलो मे भवो- ऽभवत् । धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥२५॥ एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा । साश्रुयुक्ता ननर्तैव

बाष्पकंठा युधिष्ठिर ॥२६॥ तामुवाच गणाधीशो वरं वृणु यथेप्सितम् । दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥२७॥ त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां देवि नानाकार्यकरं तथा ॥२८॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यादिसंभूतं सुखं विंदति मानवः ॥२९॥ गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् । हर्षेण महता युक्ता प्रणम्य करसंपुटा ॥३०॥ श्रीमहालक्ष्मीरुवाच । यदि प्रसन्नभावेन वरदोऽसि महोदर । तदा ते भक्तिमुग्रां मे देहि नाथ नमोऽस्तु ते ॥३१॥ अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक । भजामि भावयुक्ताऽहं तथापि शृणु मे वचः ॥३२॥ मनश्चंचलभावेन संसारे गच्छति प्रभो । संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥३३॥ अतस्त्वं पुत्रभावेन भव मे विघ्नवारण । तत्र त्वां पुत्रवात्सल्येन भजामि निरंतरम् ॥३४॥ देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् । भजामि च तथा त्वाहं संसारे पुत्ररूपिणम् ॥३५॥ योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि । तेन योगस्वरूपा सा शांतिः प्राप्ता न संशयः ॥३६॥ तव माता पिता चैव बंधयुक्तौ यदि प्रभो । तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥३७॥ अतो मे पुत्रतां याहि तयाऽहं गणनायक । भजामि ब्रह्मभूता न संदेहो भक्तिसंयुता ॥३८॥ मह्यमेष वरो नाथ दातव्यः करुणानिधे । नान्यं याचे महाभाग देवदेवेश ते नमः ॥३९॥ इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः । उवाच तां सुभावज्ञो भावपूर इति स्मृतः ॥४०॥ गणेश उवाच । तव पुत्रो भविष्यमि ज्ञानारेर्नाशनाय च । दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥४१॥ यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् । मदीयवरदानेन योगिवंद्या भविष्यसि ॥४२॥ आदौ त्वया महादेवि मदीयं भजनं कृतम् । तेन शांतियुता जाता योगस्था मोहवर्जिता ॥४३॥ ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह । सा त्वं नष्टा द्विजस्यैव शापतो मोहसंयुता ॥४४॥ समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा । तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता सदा ॥४५॥ तेन ते विस्मृतिर्जाता मदीया नात्र संशयः । विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥४६॥ अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे । विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥४७॥ त्वं तथा पुत्रभावार्थं याचसे मां समुद्रजे । करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥४८॥ एवमुक्त्वा गणेशस्तां ययौ स्वानंदके पुरे । अंतर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥४९॥ स्मृत्वा योगबलेनैव पुरातनभवां कथाम् । विस्मिता मानसे जाता सस्मार द्विरदाननम् ॥५०॥ मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः । पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥५१॥

खं. ३ अ. ४४ | पान ९६ प्रणम्य तं महाविष्णुं जगाद सर्वमंजसा । वृत्तांतं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥५२॥ धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः । पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । तव कृष्णमुखांभोजान्निःसृतां सर्वपावनीम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥१॥ ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह । किं कर्म तस्य यत् कृपण चेष्टितं वद विस्तरात् ॥२॥ यदर्थं गणराजः स देहधारी बभूव ह । न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥३॥ कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः । चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥४॥ मुद्गल उवाच । युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः । नारायणः कथां तस्मा अवदद्भवनाशिनीम् ॥५॥ श्रीकृष्ण उवाच । युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् । ब्रह्मभूयप्रदां ढुंढेः सुचरित्राश्रितां प्रभोः ॥६॥ दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च । शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥७॥ तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा । बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिामकः ॥८॥ प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः । रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥९॥ स तु यौवनमापन्नो दुर्मतिं पितरं सदा । सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥१०॥ स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् । शैवीं तया वने गत्वाऽऽराधयामास शंकरम् ॥११॥ वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः । तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥१२॥ ततस्तं प्रययौ शंभुः पार्वत्या सहितः स्वयम् । उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥१३॥ श्रीशिव उवाच । वरं वृणु महाभाग तपसा तोषितस्त्वया । दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥१४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुंगवः । दृष्ट्वा शंभुं मुदा युक्तः प्रणाम कृतांजलिः ॥१५॥ प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः । तुष्टाव सुस्थिरो भूत्वा शंकरं भक्तवत्सलम् ॥१६॥ ज्ञानारिरुवाच । नमस्ते शंकरायाैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥१७॥ अव्यक्तदेवाय च शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥१८॥ सदाशिवाय मायाया आधाराय नमो नमः ।

मायामोहविहीनाय शंभवे ते नमो नमः ॥१९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥२०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥२१॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥२२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥२३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥२४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥२५॥ तथेति शिव ऊचे तमंतर्धानं चकार ह । स दैत्यो हर्षितोऽत्यंतं स्वगृहं प्रत्यपद्यत ॥२६॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । शृणोति शंकरस्तस्मै वाञ्छितं ददते परम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥१॥ नमुचिः शंबरः कालासुरश्चैव प्रतापवान् । जंभो बलासुरः पंच प्रधानास्तस्य चाऽभवन् ॥२॥ नानादैत्य- गणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥३॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः । इंद्रः सुरगणैः सार्धं पपाल भयसंकुलः ॥४॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥५॥ विष्णुर्वैकुंठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः संबभूव ह ॥६॥ जगाम तत आनंदात् कैलासं दैत्यनायकः । शंकरं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥७॥ नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः । शंकरः क्षुभितो भूत्वा कंपितः प्रददौ तथा ॥८॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो दैत्यो ननंद भृशमोहितः ॥९॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्मं दैत्यपैः संवृतो बभौ ॥१०॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥११॥ पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥१२॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र

खं. ३ अ. ४५ [space] पान ९८ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कृतो नाशः कर्मणां भूममंडले ॥१३॥ न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता अभवंस्ततः ॥१४॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥१५॥ गते बहुतेरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥१६॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥१७॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥१८॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुंढिमभजन् भक्तिसंयुताः ॥१९॥ दशाक्षरेण मंत्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥२०॥ गते वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥२१॥ शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥२२॥ एवमुक्त्वांतर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्संगे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥२३॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुंडाधरं परम् ॥२४॥ विस्मिता हर्षिताऽत्यंतं नारायणमुवाच ह । वृत्तांतं सा महाभागा दर्शयामास विघ्नपम् ॥२५॥ सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्च माधवः ॥२६॥ धन्योऽहं सर्वभावेन त्वदंघ्रियुगदर्शनात् । पुत्रभावेन मां पालयसि नाथ न संशयः ॥२७॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रै- र्युधिष्ठिर ॥२८॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥२९॥ द्वंद्वभावविहीनो- ऽयं साक्षादानंददायकः । समो द्वंद्रेषु सर्वेषु तद्विकारविवर्जितः ॥३०॥ अतो नामाऽस्य देवेशाः पूर्णानंद इति स्फुटम् । कुरुध्वं सर्वदाऽऽनंददायको नो भविष्यति ॥३१॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबंधं च पंचमे विष्णुरव्ययः ॥३२॥ कश्यपस्य गृहे देव्यौ संभूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥३३॥ तस्मै ददौ मुदा युक्तः कश्यपः संप्रहर्षितः । ननाम पूर्णानंदाय विप्रेशो भक्तिसंयुक्तः ॥३४॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः । बालक्रीडनकेनैव मोहयामास देवपान् ॥३५॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥३६॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानंदावतारो नाम पंचचत्वारिंशोऽध्यायः ॥ ❖❖❖ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ३ अ. ४६ पान ९९ ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानंदः कथं दैत्यं जघान कौतुकं महत् ॥१॥ चराचराङ्गयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥२॥ मुद्गल उवाच । युधिष्ठिर- वचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥३॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसंमतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥४॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥५॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिंतयामास सर्वदा ॥६॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥७॥ एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥८॥ ततः पंच तथा सप्त मासास्तस्य गता विभो । वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥९॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥१०॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥११॥ एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडंतं बालभावतः ॥१२॥ गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥१३॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम निहंतारं भजतेऽयं तवात्मजः ॥१४॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥१५॥ पितृहंतारमेवायं करोति तनयो यतः । पुनर्हष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥१६॥ सा तथेति तमुच्चार्य स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥१७॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे । लालयामास तं तत्र न पश्यति यथा नृपः ॥१८॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥१९॥ नमो हेरंब विघ्नेश गणेशाय महोदर । लंबोदराय विकटाय नमो ढुंढये नमः ॥२०॥ इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्मं तथा पूजापरायणः ॥२१॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥२२॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥२३॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥२४॥ पंचमे व्रतबंधं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥२५॥ कर्मभंगभयात्

सोऽपि पूजां चक्रे सुमानसीम् । ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥२६॥ ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः । तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥२७॥ शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा । विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥२८॥ तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् । अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥२९॥ विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् । सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितो- ऽभवत् ॥३०॥ गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः । उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥३१॥ सुबोध उवाच । ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः । गाणपत्या विशेषेण भजंते गणनायकम् ॥३२॥ भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः । मोहदामासुरीं विद्यां त्यक्त्वा वंद्या भवंत्यतः ॥३३॥ भवंतो ज्ञानशीलाश्च किं मां वदथ विप्रपाः । गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥३४॥ यदा स्वधर्मनिष्ठाश्चेद्व्राह्मणा वचनं तदा । तेषां ग्राह्यं न संदेहो नान्यथा मोहकं कदा ॥३५॥ गुणयुक्तविहीनाश्चेद्व्राह्मणा मानवैः सदा । वंदनीया न संदेहः पूज्या सर्वत्र संमताः ॥३६॥ अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा । हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥३७॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः । ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥३८॥ दैत्याचार्या ऊचुः । सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् । स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥३९॥ न त्वया वेदविद्या या शिक्षिता सा महामते । तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥४०॥ सुबोध उवाच । माता गर्भवती मे गता पितृगृहं एकदा । तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥४१॥ तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः । संपूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥४२॥ प्रह्लाद उवाच । व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् । त्वं जातोऽसि न संदेहो योगींद्राणां गुरोर्गुरुः ॥४३॥ पूर्वपुण्य- बलेनैव प्राप्तं ते दर्शनं महत् । अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥४४॥ सर्वमान्यं च सर्वेषां योगशांतिप्रदं भवेत् । नानामतविमोहस्य छेदकं वद विस्तरात् ॥४५॥ सुबोध उवाच । प्रह्लादस्य वचो रम्यं श्रुत्वा योगींद्रसत्तमः । जगाद तं महाभागं योगशांतिपरायणम् ॥४६॥ श्रीशुक उवाच । प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः । अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥४७॥ सर्वमान्यं तथा राजन् सर्वेभ्यः शांतिदायकम् । नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥४८॥ एकदा नैमिषारण्ये समाजग्मुर्महर्षयः । ब्रह्मांडस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥४९॥ यत्र योगमयी

सं. ३ अ. ४७ | पान १०१

गाथा वर्तते दानवोत्तम । वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥५०॥ मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः । विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥५१॥ अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः । व्यासः परशुरामः श्वेतकेतु- र्मुद्गलो मुनिः ॥५२॥ अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः । अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥५३॥ मार्कंडेयो मृकंडश्च बकदाल्भ्यस्तथा विभो । नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥५४॥ एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा । पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥५५॥ अंगिरा वै दीर्घतमा उतथ्यो गालवस्तथा । दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥५६॥ वैशंपायन एवं वै शौनकः शुनकः प्रभो । वामदेवः सुमंतुश्च पैलः शाकलको मुनिः ॥५७॥ जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः । अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥५८॥ दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः । सनातनः सनंदः सनत्कुमारक आययुः ॥५९॥ अहं रिभुश्च सनक इत्याद्या बहवोऽपरे । अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥६०॥ इंद्रो ब्रह्मा तथा विष्णुः शंकरो भानुरेव च । सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥६१॥ शेषो वासुकिनागश्च कंबलोऽश्वतरस्तथा । तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥६२॥ गंधर्वाश्चारणा- श्चैव सिद्धाः साध्यगणास्तथा । आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥६३॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः । नानादेवरताः सर्वे आययुस्तत्र मानद ॥६४॥ प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः । तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥६५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । तत्र नानाकथां चक्रुर्नानामतविकासिनीम् । स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥१॥ केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् । ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥२॥ केचिदन्नं च प्राणं च मनोविज्ञानकं तथा । आनंदं सोऽहमेकं वै चैतन्यं बिंदुकं परे ॥३॥ बोधमात्मानमेके च सांख्यं कर्म तथाऽपरे । सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥४॥ स्वसंवेद्यं तथा केचिन्निर्वृत्तिं शांतिरूपकम् । योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥५॥ असत्यं सत्यमेके च पूर्णानंदं तथाऽसुर । सहजं च परं ब्रह्म वादयुक्ता बभूविरे ॥६॥

खं. ३ अ. ४७ पान १०२ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् । स्वस्वज्ञानसमायुक्ता वादं चक्रुरपंडिताः ॥७॥ ततो वादस्य शांत्यर्थमवोचद् विष्णुरव्ययः । सर्वान् समागतांस्तत्र सर्वज्ञः शंकरेरितः ॥८॥ श्रीविष्णुरुवाच । वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः । तैर्यत् संपादितं देव मुनयः सर्व आगताः ॥९॥ संपाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः । सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥१०॥ वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः । अतो वेदैश्च सर्वेषां ज्ञानं संजायते परम् ॥११॥ योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः । साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥१२॥ तथापि वेदसंमान्यं वचस्तेषां न विद्यते । वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥१३॥ संपूर्णयोगिनो वेदा अतस्ते गुरवो मताः । महाभागाः स्मरध्वं तांस्तदा निःसंशयो भवेत् ॥१४॥ ततो मुनिगणाः सर्वे योगिनो देवनायकाः। साधु साधु समृचुस्तं विष्णुं बुद्धिमतां वरम् ॥१५॥ ततः शंकरमुख्यैस्तैः संस्मृताः कार्यसिद्धये । सांगाः समाययुर्वेदा ओंकारेण समन्विताः ॥१६॥ तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे । प्रणम्य पूजयामासुः कृतांजलिपुटाः पुरः ॥१७॥ आसनेषु समासीनाः सोंकारा वेदमुख्यकाः। ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥१८॥ वेदा ऊचुः । किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः । अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥१९॥ वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः । विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥२०॥ शिव उवाच । ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः । तत्र वादसमायुक्ता न तदंतं लभामहे ॥२१॥ अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः । निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥२२॥ योगिनो न भवतीह कदापि च भवत्समाः । भवदूचःप्रमाणेने योगज्ञा वयमप्युत ॥२३॥ शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः । देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥२४॥ वेदा ऊचुः । ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् । अक्षरात्मक- देहत्वात्तथापि कथयामहे ॥२५॥ न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किंचिदप्यहो । योगमार्गबलेनैव वदिष्यामो यथातथम् ॥२६॥ प्रत्येकनिश्चयं देवाः शृणुत ब्रह्मधारणम् । येन संशयसंहीना गमिष्यथ परां गतिम् ॥२७॥ ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च । प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥२८॥ सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् । योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥२९॥ न योगात् परं ब्रह्म योगशांत्या प्रलभ्यते । ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥३०॥ ब्रह्मणां सकलानां च पातृपालयितृत्वतः । तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥३१॥ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸

[सं. ३ अ. ४७] [पान १०३]

भवंति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् । एवमुक्त्वा बह्वृचस्तु तूष्णींभावधरोऽभवत् ॥३२॥ ततो यजुः स्वयं साक्षाद- वोचत् सर्वसंसदि । ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥३३॥ यजुरुवाच । नानाविधं मया ब्रह्म वर्णितं योगसेवया । महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥३४॥ तत्र योगस्वरूपाख्यमांत्यं ब्रह्म विशिष्यते । सर्वब्रह्मसुयोगेन योग स्तेन प्रकथ्यते ॥३५॥ तदेव गणराजश्च भक्तैः संप्रार्थितः पुरा । योगप्राप्त्यर्थमत्यंतं तेन साकारकोऽभवत् ॥३६॥ गणः समूह- रूपाख्यः समूहा ब्रह्मरूपिणः । तेषां स्वामी न संदेहस्तं भजध्वं विधानतः ॥३७॥ अन्नानां सकलानां च सदैवकानेकरूपिणाम् । समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥३८॥ नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः । ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥३९॥ अतो गणेशभक्त्या वै सकलं सुलभं भवेत् । ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥४०॥ इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् । उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥४१॥ साम उवाच । योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने । किंचित् शृणुत देवेशा ब्रह्मणो मुनयो वचः ॥४२॥ प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया । पात्रभेदार्थमत्यंतं ज्ञातव्यं योगसेवया ॥४३॥ तत्र शांतिप्रदं ब्रह्म योगाख्यं नात्र संशयः । भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥४४॥ नास्ति योगात् परं ब्रह्म शांतिमार्गेण लभ्यते । तदेव मुनयो देवा गणेशो नात्र संशयः ॥४५॥ मनोवाणी- मयं देवा मया यद्यत् प्रकीर्तितम् । गकाराक्षरसंभूतं ज्ञातव्यं विबुधैः सदा ॥४६॥ मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा । णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥४७॥ तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः । तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥४८॥ नानाभावेन युक्तास्तं भजंते तद्ददाति सः । एवमुक्त्वा महायोगी विरराम स सामगः ॥४९॥ ततोऽथर्वा महायोगी जगाद सकलांस्तदा । ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद शृणु तद्वचः ॥५०॥ अथर्वा उवाच । आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया । संपादितं च योगेन तदेवोपाधिसंयुतम् ॥५१॥ योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते । संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥५२॥ शांतिस्तत्र समाख्याता योगे योगविदां वरः । स एव गणनाथस्तु सर्व- शांतिप्रदोऽभवत् ॥५३॥ एक एव गणेशानो जगतां ब्रह्मणां स्वयम् । ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥५४॥ सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः । मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥५५॥ अंते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् । सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥५६॥ य आदिः सोंऽतरूपस्तु भवते सर्वसंमते ।

[खं. ३ अ. ४८] [पान १०४]

मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥५७॥ अतस्तं योगरूपाख्यं भजध्वं योगसेवया । भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥५८॥ एवमुक्त्वा महायोगी विरराम महामते । अथर्वा सर्वयोगज्ञस्तत्रोंकारोऽब्रवीद्वचः ॥५९॥ ओंकार उवाच । चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया । ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥६०॥ मयोपदेशिता वेदाः साधयामासुरन्वहम् । योगं ब्रह्मपदं तेन ब्रह्मज्ञाः सर्वसंमताः ॥६१॥ योगात् परं न विद्येत ब्रह्म सर्वत्र संमतम् । जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥६२॥ तदेव गणराजो वै निश्चितो योगिभिः सदा । संयोगायोगभावेन क्रीडते योगरूपधृक् ॥६३॥ सिद्धिर्भ्रांतिमयी माया बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥६४॥ मुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी । चित्तं पंचविधं बुद्धिरस्तयोर्योगेन लभ्यते ॥६५॥ स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् । सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥६६॥ तेन स्वानंदवासी च मायायुक्तः प्रकीर्तितः । अयोगे दर्शनं तस्य जायते न कदाचन ॥६७॥ निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते । गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥६८॥ तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः । तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥६९॥ ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः । एवमुक्त्वा तदोंकारस्तूष्णीमासीन् महामते ॥७०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । सोंकारवेदमुख्यानां वचनं हितकारकम् । श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥१॥ त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै । ओंकारादीन् महाभागा ऊचुः प्रांजलयो वचः ॥२॥ देवादय ऊचुः । ओंकारसहिता वेदा भवद्भिः कथितं वचः । तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥३॥ सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् । तदेव करणीयं यद् गतिदं सर्वसंमतम् ॥४॥ वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः । नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥५॥ ब्रह्मयज्ञस्य पारं वै भवंतो देवनायकैः । मुनिभिर्जनसंघैश्च गता भवथ निश्चितम् ॥६॥ देवादयो महाभागा एवमुक्त्वा विशेषतः । प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥७॥ पूजितास्तैरुक्तवेदाः सोंकारा दैत्यनायक ।

अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥८॥ एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् । तेन संशयहीनास्ते भजंते गणनायकम् ॥९॥ एतत्ते कथितं पूर्णयोगशांतिप्रदं परम् । सर्वमान्यं विशेषेण भज तं गणनायकम् ॥१०॥ सुबोध उवाच । एवमुक्त्वा महायोगी शुकश्चांतर्हितोऽभवत् । प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥११॥ संश्रुतं मातुरुदरसंस्थेन सकलं ततः । मया धृतं विशेषेण तदेवं योगदायकम् ॥१२॥ पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता । जनितोऽहमतो विप्रा भजामि गणनायकम् ॥१३॥ एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः । अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥१४॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः । ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥१५॥ विप्रा ऊचुः । सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा । तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥१६॥ पितामहो महाभाग दुर्बुद्धिस्ते महासुरः । गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥१७॥ तं द्वेष्टि गणराजं च पिता ते पितृवत्सल । पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥१८॥ नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः । तस्मादाग्रहमत्यंतं मा कुरुष्व महामते ॥१९॥ असुराणां कुले पश्य जनिस्तव हितावहा । स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥२०॥ तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः । जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुक्तम् ॥२१॥ सुबोध उवाच । सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः । स्वस्वधर्मनियंताऽसौ नानाक्रीडापरायणः ॥२२॥ स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः । स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥२३॥ पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् । चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥२४॥ पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः । तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥२५॥ अतः किं गणराजेन विपरीतं कृतं द्विजाः । स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥२६॥ सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः । तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥२७॥ गणेशं भजमानं मां वधिष्यति यदा खलः । तदेव मरणं श्रेष्ठं ब्रह्म- भूयप्रदं भवेत् ॥२८॥ मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः । तिष्ठंति ब्राह्मणाः सर्वे मां वदेत हि सांप्रतम् ॥२९॥ बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते । सिद्धेः पतेर्न संदेहः किं करिष्यति मां पिता ॥३०॥ स्वधर्मः सर्वभूतानां धर्म- कामार्थमुक्तये । ब्रह्मभूयार्थमत्यंतं गणेशभजनात्मकः ॥३१॥ तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलंपटः । भविष्याम्य- सुराधीनो ब्राह्मणाः कुलपांसवः ॥३२॥ न ब्राह्मणा भवंतोऽपि विषयेषु परायणाः । त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना