मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 381, कुल 1023 में से
संदर्भ में पढ़ेंमायामोहविहीनाय शंभवे ते नमो नमः ॥१९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥२०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥२१॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥२२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥२३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥२४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥२५॥ तथेति शिव ऊचे तमंतर्धानं चकार ह । स दैत्यो हर्षितोऽत्यंतं स्वगृहं प्रत्यपद्यत ॥२६॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । शृणोति शंकरस्तस्मै वाञ्छितं ददते परम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥१॥ नमुचिः शंबरः कालासुरश्चैव प्रतापवान् । जंभो बलासुरः पंच प्रधानास्तस्य चाऽभवन् ॥२॥ नानादैत्य- गणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥३॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः । इंद्रः सुरगणैः सार्धं पपाल भयसंकुलः ॥४॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥५॥ विष्णुर्वैकुंठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः संबभूव ह ॥६॥ जगाम तत आनंदात् कैलासं दैत्यनायकः । शंकरं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥७॥ नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः । शंकरः क्षुभितो भूत्वा कंपितः प्रददौ तथा ॥८॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो दैत्यो ननंद भृशमोहितः ॥९॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्मं दैत्यपैः संवृतो बभौ ॥१०॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥११॥ पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥१२॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र