मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 382, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ४५ [space] पान ९८ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कृतो नाशः कर्मणां भूममंडले ॥१३॥ न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता अभवंस्ततः ॥१४॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥१५॥ गते बहुतेरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥१६॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥१७॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥१८॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुंढिमभजन् भक्तिसंयुताः ॥१९॥ दशाक्षरेण मंत्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥२०॥ गते वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥२१॥ शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥२२॥ एवमुक्त्वांतर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्संगे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥२३॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुंडाधरं परम् ॥२४॥ विस्मिता हर्षिताऽत्यंतं नारायणमुवाच ह । वृत्तांतं सा महाभागा दर्शयामास विघ्नपम् ॥२५॥ सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्च माधवः ॥२६॥ धन्योऽहं सर्वभावेन त्वदंघ्रियुगदर्शनात् । पुत्रभावेन मां पालयसि नाथ न संशयः ॥२७॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रै- र्युधिष्ठिर ॥२८॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥२९॥ द्वंद्वभावविहीनो- ऽयं साक्षादानंददायकः । समो द्वंद्रेषु सर्वेषु तद्विकारविवर्जितः ॥३०॥ अतो नामाऽस्य देवेशाः पूर्णानंद इति स्फुटम् । कुरुध्वं सर्वदाऽऽनंददायको नो भविष्यति ॥३१॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबंधं च पंचमे विष्णुरव्ययः ॥३२॥ कश्यपस्य गृहे देव्यौ संभूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥३३॥ तस्मै ददौ मुदा युक्तः कश्यपः संप्रहर्षितः । ननाम पूर्णानंदाय विप्रेशो भक्तिसंयुक्तः ॥३४॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः । बालक्रीडनकेनैव मोहयामास देवपान् ॥३५॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥३६॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानंदावतारो नाम पंचचत्वारिंशोऽध्यायः ॥ ❖❖❖ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖