मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 383, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ४६ पान ९९ ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानंदः कथं दैत्यं जघान कौतुकं महत् ॥१॥ चराचराङ्गयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥२॥ मुद्गल उवाच । युधिष्ठिर- वचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥३॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसंमतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥४॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥५॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिंतयामास सर्वदा ॥६॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥७॥ एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥८॥ ततः पंच तथा सप्त मासास्तस्य गता विभो । वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥९॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥१०॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥११॥ एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडंतं बालभावतः ॥१२॥ गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥१३॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम निहंतारं भजतेऽयं तवात्मजः ॥१४॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥१५॥ पितृहंतारमेवायं करोति तनयो यतः । पुनर्हष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥१६॥ सा तथेति तमुच्चार्य स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥१७॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे । लालयामास तं तत्र न पश्यति यथा नृपः ॥१८॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥१९॥ नमो हेरंब विघ्नेश गणेशाय महोदर । लंबोदराय विकटाय नमो ढुंढये नमः ॥२०॥ इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्मं तथा पूजापरायणः ॥२१॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥२२॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥२३॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥२४॥ पंचमे व्रतबंधं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥२५॥ कर्मभंगभयात्