भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 377, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 377

पंच देवा महाभागे तेन संस्थापिताः पदे ॥१९॥ गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः । गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥२०॥ ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः । सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥२१॥ प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् । जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥२२॥ अतस्तं भावसंयुक्ता भजामो नित्यमादरात् । स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥२३॥ विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा । जगाद तं महाविष्णुं विनयेन समन्विता ॥२४॥ श्रीलक्ष्मीरुवाच । कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः । स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥२५॥ श्रीविष्णुरुवाच । सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् । वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥२६॥ स्वानंदे सोऽपि वसति गणेशो ब्रह्मनायकः । स्वानंदः पंचधा जातः शृणु तस्य कथानकम् ॥२७॥ नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् । तत्र स्वानंदको योगोऽसद्रूपः परिकथ्यते ॥२८॥ असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् । सत्स्वरूपं च तद्विद्धि सत् स्वानंदः प्रकीर्तितः ॥२९॥ सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा । आनंदात्मकरूपं तत् समस्वानंद उच्यते ॥३०॥ त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् । नेतिरूपं महाभागे स्वानंदोऽव्यक्त उच्यते ॥३१॥ चतुर्णां योगभावोऽयं समाधिर्जायते किल । स्वानंदः पंचमो ह्यत्र सर्वसंयोग उच्यते ॥३२॥ स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः । चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥३३॥ मायाहीनतया ढुंढिरभूत् सोऽयोगवाचकः । न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥३४॥ मायायुक्तविहीनत्वं तदेव भ्रांतिदायकम् । ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥३५॥ तत्र शांतिर्भवेद्देवि योगिनां नात्र संशयः । अतो योगस्वरूपा सा कथ्यते शांतिरुत्तमा ॥३६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥३७॥ तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते । अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥३८॥ भ्रमरूपां महामायां सिद्धिं जानीहि मानदे । सिद्ध्यर्थं सर्वलोकाश्च विभ्रमंतीश्वरा अतः ॥३९॥ भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् । सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥४०॥ तयोः स्वामी सदायोगशांतिरूपोऽयमुच्यते । तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥४१॥ इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः । श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥