मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 378, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ४३ पान ९४ ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । शृणु धर्म महाभाग कथां पापापनोदिनीम् । लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥१॥ श्रीमहालक्ष्मीरुवाच । भगवन् भवता प्रोक्तं महाशांतिप्रदं परम् । तथाऽपि मे सुशांत्यर्थं तत्रोपायं वदस्व मे ॥२॥ श्रीनारायण उवाच । षडक्षरेण मंत्रेण यदि तं साधयिष्यसि । तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥३॥ तस्य दर्शनमात्रेण शांतिं प्राप्स्यसि निश्चितम् । तमाराधय यत्नेन तपसा योगभाविता ॥४॥ एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् । षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥५॥ ततः सा तं प्रणम्यैव तपसे वनमाययौ । हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥६॥ षडक्षरविधानेन ध्यात्वा देवं गजाननम् । जजाप मंत्रराजं तं नासाग्रनयना सती ॥७॥ चित्तस्य चेंद्रियाणां संस्थाप्य वृत्तिं गजानने । निराहारयुता देवी बभूव तपसि स्थिता ॥८॥ शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता । तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥९॥ तमागतं महादेवी प्रणनाम चतुर्भुजम् । महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥१०॥ मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् । सिद्धिवुद्धिसमायुक्तं नानाभूषणभूषितम् ॥११॥ गले चिंतामणिमणिं बिभ्रतं ज्योतिषां पतिम् । शेषनाभिं गजास्यं वै पोतवस्त्रैश्च शोभितम् ॥१२॥ ततस्तं पूजयामास प्रभुं नानोपचारकैः । प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥१३॥ श्रीमहालक्ष्मीरुवाच । नमो महोदरायैव नानालीलाधराय ते । सदा स्वानंदसंस्थाय भक्तिगम्याय वै नमः ॥१४॥ चतुर्बाहुधरायैव चतुर्णां चालकाय ते । मूषकारूढरूपाय मूषकध्वजिने नमः ॥१५॥ अनंता- ननदेहाय ह्यनंतविभवाय ते । अनंतहस्तपादाय सदाऽनंताय ते नमः ॥१६॥ चराचरमयायैव चराचरविवर्जित । योगशांति- प्रदात्रे ते सदा योगस्वरूपिणे ॥१७॥ अनादये गणेशायादिमध्यांतस्वरूपिणे । आदिमध्यांतहीनाय विघ्नेशाय नमो नमः ॥१८॥ सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः । सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥१९॥ विनायकाय सर्वेषां नायकाय विशेषतः। ढुंढिराजाय हेरंब भक्तेशाय नमो नमः॥२०॥ सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः । त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥२१॥ कर्मणां फलदात्रे च कर्मणां चालकाय ते । कर्माकर्मादिहीनाय लंबोदर नमोऽस्तु ते ॥२२॥ योगेशाय च योगिभ्यो योगदाय गजानन । सदा शांतिघनायैव ब्रह्मभूताय ते नमः ॥२३॥ किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥२४॥ धन्याऽहं कृतकृत्याऽहं सफलो मे भवो- ऽभवत् । धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥२५॥ एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा । साश्रुयुक्ता ननर्तैव