मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 393, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ५० पान १०९ स संगृह्याऽऽस्फालयद्यदा । तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥१७॥ अदृश्यरूपभावेन हतो विघ्नविनाशिना । पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥१८॥ गणेशभजने सक्तं वीक्ष्य विस्मितमानसः । विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥१९॥ अहो मां को जघानैवं न पश्यामि महारिपुम् । केन मार्गेण मे पुत्रं हनिष्यामि कुलांतकम् ॥२०॥ पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा । तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥२१॥ अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा । अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥२२॥ ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः । पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥२३॥ मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति । पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥२४॥ एवं निश्चितसंकल्पो जगाद क्रोधसंयुतः । पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥२५॥ सुबोध कुत्र ते रक्षिता विशेषेण वर्तते । तमानय महादुष्टं हनिष्याम्यधुना शठ ॥२६॥ ततस्तं मोहितं प्राह सुबोधः करुणायुतः । तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥२७॥ वैरभावं परित्यज्य तथाऽहंकारमद्य वै । शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥२८॥ सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् । तं हंतुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥२९॥ ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप । दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥३०॥ एवं कपटभावेन सुबोधं स जगाद ह । सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥३१॥ ततस्तं मूषकारूढो विष्णुपूत्रः समाययौ । तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥३२॥ आकाशे गूप्तरूपेण मुनयो देवतागणाः । संस्थिता अभवंस्तत्र पश्यंतश्चेष्टितं प्रभोः ॥३३॥ सुबोधस्य समीपे तं संस्थितं गणनायकम् । पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥३४॥ सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः । उवाच पितरं योगी पश्य तात गजाननम् ॥३५॥ सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः । अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥३६॥ एतस्मिन्नंतरे तत्र पूर्णानंदो हृदि स्थितः । जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥३७॥ ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा । हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥३८॥ ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः । प्रणम्य तुष्टुवुस्तं वै पूर्णानंदं गणेश्वरम् ॥३९॥ स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः । अंतर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥४०॥ लक्ष्मीनारायणश्चैव मूर्च्छितौ धरणीतले । पेततुर्दुःखसंयुक्तौ पूर्णानंदवियोगतः ॥४१॥ द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः । प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥४२॥ न वियोगो भवेत्तत्तौ