भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 400, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 400

पान २

ज्ञास्यसि त्वं प्रजापते ॥२५॥ पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः । स्थितानां तत्र जंतूनां कालार्थं स दधे मनः ॥२६॥ नानाकार्यप्रसिद्धयर्थं संचिंत्य गणपं हृदि । अभवद्ध्यानमास्थाय संस्थितश्चितयान्वितः ॥२७॥ ततस्तस्य शरीराद्धे निःसृता प्रकृतिः परा । महामाया तिथीनां सा जननी कामरूपिणी ॥२८॥ चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् । चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥२९॥ ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् । नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥३०॥ प्रकृतिरुवाच । तवांगानिःसृतां मां त्वं विद्धि ब्रह्मांडनायक । आज्ञां कुरु पितर्मा च कुर्वेऽहं भावयंत्रिता ॥३१॥ स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो । मह्यं देव दयासिंधो नमस्ते परमेश्वर ॥३२॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः । सृष्टिं गणेशं संचिंत्य विचित्रां कुरु मानदे ॥३३॥ स तस्यै गणनाथस्य ददौ मंत्रं षडक्षरम् । सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥३४॥ तताप तप उग्रं सा नासाग्रनयना सती । गणेशं हृदि संध्याय जजाप मंत्रमुत्तमम् ॥३५॥ प्रजापते गते वर्षसहस्रे तु गजाननः । आययौ तां महाभागामगदद्भक्तवत्सलः ॥३६॥ गणेश उवाच । वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् । निराहारेण संतुष्टो ददामि तपसा च ते ॥३७॥ तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् । गजाननं प्रसंपूज्य तुष्टाव च कृतांजलिः ॥३८॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥३९॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानंदपतये तुभ्यं गणानां पतये नमः ॥४०॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शांतिप्रदात्रे योगिने नमः ॥४१॥ सर्वाद्ये सदा सर्वपूज्याय भक्तपालक । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥४२॥ ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः । सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥४३॥ चतुर्भुजाय हेरंब परशोधरकाय ते । अंकुशंधारिणे तुभ्यं निरंकुश नमो नमः ॥४४॥ रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते । तामसाय महाहंत्रे गुणेशाय नमो नमः ॥४५॥ स्थावराय चरायैव चराचरमयाय ते । चराचरविहीनाय बोधाय च नमो नमः ॥४६॥ चतुर्विधस्वरूपाय चतुर्विधसुखप्रद । चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥४७॥ विनायकाय सर्वेषां नायकाय नमो नमः । गजाननाय देवाय देवदेवेश ते नमः ॥४८॥ किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् । यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥४९॥ तवदर्शनबोधेन तथापि संस्तुतो मया । तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥५०॥ इति स्तुत्वा गणेशानं दंडवत् प्रणनाम तम् । तामुतूथाप्य