मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 401, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २ पान ३ गणाधीश उवाच व्रतमातरम् ॥५१॥ गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥५२॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥५३॥ एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥५४॥ ब्रुवंतं गणनांथं सोवाच गंभीर- निःस्वना । देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥५५॥ देव्युवाच । वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् । भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥५६॥ सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते । सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥५७॥ ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः । चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥५८॥ तिथीनां मातृभावेन चतुर्थी संज्ञिता भव । वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥५९॥ मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः । सदा तव व्रते संस्थाम् पाल्यामि विशेषतः ॥६०॥ मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि । व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥६१॥ एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह । व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥६२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थी तपोवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे । ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥१॥ वामभागं कृष्णवर्णं दक्षिणांगं तथा बभौ । शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥२॥ पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे । ततस्तस्या मुखांभोजात् प्रतिपन्निःसृता तिथिः ॥३॥ नासिकायां द्वितीया वै वक्षसश्च तृतीयिका । अंगुलीभ्यस्तथा दक्ष पंचमी चाभवत्तिथिः ॥४॥ उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ । अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥५॥ नवमी तिथिरुत्पन्ना उदराच्च प्रजापते । दशमी कर्णदेशाद्वै कंठाच्चैकादशी मता ॥६॥ द्वादशी पादयो- स्तस्याः समुत्पन्ना तथा विभो । स्तनात् त्रयोदशी तस्या अहंकाराच्चतुर्दशी ॥७॥ मनसः पूर्णिमा जाता अमावास्या तथा- ऽभवत् । जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥८॥ कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः । तिथयो दशपंचाख्या ज्ञातव्या विबुधैः किल ॥९॥ शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः । तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥१०॥ दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः । स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥११॥