मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 403, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २ | पत्र ५ संकष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥३७॥ न संकष्टं कदाचिद्वै व्रतकारि नरस्य च । भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्त- सेविनः ॥३८॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् । संकष्टहरणी नाम भवेत्तव चतुर्थिके ॥३९॥ न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः । निष्फलं सकलं तस्य भजनं वै भविष्यति ॥४०॥ त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते । व्रतादिकं निष्फलं तेषां सर्वं भविष्यति ॥४१॥ वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् । तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥४२॥ यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् । संकष्टहरणं देवि स्वानंदार्थं न संशयः ॥४३॥ अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् । रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥४४॥ श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् । निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥४५॥ मार्गशीर्षे जलाहारः पौषे गोमूत्र- भक्षणम् । माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥४६॥ पंचगव्यं मधौ मासे वैशाखे पद्मबीजकम् । ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥४७॥ यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् । अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥४८॥ याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् । प्रातःकृत्यं सुसंक्षेपात् कर्तव्यं तन्नरेण वै ॥४९॥ तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च । चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥५०॥ एवं कर्मादिकं कृत्वा मां संपूज्याल्प- मंत्रतः । प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥५१॥ चंद्रोदयस्य पर्यंतं शमीमूले जपं जपेत् । मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥५२॥ सायाह्नकालजं कर्म तन्न कुर्यान्नरोत्तमः । विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥५३॥ आदौ तेऽर्घ्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् । ततः सप्तार्घ्यदानं व्रती चंद्राय समाचरेत् ॥५४॥ ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् । मोदकापूपलड्डूकपायसादिभिरादरात् ॥५५॥ रात्रौ जागरणं कुर्यान् मदीयकथान्वितः । पंचम्यामुपचारैः संपूजयन् मां प्रयत्नतः ॥५६॥ एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् । भविष्यत्यमरैर्मान्योंऽते ब्रह्मणि लयं व्रजेत् ॥५७॥ यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः । तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥५८॥ शुक्लां कृष्णां चतुर्थीं ये करिष्यंत्यमरादयः । सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥५९॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥