भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 404, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 404

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति। उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥१॥ श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम्। पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥२॥ प्रतिपदाद्या ऊचुः। यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन। किं कर्त्तव्यं दयासिंधो अस्माभिर्वद सांप्रतम् ॥३॥ स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम्। भक्तिं त्वदीयपादाम्बुजे सर्व मान्यं त्वया प्रभो ॥४॥ तासां वचनमाकर्ण्य जगाद गणनायकः। ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥५॥ गणेश उवाच। मदीया भक्तिरत्यंतं भविष्यति न संशयः। भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥६॥ मत्कलांशसमुद्भूता देवास्तान् प्रीणयंतु वै। भवतीभिर्युता देवा नराणां प्रीतिदास्तु च ॥७॥ सदा वह्निं प्रतिपदि पूजयिष्यंति ये नराः। हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥८॥ उपोषणं करिष्यंति तैश्च देवाः सहेश्वराः। तोषितास्ते सदा तेभ्यो दास्यंति मनसीप्सितम् ॥९॥ ते मृताः संगमिष्यंत्यग्निलोके भोगकारकाः। अग्नितुल्य- प्रकाशेन विमानेन विहायसा ॥१०॥ चरिष्यंति न संदेहः प्रतिपद्व्रतकारकाः। ब्रह्मार्पणस्वभावेन गमिष्यंति मदात्मनि ॥११॥ द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ। पत्त्राहारसमायुक्तो रूपवान् जायते किल ॥१२॥ इह भुक्त्वाऽखिलान् भोगानंते तल्लोकमाप्नुयात्। द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥१३॥ ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत्। स स्वानंदे मदीये वै लीनश्चैव भविष्यति ॥१४॥ तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः। सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहार- वर्जितः ॥१५॥ स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति। ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥१६॥ पंचम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः। पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥१७॥ स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति। निष्कामेन मदीये वै लोकेंऽते आगमिष्यति ॥१८॥ षष्ठ्यां स्कंदं फलाहारः पूजयेद्भक्तिसंयुतः। स्कंदलोके चरेत् सोऽपि महाभोगपरायणः ॥१९॥ निष्कामभावयुक्तश्चेत् स्वानंदेंऽते गमिष्यति। शुक्लगत्याः क्रमेणैव सर्वभावनियंत्रितः ॥२०॥ सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः। स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥२१॥ निष्काम- व्रतकारी चेन् महालयसमुत्थिते। स्वानंदे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥२२॥ अष्टम्यां मातृकानां यः पूजको भावसंयुतः। बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥२३॥ मदर्पणस्वभावेन सदा व्रतपरायणः। अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥२४॥ नवम्यामेव दुर्गायाः पूजनं यः समाचरेत्। पिष्टाशी भोगसंयुक्तोऽन्ते तल्लोकमवाप्नुयात्