मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 405, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ३ पान ७ ॥२५॥ ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति । शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥२६॥ दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः । दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥२७॥ इह भुक्त्वाऽखिलान् भोगानंते तल्लोकमाप्नुयात् । निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥२८॥ एकादश्यां नरो भक्षेद्बहिपक्वविवर्जितम् । धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥२९॥ स वै तस्य वसेल्लोके नानाभोगकरः सदा। ब्रह्मार्पणतया तद्व्रतं कृत्वा सुखी भवेत् ॥३०॥ विष्णुं संपूजयेद्यो वै द्वादश्यां घृतभोजनः । स विकुंठे वसेन्नित्यं नानाभोगपरायणः ॥३१॥ ब्रह्मार्पण- विधानेन व्रतं कुर्याद्यदा नरः । महालये मदीये स लोके ब्रह्ममयो भवेत् ॥३२॥ धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः । स धर्मलोकगो भूत्वा भुंजीत विविधं सुखम् ॥३३॥ ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी। स स्वानंदे समागम्य ब्रह्मभूतो भविष्यति ॥३४॥ चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः । उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥३५॥ करिष्यति च कैलासे वासस्तस्य भविष्यति । निष्कामश्चेत्तदंते स मल्लोके मन्मयो भवेत् ॥३६॥ पूर्णिमायां देवगणान् देवांश्चंद्रमसं तथा । पूजयेद्भक्तिभावेन चंद्रलोकं स आप्नुयात् ॥३७॥ इह भुक्त्वाऽखिलान् भोगानंते देवान् गमिष्यति । निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥३८॥ उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति । चंद्राय निशिभुग् वाऽपि सर्व- देवपरायणः ॥३९॥ सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता । चांद्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥४०॥ अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः । उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥४१॥ अंते पितृमये लोके वसतिस्तस्य संभवेत् । आगमिष्यति निष्कामश्चेत् स्वानंदे स तल्लये ॥४२॥ कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा । एवं भाव- युतेनैव स सर्वार्थमवाप्नुयात् ॥४३॥ मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः । मत्कलांशायुतैर्देवैः संयुक्ताः प्रभवैत वै ॥४४॥ चतुर्थीं ये न कुर्वंति तेषां सर्वं निरर्थकम् । भवदीयव्रते संस्थं भविष्यति न संशयः ॥४५॥ अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः । तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥४६॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । तथा जातं प्रजा- नाथ तिथियुक्तव्रतं सदा ॥४७॥ चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः। शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥