भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 411, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 411

प्रणम्य गणनायकम् । गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥५३॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥५४॥ ये त्वां विलोकयंते वै चन्द्र ते पापिनः सदा । भवंतु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥५५॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥५६॥ अहंकारविहीनास्ते जाताः शंम्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥५७॥ वेदज्ञाऽहंकृतिः पूर्णा ब्रह्मणो हृदि संस्थिता । तया मदयुतो ब्रह्मा भवत्येषं पुनः पुनः ॥५८॥ सरस्वती सा दत्ता वै गणेशाय महात्मने । तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥५९॥ हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् । सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥६०॥ सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता । तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥६१॥ तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् । तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥६२॥ सोऽपि तं भजते नित्यं गाणपत्यविचारवित् । हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥६३॥ योगेन मोहहीनत्वं सदा शंभोर्हृदि प्रभो । तेनाहंकारभावेन मन्यते किं न शंकरः ॥६४॥ तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः । गणेशस्तु तया युक्तो रेमे शंभोर्हृदि स्थितः ॥६५॥ गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते । सदा गाणेशको भूत्वा भजते गणनायकम् ॥६६॥ वृष्ट्या दानप्रदाने वै करोति स दिवाकरः । सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥६७॥ तदेव हृदये तस्य वर्ततेऽहंस्रभावतः । तां संजीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥६८॥ तया युक्तो गणाधीशः सदा हृदि स खेलति । भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥६९॥ शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् । ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥७०॥ तया युक्तो गणेशानस्तस्या हृदि विशेषतः । तेन खेलति सा देवी भजते गणनायकम् ॥७१॥ इत्यहंकारनिर्मुक्ता देवेंद्रास्ते बभूविरे । गाणपत्यप्रिया जाता भजंते विघ्ननायकम् ॥७२॥ चित्ते चिंतामणिः स्थित्वा प्रकृत्या खेलति प्रभुः । मिथ्याहंकारभावेन बंधनं प्रतिपद्यते ॥७३॥ कर्ता कारयिता देवो गणेशो नात्र संशयः । हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥७४॥ मुद्गल उवाच । श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् । चंद्रस्य का गतिर्जाता तां मे वद महामुने ॥७५॥ वसिष्ठ उवाच । गणेशशापसंयुक्तश्चंद्रः स स्वगृहे गतः । एकांते दुःखसंयुक्तो विचारमकरोद्धृदि ॥७६॥ संप्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः । असंप्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥७७॥ तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् । देहधारी स्वयं