मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 412, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ६ पान १४ साक्षाद्भूवात्र न संशयः ॥७८॥ वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥७९॥ अपराधं दयासिंधो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥८०॥ गंगातीरे समागम्य तताप तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥८१॥ चंद्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥८२॥ ततो देवगणैः सर्वैर्भयभीतैः समंततः । शंभुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥८३॥ षडक्षरविधानेन ध्यात्वा हृदि गजाननम् । भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥८४॥ वर्षाणां शतके तत्र गते चंद्रं गणाधिपः । आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥८५॥ वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः । समकाले च देवेशांश्चंद्रस्तं तुष्टुवुर्विभुम् ॥८६॥ अथर्वशिरसा ढुंढिं तोषयामासुरादरात् । संतुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥८७॥ श्रीगणेश उवाच । वरं वृणुत देवेशाः संतुष्टोऽहं ददामि तम् । यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥८८॥ गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते । कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥८९॥ देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा चंद्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥९०॥ स तानुवाच सर्वात्मा भक्त्या संतोषितः प्रभुः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥९१॥ हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः । दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥९२॥ ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते । ययुश्चंद्रं तु संद्रष्टुं गणेशोऽन्तर्हिते नृप ॥९३॥ चंद्रो गणपतिं दृष्ट्वा ननाम दंडवत् क्षितौ । पूजयामास तं देवं तुष्टाव स कृतांजलिः ॥९४॥ चंद्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपूत्राय ते नमः ॥९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥९८॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरंबाय महेशानां महेशाय नमो नमः ॥९९॥ सृष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥१००॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥१॥ मां दृष्ट्वा हर्षसंपन्ना अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥२॥ अतो मां नैव पश्यंति पापिनां पापरूपिणम् । निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥३॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं