भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 413, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 413

खं. ४ अ. ६ पान १५ योगिसंमतः ॥४॥ ततोऽतिभक्तिसंयुक्तं नृत्यंतं देवसंनिधौ । रोमांचाश्रुसमायुक्तं दृष्ट्वा ढुंढिर्जगाद तम् ॥५॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननंतांश्च सहे तेऽनेन निश्चितम् ॥६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः । पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥७॥ यथापूर्वं स्थितश्चंद्र तादृशो भव नित्यदा । यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥८॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥९॥ मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति । तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥१०॥ द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् । अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥११॥ द्वितीयायां प्रयत्नेन त्वां नमस्यंति मानवाः । मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥१२॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशश्चंद्रपूजितः । तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥१३॥ मानयामास संपूज्य चन्द्रस्तांस्तैः समन्वितः । गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥१४॥ गणेशभालसंस्थानं प्राप्तं चन्द्रेण यन्न वै । भालचन्द्रं गणेशानं वदंति तत्र संस्थितम् ॥१५॥ देवैः संपूजितस्तत्र ब्राह्मणैर्गणनायकः । प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥१६॥ चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप । पूर्वरूपेण विघ्नेशं सेवते नित्यमादरात् ॥१७॥ गंगातीरे निवासं स चकारात्रिसमुद्भवः । विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥१८॥ अथ कस्मिंश्च समये देवैः संप्राथितो हरिः । यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥१९॥ अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप । भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥२०॥ अंतर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः । तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥२१॥ सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै । तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥२२॥ सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमंतकः । सत्राजिते स तद्रत्नं गले भक्त्या बबंध ह ॥२३॥ नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः । सूर्यतेजःसमानश्चाऽशोभयद्यदुनंदनम् ॥२४॥ द्वारकायां स्थितं तं स सूर्यभक्ति- परायणम् । शुचिभावेन रत्नं सोऽपूजयत्तान्रंतरम् ॥२५॥ ततो बहुगते काले कृष्णो दोषयुतोऽभवत् । तस्य बुद्धिः समुत्पन्ना मणेः संग्रहणे नृप ॥२६॥ सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् । आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥२७॥ श्रीकृष्ण उवाच । उग्रसेनश्च सर्वेषां यादवानां महामते । राजाऽस्माभिः कृतस्तं ते यादवाः पूजयंति भोः ॥२८॥ अस्माभिर्दिग्विजये प्राप्तमुग्रसेनाय यादव । दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमंतकम् ॥२९॥ सुवर्णं मणिसंभूतं गृहाण

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 413, कुल 1023 में से · BharatKosha