मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 414, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ६ | पान १६
त्वं तु नित्यदा। शोभार्थं कंठगं तात मणिं कुरु नृपस्य तम् ॥१३०॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना। प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥१३१॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तांतं कथयामास विस्तरात् ॥१३२॥ ततः कदाचित् कृष्णेन सहिता यदुनंदनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥१३३॥ तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबंध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥१३४॥ अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम्। साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥१३५॥ ततस्तं जांबवान् हत्वा गृह्य सिंहं मणिं ययौ । स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥१३६॥ तव भर्त्ता सुते यो वै भविष्यति मणिं परम्। तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥१३७॥ सायाह्ने यादवाः सर्वे आगताः स्वस्वमंदिरे । प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥१३८॥ अहो कृष्णेन मे भ्राता संहतो नात्र संशयः। मणिलोभवशेनाऽपि पापिना पापचेतसा ॥१३९॥ ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते । उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥१४०॥ ततः कृष्णश्च दुःखार्तः स ध्यानेना- वलोकयन् । नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥१४१॥ ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः । चकारांतरजं ज्ञानं क्व गतं मम सांप्रतम् ॥१४२॥ नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै । देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥१४३॥ ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् । वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥१४४॥ पादमार्गं प्रसेनस्य ते संगृह्य महावने । गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥१४५॥ सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः । पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥१४६॥ ततो महावने सिंहमृक्षेण प्रहतं पुनः । ददृशुर्न मणिं तत्र लेभिरे भयसंकुलाः ॥१४७॥ ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः । महावने बिले घोरे गतमृक्षमलोकयन् ॥१४८॥ ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरंजयः । बिले संप्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥१४९॥ बिले योजनमात्रं स गत्वा तत्र ददर्श ह । प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥१५०॥ दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च । तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥१५१॥ ततोऽकस्माज्जांबवतो बहिः पुत्री समाययौ । अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसंकुला ॥१५२॥ ततो जांबवता राजन् श्रुतं पुत्र्याः प्ररोदनम् । आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥१५३॥ गतास्तयोरेकविंशतिघस्त्रास्तु प्रयुध्यतोः । यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥१५४॥ द्वारकायां स्ववृत्तांतं कथयंति स्म विह्वलाः । दिवसाः सप्त तत्रैव