भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 418, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 418

पान २७ सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥३१॥ अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥३३॥ स्यमंतकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥३४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रशुक्लचतुर्थी चंद्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योर्भुवयोः सारं माहात्म्येन समन्वितम् ॥१॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥२॥ कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥३॥ मुद्गल उवाच। एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥४॥ वसिष्ठ उवाच । आदौ शंम्भादिभिश्चैतत् कृतं व्रतमनु- त्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥५॥ ततः स्वायंभुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजंतुभिः ॥६॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं संक्षेपेण शृणुष्व तत् ॥७॥ पुरा दौष्यंतिको नाम भरतः संभवूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥८॥ जित्वा भूमंडलं सर्वं सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥९॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव सर्वलोकास्ते भयभीता बभूविरे ॥१०॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शांतं ययौ शरण- मादरात् ॥११॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥१२॥ तमुवाच महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसंनिष्ठो भरतं राजसत्तमम् ॥१३॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥१४॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते विवेशासावासने स कृतांजलिः ॥१५॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥१६॥ भरत उवाच । त्वत्प्रसादेन योगींद्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥१७॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 418, कुल 1023 में से · BharatKosha