मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 419, कुल 1023 में से
संदर्भ में पढ़ेंखं ४ अ. ७ पान २१ नित्यं स्वधर्मयुक्तेन मया संपालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥१८॥ वर्णाश्रमाचारयुता जनाः सर्वे भवंति च । तथापि पापजं दुःखं संप्राप्तं तन्न वेद्यहम् ॥१९॥ अनावृष्टिश्च संभूता प्रभो सर्वत्र दुःखदा । चराचरं भयोद्विग्नं बभूव रसहीनतः ॥२०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥२१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥२२॥ ततस्तं नृपशार्दूल- मुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तांतं दयायुक्तः स्वभावतः ॥२३॥ कण्व उवाच । शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥२४॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥२५॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥२६॥ चतुर्थीसंभवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥२७॥ चतुर्विधं जगत्सर्वं स्थूल- सूक्ष्मादिभेदतः । संकटं यत्तदेव त्वं जानीहि नृपनायक ॥२८॥ चतुर्विधं च संकटं हरति व्रतकारिणः । सा संकटचतुर्थी वै कृष्णा ते कथिता मया ॥२९॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । संचितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥३०॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्धरतायैव स्वशिष्याय विशेषतः ॥३१॥ व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥३२॥ भरत उवाच । स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥३३॥ कण्व उवाच । शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥३४॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥३५॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥३६॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । ऋतुर्योगींद्रवंद्यो यो गाणपत्यो महायशाः ॥३७॥ तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् । कृतांजलिं मामुवाच स तथा भक्तवत्सलः ॥३८॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥३९॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने समुपावेश्यावदत्तं विनयान्वितः ॥४०॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि सांप्रतम् । तथापि शांतिदं योगं वद पूर्णं दयानिधे ॥४१॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं