मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 431, कुल 1023 में से
संदर्भ में पढ़ेंसं. ४ अ. ११ | पान ३३ सुदंतस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी । बभूव कर्मदोषेण वंध्या सा वै पतिव्रता ॥७॥ अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् । तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥८॥ नाऽभवत्तस्य तदपि पुत्रः परमंसौख्यदः । विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥९॥ बभ्राम भ्रांतचित्तोऽसौ यत्र तत्र महामतिः । मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥१०॥ तत्राऽऽजगाम योगींद्रो वामदेवः प्रतापवान् । यदृच्छाविचरंस्तेन दृष्टः संनमितोऽभवत् ॥११॥ पूजयित्वा महात्मानं वामदेवं कृतांजलिः । जगाद खेदसंयुक्तः सुदंतो योगिसत्तमम् ॥१२॥ सुदंत उवाच । वामदेव च मे धन्यं दुःखितस्य तपो वयः । ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥१३॥ वंध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति । मृतस्य स्वर्ग- हीनस्य वद योगींद्रसत्तम ॥१४॥ वामदेव उवाच । शृणु द्विज महाभाग त्वं सदा धर्मसंयुक्तः । तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥१५॥ अवंतीपुरपालस्य आदरात्त्वं पुरोहितः । राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥१६॥ चतुर्थीव्रतलोपश्च बभूवे भूममंडले । चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥१७॥ धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया । निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥१८॥ एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः । विस्मितस्तं सुदंतोऽसौ जगाद विनयान्वितः ॥१९॥ सुदंत उवाच । कीदृशं तद्व्रतं तात वद मे हितकारकम् । चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥२०॥ तेन हीनो नरो यस्तु स कथं फलहीनकः । कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥२१॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तज्जगाद सविस्तरम् । माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥२२॥ पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा । गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥२३॥ सुदंत उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥२४॥ एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् । गणेश- बोधदाने स कुशलः सर्वपारगः ॥२५॥ वामदेव उवाच । सुदंत शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् । गाणपतयो येन भक्तिभावितो भविताऽसि भोः ॥२६॥ अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुक्तः । तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥२७॥ ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम । शमे दमे परेणांतर्निष्ठेन मनसो जयात् ॥२८॥ योगभूमिक्रमेणाऽहं कालेन महता द्विज । सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥२९॥ सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् । दृष्ट्वा शांत्यर्थ- मत्यंतं तत् त्यक्तं च मया ततः ॥३०॥ संधृतं मनसि ब्रह्म मनोवाणीविवर्जितम् । कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते