भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 432, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 432

खं. ४ अ. ११ पान ३४ ॥३१॥ अधुना किं मया कार्यं विचार्य शरणं गतः । शंकरं योगिवंद्यं तं शैवोऽहं प्रणतोऽभवम् ॥३२॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शंभुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥३३॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥३४॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृतांजलिः । अवदं तं महादेवं भक्तवाञ्छा- सुरद्रुमम् ॥३५॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥३६॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥३७॥ अतः शांत्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशांतिप्रदं पूर्णं वद मां करुणानिधे ॥३८॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शंकरोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥३९॥ श्रीशिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥४०॥ स्वानंदाद्यात् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥४१॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । अयोगे नैव संयोगः केषांचिद्ब्रह्मणां भवेत् ॥४२॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥४३॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शांत्याऽसौ लभ्यते विप्र शांतिभ्यः शांतिदायकः ॥४४॥ चित्तं पंचविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥४५॥ तयोर्बिंबं गणेशश्च बिंबिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥४६॥ एवमुक्त्वा महादेवस्तस्मै मंत्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥४७॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥४८॥ एकाक्षरविधानेन संतुष्टो गणनायकः । योगशांतिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥४९॥ ततोऽहं योगिवंद्यश्च जातः सर्वत्र संमतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥५०॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥५१॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं संतुष्टो योगिसत्तम ॥५२॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं संपूज्य स्तोतुं प्रचक्रमे ॥५३॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिवुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥५४॥ मूषकारूढ हेरंब भक्तवाञ्छाप्रपूरक । ढुंढिराजाय ते देव रक्ष मां ते नमो नमः ॥५५॥ आदिमध्यांतहीनाय लंबोदर नमोऽस्तु ते । आदिमध्यांतरूपाय शंकरप्रियसूनवे ॥५६॥ नानामायाधरायैव