भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ४ अ. ११ पान ३४ ॥३१॥ अधुना किं मया कार्यं विचार्य शरणं गतः । शंकरं योगिवंद्यं तं शैवोऽहं प्रणतोऽभवम् ॥३२॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शंभुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥३३॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥३४॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृतांजलिः । अवदं तं महादेवं भक्तवाञ्छा- सुरद्रुमम् ॥३५॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥३६॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥३७॥ अतः शांत्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशांतिप्रदं पूर्णं वद मां करुणानिधे ॥३८॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शंकरोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥३९॥ श्रीशिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥४०॥ स्वानंदाद्यात् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥४१॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । अयोगे नैव संयोगः केषांचिद्ब्रह्मणां भवेत् ॥४२॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥४३॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शांत्याऽसौ लभ्यते विप्र शांतिभ्यः शांतिदायकः ॥४४॥ चित्तं पंचविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥४५॥ तयोर्बिंबं गणेशश्च बिंबिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥४६॥ एवमुक्त्वा महादेवस्तस्मै मंत्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥४७॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥४८॥ एकाक्षरविधानेन संतुष्टो गणनायकः । योगशांतिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥४९॥ ततोऽहं योगिवंद्यश्च जातः सर्वत्र संमतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥५०॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥५१॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं संतुष्टो योगिसत्तम ॥५२॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं संपूज्य स्तोतुं प्रचक्रमे ॥५३॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिवुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥५४॥ मूषकारूढ हेरंब भक्तवाञ्छाप्रपूरक । ढुंढिराजाय ते देव रक्ष मां ते नमो नमः ॥५५॥ आदिमध्यांतहीनाय लंबोदर नमोऽस्तु ते । आदिमध्यांतरूपाय शंकरप्रियसूनवे ॥५६॥ नानामायाधरायैव

यहाँ प्रस्तुत पृष्ठ का मूल देवनागरी पाठ (लाइन-दर-लाइन) दिया गया है:


[शीर्षक/Header] खं. ४ अ. ११ | पान ३५


[मूल पाठ / Sanskrit Text]

मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥५७॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥५८॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेंद्रपाय ज्येष्ठाय वै नमः ॥५९॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥६०॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकार्याय विघ्नकर्त्रे नमो नमः ॥६१॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणं पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥६२॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥६३॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कंठरोधो बभूव ह ॥६४॥ उवाच वामदेवं स नृत्यंतं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥६५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥६६॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥६७॥ गणेशवचनं श्रुत्वा तं जगाद महामुनिः । वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥६८॥ भक्तिं देहि गणाधीश गाणपत्यां विशेषतः । नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥६९॥ तथेति तमुवाचैव गणेशोऽन्तर्दधे स्वयम् । वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥७०॥ तदादि शांतिमापन्नस्त्वहं विप्र महामते । अतस्त्वं गणराजं तं भज शांतिमवाप्स्यसि ॥७१॥ एकाक्षरं महामंत्रं सुदंताय ददौ ततः । सविधिं वामदेवः सोऽन्तर्धानमकरोन् मुनिः ॥७२॥ सुदंतो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् । राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥७३॥ बृहद्रथाय वृत्तांतं कथयामास भो नृप । तदाज्ञया नृपः सद्यो घोषयामास तद्भुतम् ॥७४॥ तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता । तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥७५॥ व्रताचरणमात्रेण गर्भयुक्ता बभूव ह । मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥७६॥ ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् । शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥७७॥ सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः । धनधान्यादिभिर्युक्ता अंते स्वानंदगा बभुः ॥७८॥ सुदंतो योगिवंद्यश्च बभूवे योगसेवया । राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥७९॥ पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् । राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥८०॥ वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः । तत्र चोरैः समायातैर्लुंठितं तैर्धनं महत् ॥८१॥ तेषां शस्त्राभिघातेन पपात धरणीतले । वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥८२॥ दैवयोगेन सा देवी चतुर्थी

शुक्लगा गता । पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥८३॥ रात्रौ जागरणं तस्य संजातं पीडया तदा । पंचम्यां स मृतः पापी धनलुब्धो महामते ॥८४॥ अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते । स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥८५॥ एवं जना व्रतेनैव मुक्ताः संसारसागरात् । इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥८६॥ इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् । पठेद्द्वै तस्य भो राजन् सर्वदं प्रहविष्यति ॥८७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते । न तृप्यामि महायोगिन्नमृताधिकं मतम् ॥१॥ माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् । वद येन जनाः सर्वे भवंति सुखभोगिनः ॥२॥ वसिष्ठ उवाच । माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः । कश्यपस्य गृहे साक्षादंगारकयुता नृप ॥३॥ मुद्गल उवाच । एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् । कथयामास भो दक्ष देवांतकवधाश्रितम् ॥४॥ श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नंदनः । पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात् ॥५॥ तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह । हर्षेण महता युक्तो गाणपत्येंद्र- सत्तमः ॥६॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥७॥ कर्णाटे भानुपुर्यां च राजा परमधार्मिकः । देवविप्रातिथिप्रेप्सुर्नरीत्या राज्यं चकार सः ॥८॥ शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् । जित्वा भूमंडलं सर्वं चक्रे सौराज्यमुत्तमम् ॥९॥ भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता । धर्मशीला रता दाने बभूवे रूपशालिनी ॥१०॥ तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् । अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥११॥ स तु शौनकनामानं मुनिं सर्वार्थकोविदम् । ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥१२॥ महावनं समासाद्य तं ननाम महामुनिम् । साष्टांगं च पुरस्तस्य कृतांजलिपुटोऽभवत् ॥१३॥ उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः । धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥१४॥ वदंतमेवं राजानमुवाच शौनको मुनिः । सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥१५॥ शौनक उवाच । पुरा राजन् महाभाग वद मां सकलं तव । चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥१६॥ एवं पृष्टो मुनींद्रेण सोमस्तं प्रत्युवाच ह । हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥१७॥ सोम उवाच । कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः ।

खं. ४ अ. १२ पान ३७ अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥१८॥ धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् । तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥१९॥ तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् । राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥२०॥ श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् । शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥२१॥ शौनक उवाच । शृणु राजन् महत् पापं तव राज्ये बभूव ह । तेन रोगयुता लोका वंध्यतादोषसंयुताः ॥२२॥ तत्रापि यन् महद् दुःखमनावृष्टि- समुद्भवम् । संप्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥२३॥ चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः । शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥२४॥ नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा । अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥२५॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥२६॥ पुनः पप्रच्छ भावेन शौनक मुनिसत्तमम् । वद ब्रह्मन् गणेशस्य स्वरूपं शांतिदं परम् ॥२७॥ शौनक उवाच । पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वआश्रमे । अंतर्निष्ठस्वभावेन ब्रह्मचिंतनतत्परः ॥२८॥ ततोऽकस्मात् महायोगी भृगुरस्माकमेव सः । बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥२९॥ तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् । आसने समुपवेश्याऽपूजयं च स्वभक्तितः ॥३०॥ कृतांजलिपुटं नम्रं पुरस्तस्य महात्मनः । संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥३१॥ भृगुरुवाच । तात किं योग- निष्ठस्त्वं शांतिं प्राप्तो वदस्व माम् । किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥३२॥ अस्मत्कुले महाभाग भवान् साधुगुणान्वितः । तेनाऽहं तृप्तिमायाततः पूरयिष्यामि वाञ्छितम् ॥३३॥ एवं ब्रुवंतमाद्यं तं मुनिमानम्य शौनकः । जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥३४॥ शौनक उवाच । योगशांतिप्रदं पूर्णं ब्रूहि योगं महामुने । तेनाऽहं तृप्तिमत्यंतं यास्यामि त्वदनुग्रहात् ॥३५॥ भृगुरुवाच । योगशांतिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन तेन शांतो भविष्यसि ॥३६॥ चित्तं पंचविधं तात तत्र चिंतामणिः स्थितः। तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥३७॥ चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते । मोहं चित्तं परित्यज्य भव चिंतामणिः स्वयम् ॥३८॥ मनोवाणीमयं चित्तं मनोवाणी- विवर्जितम् । चित्तं जानीहि पुत्र त्वं तत्यक्त्वा च सुखी भव ॥३९॥ एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ । शौनकाय महायोगी भृगुश्चांतर्हितोऽभवत् ॥४०॥ शौनक उवाच । भृगुणेवमहं राजन् उपदिष्टोऽभजं परम् । गणेशं योगभावेन चित्त- निग्रहणे रतः ॥४१॥ क्रमेण योगिवंद्योऽहं जातस्तस्य महात्मनः । कृपया गणराजस्य तथापि स्म भजामि तम् ॥४२॥

[Header] पान ३८

ततो मे वरदो जातो गणेशो भक्तवत्सलः । गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥४३॥ एवमुक्तवा स राजेंद्रं गणानां त्वा मनुं ददौ । शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥४४॥ शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः । आययौ स्वगृहे तत्र प्रधानैरभिनंदितः ॥४५॥ नागरैः सह सोमश्च माघे शुक्लचतुर्थिका । संप्राप्ता साऽदिकाले स चकार व्रत- मुत्तमम् ॥४६॥ ततस्तेन प्रविख्यातं कृतं भूमितले नृप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४७॥ व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च । सर्वे हर्षयुता लोका गणेशभजने रताः ॥४८॥ गणेशभजनं सोमश्चकार प्रेमसंयुक्तः । गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥४९॥ महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् । गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥५०॥ पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् । लोकाः सर्वे सुखे मग्ना रोगवंध्यत्ववर्जिताः ॥५१॥ स्वधर्मनिरता नित्य- मभजन् गणनायकम् । न गणेशसमं किंचिद्धारयामासुरादरात् ॥५२॥ सोमश्चांते गणेशानं ययौ लोकसमन्वितः । स्वानंद ते प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥५३॥ एतत्ते कथितं भूप तथाऽन्यच्छृणु सुंदरम् । चरित्रं व्रतसंभूतं सर्वपापप्रणाशनम् ॥५४॥ कोऽप्यंत्यजो विदर्भे वै कौंडिन्ये नगरेऽवसत् । भानुनामा महापापी दुष्टकर्मपरायणः ॥५५॥ परस्त्रीलंपटोऽत्यंतं मद्यद्यूतरतः सदा । मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥५६॥ जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप । कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥५७॥ इत्यादिदोषबाहुल्ययुक्तः परमदारुणः । कदाचिद्दैवयोगेन वने बभ्राम सोऽन्त्यजः ॥५८॥ तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका । तत्राऽन्नजलहीनोऽयं पर्वतांतरगोऽभवत् ॥५९॥ न प्राप्तवान् वने किंचिद् दुष्टस्तेन सुदुःखितः । क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥६०॥ प्रभाते विमले सद्यः समुत्थाय गृहागतः । तृषितः स जलं तत्र पपावत्यंतमादरात् ॥६१॥ ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप । ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥६२॥ गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः । सायुज्यं गणनांथस्य लेभे वै तत्प्रभावतः ॥६३॥ अज्ञान- व्रतजेनैव पुण्येनॉन्त्यजजातिजः । ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥६४॥ एतादृशी महापुण्या चतुर्थी शुक्लगा मता । माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥६५॥ एवं नाना जना भूप ब्रह्मभूता बभूविरे । कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥६६॥ माघे शुक्लचतुर्थ्यां यो महिमानं शृणोति चेत् । पठेद्वा तस्य भो राजन् सिद्धिदं शुभविष्यति ॥६७॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥

खं. ४ अ. १३ पान ३९

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् । पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥१॥ वसिष्ठ उवाच । फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् । तस्या माहात्म्यमार्थं ते संक्षेपेण ब्रवीम्यहम् ॥२॥ मालवे नगरं ख्यातं सर्वशोभासमन्वितम् । भारकं सर्वधर्मज्ञैर्लोकैस्तत् संकुलं बभौ ॥३॥ तत्र हेमांगदो राजा चकार राज्यमुत्तमम् । जित्वा भूमंडलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥४॥ प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसंमतः । पुत्रैस्तेजो- युतैर्युक्तो द्विजदेवातिथिप्रियः ॥५॥ ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह । उदरे शस्त्रसंपातैरिव युक्तो रुरोद ह ॥६॥ नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् । मंत्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥७॥ तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः । असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥८॥ ततः शूलेन राजाऽतिपीडितो दारुणेन वै । विषादिभि- र्मतिं चक्रे देहत्यागे विशेषतः ॥९॥ ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः । तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥१०॥ ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः । उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥११॥ हेमांगद उवाच । धन्यं मे जन्म दानादि पिता माता कुलादिकम् । स्वधर्मपुत्रदारादि त्वदंघ्रियुगदर्शनात् ॥१२॥ ततोऽतिपीडया युक्तः पपात धरणीतले । रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥१३॥ पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः । किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥१४॥ सचिवा ऊचुः । शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः । तीर्थमंत्र- प्रयोगैश्च नानायत्नैर्महामुने ॥१५॥ श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः । ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥१६॥ पर्वत उवाच । शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् । वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि सांप्रतम् ॥१७॥ चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः । तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥१८॥ पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् । कृत्वा करपुटं भूप विनयावनतो वचः ॥१९॥ हेमांगद उवाच । कीदृशं तद्व्रतं स्वामिन् केन संचरितं पुरा । कस्यैव पूजनं तत्र वद मे सर्वमंजसा ॥२०॥ पर्वत उवाच । सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् । चतुर्णां पुरुषार्थानां साधनं सर्वसंमतम् ॥२१॥ ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् । तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥२२॥ कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥२३॥ पर्वत उवाच । पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् । तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥२४॥ अहं तपसि संतिष्ठन्नानायतनपरायणः ।

सं व्याप्तं तपसा सर्वं मदीयेन महामते ॥२५॥ इंद्रः प्रक्षुभितोऽत्यंतं काममप्सरसा युतम् । प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥२६॥ ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः । तपसस्तेजसा सत्यं पलायत स सैनिकः ॥२७॥ ततोऽहं तपसा युक्तोऽतन्निष्ठश्चाऽभवं नृप । तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥२८॥ नानाभूमिपरो जातस्ततोऽतिभाग्य- गौरवात् । निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥२९॥ दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः । अपूजयं विधानेन ततस्तं स्म वदामि वै ॥३०॥ धन्यो मे जनको माता तपो धन्यं जनुस्तथा । ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥३१॥ अधुना वद मे नाथ योगं शांतिप्रदायकम् । येनाऽहं योगिवंद्यश्च भवेयं साधनान् मुने ॥३२॥ वसिष्ठ उवाच । इति पृष्टो महातेजा निदाघस्तमुवाच ह । पर्वतं तपसा शुद्धं प्रहृष्टेनांतरात्मना ॥३३॥ निदाघ उवाच । शृणु वृत्तं मदीयं ते कथयामि पुरातनम् । येन योगींद्र वंद्यश्च जातोऽहं योगसेवया ॥३४॥ अहं योगार्थमत्यंतं योगभूमिपरायणः । असाधयं महायोगं ब्रह्मभूयकरं परम् ॥३५॥ ततोऽतेऽहं सदानंदे समः स्वानंदकेऽभवम् । संस्थितस्तत्र भो राजन् दृष्ट्मानंदरूपकम् ॥३६॥ द्वंद्वैः सर्वत्र संव्याप्तं द्वंद्वे तद् योगरूपि च । तेन शांतिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥३७॥ तं प्रणम्य महात्मानमवदं वद शांतिदम् । योगं विष्णो महायोगिन् येन शांतो भवाम्यहम् ॥३८॥ विष्णुरुवाच । योगशांतिप्रदं तात गणेशं विद्धि मानद । तं ज्ञात्वा शांतिमापन्ना वयं सर्वे च योगिनः ॥३९॥ मनोवाणीमयं विद्धि गकारं च तयोः परम् । मनोवाणीविहीनं तं णकारं योगिसंमतम् ॥४०॥ तयोः स्वामी गणाधीशस्तं भजस्व विधानतः । ततः शांतिं महाभाग लभसे नाऽत्र संशयः ॥४१॥ एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः । तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥४२॥ एकाक्षरस्य मंत्रस्य संतुष्टोऽभूद्गजाननः । गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥४३॥ ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् । ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥४४॥ स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः । योगशांतिं गणेशानो दत्त्वा मे प्रजगाम ह ॥४५॥ तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै । भजस्व गणराजं त्वमतस्तं शांतिदं परम् ॥४६॥ एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततः सोऽंतर्हितोऽभवत् ॥४७॥ पर्वत उवाच । भजामि गणनाथं स्म ततोऽहं नित्यमादरात् । तेनोक्तविधिना राजन् शांतिं प्राप्तो विशेषतः ॥४८॥ अपूजयं हि गणपं ततो नित्यं तपोध्वितः । ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥४९॥ स्तुतः संपूजितो मे स भक्तिं दत्त्वा महामते । स्वानंदे स गतो राजन्

खं. ४ अ. १३ पान ४१ भक्तानंदविवर्धनः ॥५०॥ एवमुक्त्वा पर्वतस्तं ददौ मंत्रं दशाक्षरम् । गणेशस्य महाराज ततश्चांतर्हितोऽभवत् ॥५१॥ राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः । फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम् ॥५२॥ ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप । शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥५३॥ ततः शूलव्यथाहीनो बभूवे राजसत्तमः । दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥५४॥ पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः । धनधान्यादिभिः सर्वे मुमुदुर्भूम force मुमुदुर्भूमिमंडले ॥५५॥ ततो हेमांगदो राजा भक्त्या विघ्नेशमुत्तमैः । उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥५६॥ पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शांतिसंयुक्तः । गणेशं सर्वभावेनांते च तन्मयतामयात् ॥५७॥ क्रमेण भूमिसंस्था ये नराः स्वानंदगा बभुः । भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥५८॥ अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् । भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥५९॥ बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् । हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥६०॥ परस्त्रीलंपटो नित्यं यौवने सोऽतिदारुणः । पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥६१॥ शस्त्रधारी वने गत्वा जंतून् जघ्ने स नित्यशः । द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥६२॥ एवं पापसमाचारो वने कस्मिन् दिने स्थितः । वैश्यं दृष्ट्वा च तं हंतुमधावत् स वधप्रियः ॥६३॥ पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् । तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषा- ऽऽययुः ॥६४॥ ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् । राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥६५॥ राज्ञाऽऽज्ञाप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् । नाविदन् ब्राह्मणं राजंश्क्षिप्तुर्निगडे द्विजम् ॥६६॥ ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता । बद्धस्तत्र निराहारो बभूवे स नराधमः ॥६७॥ पंचम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः । दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥६८॥ स स्वानंदपुरे नीतो गाणपत्यैर्नृपात्मज । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥६९॥ एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे । तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥७०॥ फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत् । पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥७१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥

खं. ४ अ. १४ पान ४२

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया । शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु ॥१॥ अतो मां चैत्रगाया यद्दरदायाश्चरित्रकम् । गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम् ॥२॥ वसिष्ठ उवाच । बंगालं नगरं ख्यातं शोभावद्राख्यमुत्तमम् । तत्र चंद्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् ॥३॥ शस्त्रास्त्रैः शत्रुसंघातान् जित्वा वीरश्रिया युतः । सागरांतां धरित्रीं स चकार वशवर्तिनीम् ॥४॥ सामंता वशगाः सर्वे चक्रुः सेवादिकं नृपाः । तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः । ५॥ स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु । संस्थितान् रक्ष्यंश्चैव सदा हीनानदंडयत् ॥६॥ चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम् । तथापि रोगसंयुक्ता नरा नार्योऽभवन् हि वै ॥७॥ वंध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः । राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत् ॥८॥ नागरादय ऊचुः । वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः । अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात् ॥९॥ तथापि रोगदोषैश्च वंध्यदोषैर्विशेषतः । धनधान्यविहीनाश्च पीडिता वयमुत्कटम् ॥१०॥ पृथिवी रसहीना वै फलहीना महीरुहाः । गावो दुग्धविहीनाश्च तव राज्ये महामते ॥११॥ धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः । विपरीतं महाराज त्वयि राज्यं प्रशासति ॥१२॥ अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान् । अस्माकं बलमत्यंतं त्वमेव परमं मतम् ॥१३॥ वसिष्ठ उवाच । चंद्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥१४॥ वने गंतुं मनश्चक्रे ततस्तत्राऽऽजगाम ह । अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः ॥१५॥ संपूज्य भोजयामास पादसंवाहने रतः । स्वयं स्थितो महाविप्रमृचेऽसौ दुःखसंयुतः ॥१६॥ चंद्रप्रिय उवाच । धन्यं मे जन्म कर्मादि पिता माता तपो यशः । दानं ज्ञानं तथा योगिन् त्वत्पादयुग- दर्शनात् ॥१७॥ ततः सर्वं स्ववृत्तांतं कथयामास यत्नतः । अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् ॥१८॥ अष्टावक्र उवाच । राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते । तेन दुःखयुता सर्वा प्रजा जाता न संशयः ॥१९॥ चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम् । चतुर्थीसंज्ञकं नष्टं तव राज्ये नृपाधम ॥२०॥ पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम् । अंते नरकगा राजन् भविष्यंति त्वया सह ॥२१॥ अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः । उवाच दुःखसंयुक्तो वचनं स्वहित- प्रदम् ॥२२॥ चंद्रप्रिय उवाच । ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम् । कीदृशं कस्य देवस्य प्रियमित्यदिकं प्रभो ॥२३॥ अष्टावक्र उवाच । कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप । सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये ॥२४॥ इत्युक्त्वा

खं. ४ अ. १४ पान ४३ कथयामास चरित्रं सकलं द्विजः । चतुर्थीसंभवं तात श्रुत्वा राजा सुविस्मितः ॥२५॥ पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः । कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥२६॥ वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः । व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥२७॥ अष्टावक्र उवाच । गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते । तथापि शृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥२८॥ पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः । सुरूपका अप्सरसो याताश्चलयितुं ततः ॥२९॥ तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः । मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥३०॥ इति मद्गिरमाकर्ण्य भयभीताः समंततः । ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥३१॥ अवदं तत्र विष्णुर्वै यादवेषु भविष्यति । तस्य पत्न्यो भविष्यंत्योंऽते चौराणां भविष्यथ ॥३२॥ गता अप्सरसो राजंस्ततोऽहं तप आचरम् । प्रभावेणातितपसोंऽतर्ज्ञानं मेऽभवत् परम् ॥३३॥ ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् । नानायोगविचारेण समाधिं साधयन्नृप ॥३४॥ एवमंते समानंदे संस्थितोऽहं विशेषतः । तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥३५॥ ततः शांत्यर्थमत्यंतं क्लिश्यामि स्म महामते । ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥३६॥ वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः । प्रणम्याऽहं विशेषेणापूज्यावोचं महामुनिम् ॥३७॥ धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा । तव पादस्य योगेन कृतकृत्योऽस्मि सांप्रतम् ॥३८॥ एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः । किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥३९॥ ततस्तं प्रणतो भूत्वा कृतांजलिपुटः पुनः । अवदं योगशांतिं मे वद योगींद्रसत्तम ॥४०॥ ऋभुरुवाच । संयोगः पंचधा तात सदसत्समने तितः । स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥४१॥ अयोगः पंचभिर्हीनो निवृत्या लभ्यते जनैः । तयोर्योगे भवेद्योगो लभ्यते शांतिमार्गतः ॥४२॥ तमेव गणराजं त्वं ज्ञात्वा भज महामते । तेन शांतिभवं सौख्यं लभसे नान्यथा क्वचित् ॥४३॥ संयोगो हि गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणेशानः पश्य वेदे महामते ॥४४॥ अहं पुरा युतो भ्रांत्या नानायोगपरायणः । अभवं तत्र भो विप्र सहजेन समाश्रितः ॥४५॥ स्वाधीनत्वमहो दृष्ट्वा तन्न तेन सुविस्मितः । शरणं शंकरस्यैव गतोऽहं योगकाम्यया ॥४६॥ शंकरेणोपदिष्टः स्म भजामि गणनायकम् । एकाक्षरविधानेन तेन शांतिं गतोऽभवम् ॥४७॥ एवमुक्त्वा गणेशस्य मह्यं मंत्रं ददौ ऋभुः । एकाक्षरस्य मंत्रस्य जपैः शांतिं गतोऽभवम् ॥४८॥ अष्टावक्रः प्रसन्नात्मा योगिवंद्यो महायशाः । तस्मै नृपाय मंत्रं स ददौ द्वादशवर्णकम् ॥४९॥ सविधिं मंत्रराजं तं

[Page Header] [H1] खंड. ४ अ. १५ [H2] पान ४४


दत्त्वा चांतर्हितोऽभवत् । राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत् ॥५०॥ तत्रादौ चैत्रमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा ॥५१॥ ततः स घोषयामास व्रतं जनपदेषु तत् । शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा ॥५२॥ ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः । नानादोषविहीनास्ते विहारं चक्रुरादरात् ॥५३॥ चंद्रप्रियो गणेशानमभजन्नान्यचेतसा । पुत्रे राज्यं निवेश्यैव सस्त्रीको वनगोऽभवत् ॥५४॥ ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः । स्वानंदे गणपं गत्वा ब्रह्मभूतो बभूव ह ॥५५॥ क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप ॥५६॥ अन्यत्त्वं शृणु चैत्रे वै शुक्लपक्षे चतुर्थिका । तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम् ॥५७॥ मालवे शूद्रजः पापी कोऽवसन् वनगोचरान् । जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः ॥५८॥ तस्य पापस्य संख्यानं कर्तुं नैव भवाम्यहम् । समर्थो गणना त्यक्ता ग्रंथबाहुल्यदोषतः ॥५९॥ तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम् । वंचयित्वा जनान् घ्नंतं तत्र सर्पो ददंश ह ॥६०॥ ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत । ततो विषेण राजेंद्र पीडितो मूर्च्छितो- ऽभवत् ॥६१॥ दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप । चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः ॥६२॥ पंचम्यां स मृतः पापी गतः स्वानंदके पुरे । व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज ॥६३॥ एवं नानाविधा राजन् ब्रह्मभूता बभूविरे । तेषां चरित्रकं वक्तुं शक्यते न मया कदा ॥६४॥ इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संशृणोति चेत् । माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा ॥६५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना शुक्लगायास्तु वैशाखे चरितं वद । चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात् ॥१॥ वसिष्ठ उवाच । गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम् । तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् ॥२॥ सर्वशास्त्रार्थसंपन्नो यज्वा दानप्रियः सदा । देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत् ॥३॥ सर्वान् राज्ञो वशे कृत्वा पृथिवीमंडलाधिपः । बभूव बलसंपन्नः सर्वमान्यो महामतिः ॥४॥ तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः । द्वितीया च कृता पत्नी समशीला नृपेण ह ॥५॥ साऽपि तद्वन् मृता राजन्नेवं पंच मृतास्ततः । पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत् ॥६॥

खं. ४ अ. १५ पान ४५ राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम् । स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः ॥७॥ श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम् । संस्थाप्य कुशलत्वेन मानयामास हर्षितः ॥८॥ भोजयित्वा स राजानं महत् पप्रच्छ कारणम् । किमर्थं राजशार्दूल कृतमागमनं त्वया ॥९॥ वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात् । ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः ॥१०॥ एवं पृष्टः स राजर्षिस्तं प्रणम्य कृतांजलिः । जगाद सर्वं वृत्तांतं पत्नीनाशात्मकं स्वयंम् ॥११॥ तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः । ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुक्तः ॥१२॥ श्वेतकेतुरुवाच । नृपाधम महापापिन् शृणु मे वचनं हितम् । व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः ॥१३॥ चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम् । नारकी च भवत्यंते स नरो नाऽत्र संशयः ॥१४॥ चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप । चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः ॥१५॥ श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः । प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुक्तः ॥१६॥ ब्रह्मप्रिय उवाच । अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत् । अनाचरणकं तेन क्षमस्व करुणानिधे ॥१७॥ वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम् । पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै ॥१८॥ एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत् । माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत् ॥१९॥ ब्रह्मप्रिय उवाच । कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम् । स्वरूपं वद मे तस्य भजिष्यामि तमादरात् ॥२०॥ श्वेतकेतुरुवाच । शृणु राजन् पुरावृत्तं कथयामि समासतः । मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम् ॥२१॥ अहं पुरा तपोनिष्ठो बभूवातितरां नृप । उद्दालकं प्रणम्यैव पितरं साधने रतः ॥२२॥ ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः । जगाद स्नेहसंयुक्तः शांतिदाता महायशाः ॥२३॥ उद्दालक उवाच । पुत्र शांत्यर्थमेव त्वं तपस्त्यक्त्वा महामते । कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन् ॥२४॥ कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद । चित्ते चिंतामणिं तात पश्य पश्य विशेषतः ॥२५॥ पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम् । वद तात स्वपुत्राय ज्ञानं शांतिप्रदं महत् ॥२६॥ चित्तं च कीदृशं तात तत्र चिंतामणिः कथम् । सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः ॥२७॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तमारुणिरुवाच ह । हर्षेण महता युक्तो गाणपत्यस्वभाववान् ॥२८॥ उद्दालक उवाच । शृणु पुत्र महाभाग योगशांतिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥२९॥ चित्तं पंचविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसंज्ञितम् ॥३०॥ तत्र प्रकाशकर्ताऽसौ हृदि चिंतामणिः स्थितः । साक्षाद्योगेन

खं. ४ अ. १५ पान ४६

योगज्ञैर्लभ्यते भूमिनाशनात् ॥३१॥ चित्तरूपा स्वयं बुद्धिश्चित्तभ्रांतिकरी मता । सिद्धिमर्ये गणेशस्य मायाखेलक उच्यते ॥३२॥ अतो गणेशमंत्रेण गणेशं भज पुत्रक । तेन त्वं ब्रह्मभूतत्वं शांत्या योगेन यास्यसि ॥३३॥ इत्युक्त्वा गणराजस्य ददौ मंत्रं तथाऽऽरुणिः । एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम् ॥३४॥ तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम् । क्रमेण शांतिमापन्नो योगिवंद्योऽभवं ततः ॥३५॥ अतस्त्वमपि राजेंद्र भजस्व गणनायकम् । तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम् ॥३६॥ ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः । एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम् ॥३७॥ विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययौ । श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा ॥३८॥ तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता । चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः ॥३९॥ तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान् । शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप ॥४०॥ राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम् । पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत् ॥४१॥ मंत्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः । व्रतयुक्तस्तथांऽते स ब्रह्मभूतो बभूव ह ॥४२॥ ब्रह्मप्रियेति नामाऽभूत् तद्देवं सार्थकं कृतम् । तेन राज्ञा महाभाग गाणपत्यस्वभावतः ॥४३॥ तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप । क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानंदके पुरे ॥४४॥ उद्दालकश्वेतकेतू गाणपत्यस्वभावतः । अवधूतौ तु विख्यातौ बभूवाते महाप्रभू ॥४५॥ श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात् । सर्वेभ्यः सुखदाऽत्यंतं तां शृणुष्व विशेषतः ॥४६॥ कदाचि- दारुणिस्र्तत्र सस्त्रीकः स्वाश्रमे स्थितः । आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः ॥४७॥ जगाद स्त्रियमेवं स आरुणेः कामविह्वलः । मैथुनाय समागच्छ मया सह सुरूपिणि ॥४८॥ तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत् । मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः ॥४९॥ तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः । एवं चेत् पतिमेकं वृणोति सा कामिनी कथम् ॥५०॥ अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम् । असमंजसकं मत्वा मर्यादां कारयाम्यहम् ॥५१॥ अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम् । स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः ॥५२॥ अथवा पुरुषं कंचित् पतिं त्यक्त्वा च कामिनी । गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत् ॥५३॥ यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक । तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः ॥५४॥ तदादि संवृता स्त्री सा सेवते भावतः पतिम् । विनायकप्रसादेन तेनेयं स्थापिताऽभवत् ॥५५॥ प्रसंगात्ते मया ख्यातमुद्दालकविचेष्टितम् । माहात्म्यमन्यदधुना चतुर्थीसंभवं शृणु ॥५६॥ महाराष्ट्रे द्विजः कश्चित् परस्त्रीलंपटोऽभवत् ।

[Header] खं. ४ अ. १६ पान ४७

[Text] तदर्थं तेन मद्यस्य कृतं पानं विशेषतः ॥५७॥ चौर्येण धनमादाय हिंसाकर्मपरायणः । नानापापरतो भूत्वा परस्त्रियमसेवत ॥५८॥ जगाम शूद्रगेहे स एकदा कामविह्वलः । धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह ॥५९॥ एवं किंचिद्गते काले शूद्रः स्वगृहमागतः । तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः ॥६०॥ तस्मिन् दिने समायाता चतुर्थी दैवयोगतः । तत्र शस्त्रा- भिघातस्य पीडया संयुतोऽभवत् ॥६१॥ अन्नादिभिर्विहीनश्च पंचम्यां स ममार ह । ततः स्वानंदके लोके जगाम भृशपूजितः ॥६२॥ वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः । ब्रह्मभूतः स वै जातो महापापपरायणः ॥६३॥ अज्ञानव्रतजेनैव पुण्यैनाऽसौ द्विजाऽधमः । ब्रह्मभूतश्च संजातो ज्ञानिनां तत्र का कथा ॥६४॥ नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप । बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते ॥६५॥ एतद् वैशाखशुक्लायाश्चतुर्थ्याः शृणुयात्तु यः । माहात्म्यं प्रपठेद्वाऽपि स लभेदीप्सितं फलम् ॥६६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पंचदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम् । चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो ॥१॥ वसिष्ठ उवाच । आंध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः । शस्त्रास्त्रनिपुणोऽत्यंतं नानाधर्मपरायणः ॥२॥ वशं भूमंडलं यस्य समुद्रांतं बभूव ह । तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत् ॥३॥ दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽति- दारुणः । अग्निवद् दाहको देहे पापेन प्रेरितः परः ॥४॥ तेनातिपीडितो राजा मूत्रितुं न शशाक सः । रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम् ॥५॥ नानोपायाः कृतास्तेन शांतो रोगो बभूव न । ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम् ॥६॥ वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम् । सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह ॥७॥ तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः । तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणाम सः ॥८॥ स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत् । ततोऽति- दाहसंयुक्तः पपात च रुरोद सः ॥९॥ तादृशं नृपनाथं स दृष्ट्वा योगींद्रसत्तमः । ध्यानेनालोक्य राजानमुवाच दयया युतम् ॥१०॥ भरद्वाज उवाच । शृणु कर्दम राजेंद्र वचनं मे हितावहम् । येन दुःखविहीनस्त्वं भविष्यसि महामते ॥११॥

खं. ४ अ. १६ पान ४८ चतुर्थीव्रतमत्यंतं नष्टं राज्ये त्वदीयके । तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥१२॥ अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते । पुण्येन तेन राजेंद्र दुःखहीनो भविष्यसि ॥१३॥ भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः । कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥१४॥ कर्दम उवाच । भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकंपितः । व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥१५॥ भरद्वाज उवाच । संकष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके । व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥१६॥ सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप । चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥१७॥ अतो हीनश्रुतुभिस्त्वं स जनो नरके नृप । पतिष्यसि न संदेहस्तदर्थं यत्नमाचर ॥१८॥ एवमुक्त्वा स माहात्म्यं चतुर्थीसंभवं नृप । कथयामास भूपाय श्रुत्वा राजा ननंद ह ॥१९॥ पुनः प्रपच्छ तं विप्रं भरद्वाजं स कर्दमः । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥२०॥ भरद्वाज उवाच । गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप । न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम् ॥२१॥ पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् । सर्वं चराचरं राजन् मदधीनं बभूव ह ॥२२॥ तथाऽपि तपसोग्रेणाऽसाध्यं तु तपः पुनः । ततोऽतज्ञानभावे मे मतिर्जाता सुपुण्यतः ॥२३॥ तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् । जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥२४॥ ततः क्रमेण भो राजन्नसत्त्वानंदगोऽभवम् । तत्र संपूर्णयोगेन शांतिं प्राप्तो विशेषतः ॥२५॥ तस्माद्वेदादिकं सर्वमुत्पन्नं तु विशेषतः । तद् दृष्ट्वा क्षुभितोऽत्यंतं शांतिहीनो यथाऽभवम् ॥२६॥ ततोऽकस्माद्रैवतो यो महायोगी समागतः । आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥२७॥ स्वासने सुखमासीनमब्रुवं तं महामुनिम् । अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥२८॥ वद मे योगशांतिं त्वं योगींद्राणां गुरुर्भवान् । तिष्ठामि शांतिगो भूत्वा ययाऽहं योगधारकः ॥२९॥ रैवत उवाच । स्वानंदः पंचधा प्रोक्तः सदसत्समने तितः । चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥३०॥ अयोगः स्वस्वरूपेण हीनः सर्वत्र संमतः । तयोर्योगो भरद्वाज योगशांतिप्रदायकः ॥३१॥ स्वसंवेद्यो गकारश्च णकारो योग उच्यते । तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥३२॥ तं भजस्व महाभाग ततः शांतिमवाप्स्यसि । नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥३३॥ एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा । तेनाऽहं शांतिमापन्नो गाणपत्य- श्ररामि वै ॥३४॥ एवमुक्त्वा ददौ तस्मै स्वमंत्रं सिद्धिदायकम् । एकाक्षरं गणेशस्य सविधिं न्याससंयुक्तम् ॥३५॥ पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् । भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥३६॥ ततः शांतिं समापन्नो तथापि भजने रतः ।

खं. ४ अ. १६ | पान ४९ गतेषु दशवर्षेषु विघ्नेशस्तं। समाययौ ॥३७॥ तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् । स साङ्गामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥३८॥ ततो मां गाणपत्यं स कृत्वा स्वानंदगोऽभवत् । गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥३९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् । अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥४०॥ ततश्चांतर्हितो राजन् भरद्वाजो महामुनिः । कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥४१॥ तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥४२॥ वरदं संकटं शुक्ले चतुर्थीजं च कृष्णके । न करोति नरो यः स संताड्यो नगराद्बहिः ॥४३॥ प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् । कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥४४॥ प्रमेह- दुःखनिर्मुक्तो बभूवे राजसत्तमः । कर्दमः स स्वकीयं वै राज्यं पुत्राय संददौ ॥४५॥ वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा । गणेशं सर्वभावेन सोऽन्ते तन्मयतामयात् ॥४६॥ तस्य राज्ये जनाः सर्वे ते क्रमेण महामते । अभवन् ब्रह्म- भूताश्च व्रतपुण्यप्रभावतः ॥४७॥ कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम् । गौडदेशेऽन्त्यजः कश्चिद्बभूवे पापकारकः ॥४८॥ वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा । योनिलंपटभावेन दूषितामकरोत् स्त्रियम् ॥४९॥ वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा । धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥५०॥ एवं नानास्वभावेन पापं चक्रे स नित्यशः । एकदा ब्राह्मणं कंचिद् दृष्ट्वा हंतुं समाययौ ॥५१॥ पलायत भयोद्विग्नो हाहाकारपरायणः । तस्य नादं समाकर्ण्य पुरुषाः पंच आययुः ॥५२॥ तैर्हतः शस्त्रघातेन पपात धरणीतले । तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥५३॥ स उपोषणयुक्तश्च बभूवे दैवयोगतः । ममार पीडया युक्तः पंचम्यां पापरूपकः ॥५४॥ अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह । चांडालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥५५॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः ॥५६॥ तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते । अपारमहिमा तस्मादानंत्यं कथितं द्विजैः ॥५७॥ इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः । पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥५८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥

ख. ४ अ. १७ पान ५० ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत् । चतुर्थ्यां नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम् ॥१॥ वसिष्ठ उवाच । मैथिले विषये राजन्नगरं गंडकी महत् । तत्र राज्यं भद्रसेनश्चकारामिततेजसा ॥२॥ शस्त्रास्त्रनिपुणोऽत्यंतं परराष्ट्रावमर्दनः । जित्वा भूमंडलं सर्वं समुद्रवलयांकितम् ॥३॥ राज्यं चकार धर्मेण नीत्या दंडेने भूमिप । यज्वा विनीतको मानी द्विजदेवातिथिप्रियः ॥४॥ वशगाः सर्वराजानः सेवंते स्म नराधिपम् । अपारसेनया युक्तं करदा इतरेऽभवन् ॥५॥ तस्य राज्ये शुका राजन् शलभा मूषकास्तथा । अपारा भक्षयंति स्म धान्यं वस्त्रादिकं बलात् ॥६॥ तेषां नाशार्थमत्यंतं भद्रसेनः प्रतापवान् । अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून् ॥७॥ अस्त्रशस्त्रेण समंतात्तान् दग्धानपि च तादृशान् । ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः ॥८॥ यत्र तत्र गृहांतोषु चेरुस्ते शलभादयः । अशक्तः स वने गत्वा बभूव ह सुदुःखितः ॥९॥ उपोषणपरो राजा तताप तप उत्तमम् । शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः ॥१०॥ गते वर्षे महायोगी बकदालभ्यः समाययौ । तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम् ॥११॥ राजा तं पूजयामास संभोज्य नयसंयुतः । पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा ॥१२॥ भद्रसेन उवाच । स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः । अत्यंतं पीडयंति स्म जनान्मां भक्षणे रताः ॥१३॥ तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः । राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात् ॥१४॥ शंकरं संभजंस्तत्र दर्शनं ते महामते । प्राप्तस्तपः- प्रभावेण तत्रोपायं वद प्रभो ॥१५॥ वसिष्ठ उवाच । भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः । जगाद बकदालभ्यः स तं भूपं हर्षयन्निव ॥१६॥ बकदालभ्य उवाच । शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम । शृणु मे परमं वाक्यं दुःखनाशकरं महत् ॥१७॥ राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह । चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि सांप्रतम् ॥१८॥ प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे । राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः ॥१९॥ सर्वार्दौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो । चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम् ॥२०॥ न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम् । चतुःपदार्थहीनत्वाद्विचारय महामते ॥२१॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदालभ्यकः । कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद्वचः ॥२२॥ भद्रसेन उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः ॥२३॥ बकदालभ्य उवाच । पुरावृत्तं मदीयं यच्चेष्टितं शृणु भूमिप । तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः ॥२४॥ पुराऽहं तपसा युक्तो ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

[Header] खं ४ अ. १७ | पान ५१


वायुमात्राशनोऽभवम् । चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥२५॥ तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् । बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥२६॥ तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् । तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥२७॥ शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् । असाधयं सदाऽत्यंतं मनोनिग्रहतत्परः ॥२८॥ एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् । ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥२९॥ ततो मयाऽतिमोहेन शून्यं स्वाधीन- रूपकम् । दृष्टं तेनाऽभवं भ्रांतो ब्रह्मणि त्वीदृशं कथम् ॥३०॥ ततोऽहं शरणं शंभुं गत्वा तं स्तुतवान् स्तवैः । प्रसन्नं शंकरं दृष्ट्वाऽवदं योगं वद प्रभो ॥३१॥ शिव उवाच । सत्यासत्यसमानानि सहजेन युतानि वै । निजात्मबोधतो विद्धि स्वानंदादुद्भवानि च ॥३२॥ संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः । अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥३३॥ संयोगश्च तथा योगस्तयोर्योगो महामते । योगशांतिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥३४॥ योगशांतिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥३५॥ संयोगश्च गकाराख्यो णकारो योगवाचकः । तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥३६॥ एवमुक्त्वा महादेवो ददौ मंत्रं द्विजाय मे । एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥३७॥ प्रणम्य शंकरं भूप गतोऽहं वनमेव च । अभजं गणराजं तं ध्यात्वा जपपरायणः ॥३८॥ ततस्तत्कृपया शांतिर्मया प्राप्ता विशेषतः । तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥३९॥ ततो मां दर्शयामास रूपं शुंडा- विराजितम् । दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥४०॥ भक्तिं दत्त्वा गणाधीशो ह्यंतर्धानं चकार मे । तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥४१॥ एवमुक्त्वा ददौ तस्मै मंत्रं पंचाक्षरं मुनिः । अंतर्धानं गणेशस्य स चकार द्विजोत्तमः ॥४२॥ बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः । चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥४३॥ ततः स नागरैः सार्धं चकार व्रतमुत्तमम् । आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥४४॥ ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥४५॥ शुकाश्च मूषकास्तत्र शलभा नाशमाययुः । धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥४६॥ नानादुःखं परित्यज्यानंदेनैव समावृताः । अंते स्वानंदगाः सर्वे ब्रह्मभूता बभूविरे ॥४७॥ राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् । तत्र तं गणराजं सोऽभजतानन्यभावतः ॥४८॥ अंते स्वानंदगो भूत्वा सस्त्रीकोऽजसमुद्भव । ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥४९॥ अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् । आषाढे

खं. ४ अ. १८ | पान ५२ वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥५०॥ वंगदेशे समुत्पन्नो वाणिजः पापकारकः । स्वधर्मं स परित्यज्य दुष्टकर्मरतो- ऽभवत् ॥५१॥ द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः । बलात् धृत्वाऽभुंक्त परस्त्रियं वशमनागताम् ॥५२॥ तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः । असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥५३॥ विषबाधासमायुक्तः स ममार ददाह तम् । ततो मातरमगम्य धनं जग्राह वै बलात् ॥५४॥ लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् । तस्य दुष्टस्य ते तत्र व्यथिताः संबभूविरे ॥५५॥ जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः । चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥५६॥ शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया । तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥५७॥ तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् । पंचम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥५८॥ अज्ञानव्रतपुण्येन स स्वानंदगतोऽभवत् । महापापी व्रतस्यैव प्रभावेण महीपते ॥५९॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह । एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥६०॥ तन्नैवं कति संख्यातुं शक्यते न कदाचन । वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥६१॥ यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् । वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥६२॥ इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् । शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥६३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते आषाढशुक्लचतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥१॥ वसिष्ठ उवाच । अंगदेशे पुरं श्रीमच्छततारं बभूव ह । राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥२॥ धर्मेण नीतियुक्तेन नानादानपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥३॥ नानाव्रतपरो राजा यज्वा तेजस्विनां वरः । शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥४॥ सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः । राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥५॥ एवं राज्यं वशं कृत्वा भूतलं स चकार ह । ततोऽकस्माज्जवरस्तस्य समुत्पन्नोऽतिदाहकः ॥६॥ ज्वरेण पीडितोऽत्यंतं निशि निद्रां न चाऽलभत् । नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥७॥ एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः । अत्यंतदुःखितो राजा विललाप भृशातुरः ॥८॥ विषेण देहपातार्थमुद्यतोऽभून् महीपतिः । जगाम

यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण दिया गया है:

शीर्षक (Header): लं. ४ अ. १८ | पान ५३


सहसा तत्र देवलो योगिसत्तमः ॥९॥ तं दृष्ट्वा प्रणनामाथ पूजयामास बांधवैः । भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥१०॥ अश्वसेन उवाच । धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् । अधुना सफलं दानं येन ते दर्शनं मुने ॥११॥ ज्वरेण पीडितोऽत्यंतं विषपाने महामुने । तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥१२॥ मृतोऽहं विषपानेनात्महत्यां न लभे कदा । तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥१३॥ एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः । उवाच भावगंभीरः सर्वशास्त्रार्थतत्त्ववित् ॥१४॥ देवल उवाच । राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम् । तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥१५॥ चतुःपदार्थदं पूर्णं सर्वादौ संमतं परम् । न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥१६॥ त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् । चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥१७॥ एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् । कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥१८॥ अश्वसेन उवाच । अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् । अधुना वद माहात्म्यं गणेशस्य महामुने ॥१९॥ देवल उवाच । गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते । उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥२०॥ असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् । सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥२१॥ पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः । जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥२२॥ मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः । ममाश्रमे न किंचिन् माऽवदत् सोऽपि महायशाः ॥२३॥ तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् । अकर्मकारकश्च स्म देहरक्षणतत्परः ॥२४॥ ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च । शांतियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥२५॥ ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले । मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥२६॥ अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः । तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥२७॥ त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमंडलम् । तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥२८॥ एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् । मया तेषु महायोगी दृष्टः संपूजितोऽमरैः ॥२९॥ ततोऽकस्मात् महायोगी सोऽन्तर्धानं चकार ह । तद् दृष्ट्वा सिद्धसंघांश्चापृच्छं तैः कथितं नृप ॥३०॥ ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् । ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥३१॥ तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः । संपूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥३२॥ तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् । छलनायां समायुक्तं दयया त्वं दयानिधे ॥३३॥ जैगीषव्य उवाच । हिंसात्मकं कुरुष्व त्वं