मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 446, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १६ पान ४८ चतुर्थीव्रतमत्यंतं नष्टं राज्ये त्वदीयके । तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥१२॥ अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते । पुण्येन तेन राजेंद्र दुःखहीनो भविष्यसि ॥१३॥ भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः । कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥१४॥ कर्दम उवाच । भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकंपितः । व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥१५॥ भरद्वाज उवाच । संकष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके । व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥१६॥ सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप । चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥१७॥ अतो हीनश्रुतुभिस्त्वं स जनो नरके नृप । पतिष्यसि न संदेहस्तदर्थं यत्नमाचर ॥१८॥ एवमुक्त्वा स माहात्म्यं चतुर्थीसंभवं नृप । कथयामास भूपाय श्रुत्वा राजा ननंद ह ॥१९॥ पुनः प्रपच्छ तं विप्रं भरद्वाजं स कर्दमः । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥२०॥ भरद्वाज उवाच । गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप । न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम् ॥२१॥ पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् । सर्वं चराचरं राजन् मदधीनं बभूव ह ॥२२॥ तथाऽपि तपसोग्रेणाऽसाध्यं तु तपः पुनः । ततोऽतज्ञानभावे मे मतिर्जाता सुपुण्यतः ॥२३॥ तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् । जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥२४॥ ततः क्रमेण भो राजन्नसत्त्वानंदगोऽभवम् । तत्र संपूर्णयोगेन शांतिं प्राप्तो विशेषतः ॥२५॥ तस्माद्वेदादिकं सर्वमुत्पन्नं तु विशेषतः । तद् दृष्ट्वा क्षुभितोऽत्यंतं शांतिहीनो यथाऽभवम् ॥२६॥ ततोऽकस्माद्रैवतो यो महायोगी समागतः । आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥२७॥ स्वासने सुखमासीनमब्रुवं तं महामुनिम् । अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥२८॥ वद मे योगशांतिं त्वं योगींद्राणां गुरुर्भवान् । तिष्ठामि शांतिगो भूत्वा ययाऽहं योगधारकः ॥२९॥ रैवत उवाच । स्वानंदः पंचधा प्रोक्तः सदसत्समने तितः । चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥३०॥ अयोगः स्वस्वरूपेण हीनः सर्वत्र संमतः । तयोर्योगो भरद्वाज योगशांतिप्रदायकः ॥३१॥ स्वसंवेद्यो गकारश्च णकारो योग उच्यते । तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥३२॥ तं भजस्व महाभाग ततः शांतिमवाप्स्यसि । नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥३३॥ एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा । तेनाऽहं शांतिमापन्नो गाणपत्य- श्ररामि वै ॥३४॥ एवमुक्त्वा ददौ तस्मै स्वमंत्रं सिद्धिदायकम् । एकाक्षरं गणेशस्य सविधिं न्याससंयुक्तम् ॥३५॥ पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् । भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥३६॥ ततः शांतिं समापन्नो तथापि भजने रतः ।