मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 447, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १६ | पान ४९ गतेषु दशवर्षेषु विघ्नेशस्तं। समाययौ ॥३७॥ तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् । स साङ्गामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥३८॥ ततो मां गाणपत्यं स कृत्वा स्वानंदगोऽभवत् । गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥३९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् । अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥४०॥ ततश्चांतर्हितो राजन् भरद्वाजो महामुनिः । कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥४१॥ तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥४२॥ वरदं संकटं शुक्ले चतुर्थीजं च कृष्णके । न करोति नरो यः स संताड्यो नगराद्बहिः ॥४३॥ प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् । कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥४४॥ प्रमेह- दुःखनिर्मुक्तो बभूवे राजसत्तमः । कर्दमः स स्वकीयं वै राज्यं पुत्राय संददौ ॥४५॥ वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा । गणेशं सर्वभावेन सोऽन्ते तन्मयतामयात् ॥४६॥ तस्य राज्ये जनाः सर्वे ते क्रमेण महामते । अभवन् ब्रह्म- भूताश्च व्रतपुण्यप्रभावतः ॥४७॥ कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम् । गौडदेशेऽन्त्यजः कश्चिद्बभूवे पापकारकः ॥४८॥ वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा । योनिलंपटभावेन दूषितामकरोत् स्त्रियम् ॥४९॥ वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा । धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥५०॥ एवं नानास्वभावेन पापं चक्रे स नित्यशः । एकदा ब्राह्मणं कंचिद् दृष्ट्वा हंतुं समाययौ ॥५१॥ पलायत भयोद्विग्नो हाहाकारपरायणः । तस्य नादं समाकर्ण्य पुरुषाः पंच आययुः ॥५२॥ तैर्हतः शस्त्रघातेन पपात धरणीतले । तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥५३॥ स उपोषणयुक्तश्च बभूवे दैवयोगतः । ममार पीडया युक्तः पंचम्यां पापरूपकः ॥५४॥ अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह । चांडालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥५५॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः ॥५६॥ तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते । अपारमहिमा तस्मादानंत्यं कथितं द्विजैः ॥५७॥ इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः । पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥५८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥