मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 452, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १८ पान ५४ कर्म मा यत्नधारकः । ब्रह्माहमिति बोधेन शमी दमपरो भव ॥३४॥ यदाज्ञावशगं सर्वं वर्तते तं भजस्व च । तेन योगी त्वमेवेह भविष्यसि न संशयः ॥३५॥ जैगीषव्यश्चैवमुक्त्वा तत्रैवांतरधीयत । अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥३६॥ ततः स्म पितरः सर्वे महत् कुर्वंति रोदनम् । अहो कर्म परित्यज्य देवलो न उपेक्षते ॥३७॥ अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः । देवलेन न संदेहः क्षुधाविष्टास्तृषा युताः ॥३८॥ तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः । मया दृष्टा ओषधयो महत् कुर्वंति रोदनम् ॥३९॥ अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः । निर्लज्जः पुनरेवाऽसौ छेद्यिष्यति दुर्मतिः ॥४०॥ ततोऽहं नितरां खिन्नो ह्युभयत्रैव संकटात् । विचार्य स्वहिते सक्तः शमी दमपरो- ऽभवम् ॥४१॥ सर्वाभयस्वभावेन कर्मणा योगसेवया । क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम् ॥४२॥ तत्र स्वाधीनतां दृष्ट्वा शांतिहीनोऽभवं पुनः । अगमं पितरं तत्र योगींद्रैर्वंदितं स्तुतम् ॥४३॥ तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् । योगशांतिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥४४॥ असित उवाच । संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल । चतुर्विधं समुत्पन्नं तत्यजस्व समाधिदम् ॥४५॥ अयोगेन च संयोगो दृश्यते योगिभिः कदा । संयोगायोगयोर्योगो योगशांतिप्रदो मतः ॥४६॥ भजस्व गणराजं त्वं तदर्थं नित्यमादरात् । सदा योगस्वरूपं तं शांतिदं योगिनोऽब्रुवन् ॥४७॥ संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके । तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥४८॥ एवमुक्त्वा ददौ मंत्रं मह्यमेकाक्षरं परम् । गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥४९॥ ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप । गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥५०॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमेव च । योगिवंद्योऽभवं राजंस्तथापि गणपं भजे ॥५१॥ गते वर्षे समायातो गणेशो भक्तवत्सलः । स्तुतः संपूजितस्तत्र मया हृष्टेन चेतसा ॥५२॥ ततो मां गाणपत्यं स पितृतुल्यं महोदरः । कृत्वा स्वानंदके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥५३॥ उक्त्वा दशाक्षरं मंत्रं ददावेवं नृपाय च । अंतर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥५४॥ ततः स राजशार्दूलो गणेशभजने रतः । तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥५५॥ तां चकार जनैः सर्वैः पुरवासिभिरादरात् । उपोषणसमायुक्तः पंचम्यां पारणे रतः ॥५६॥ ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह । जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥५७॥ ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् । शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥५८॥ आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः । व्रतस्य पुण्ययोगेन